| YouTube Channel

त्रिककुत् (trikakut)

 
शब्दकल्पद्रुमः
Sanskrit
त्रिककुत्, [द्]
पुं,
(त्रीणि ककुत्-सदृशानि ध्वज-तुल्याणि शृङ्गाणि यस्य ।) त्रिकूटपर्व्वतः ।इत्यमरः
(यथा, शतपथब्राह्मणे ।३ १२ “यत्र वा इन्द्रो वृत्रमहं-स्तस्य यदक्ष्यासीत्तं गिरिं त्रिककुदमकरोत्
”विष्णोर्नामविशेषः यथा, महाभारते १२ ।३४२ ९० ।“तथैवासं त्रिककुदो वाराहं रूपमास्थितः ।त्रिककुत्त्वेन विख्यातः शरीरस्य प्रमापणात्
”दशरात्रसाध्ययज्ञविशेषः यथा, तैत्तिरीय-संहितायाम् ।“त्रिककुद्वा एष यज्ञो यद्दशरात्रः ककुत्पञ्च-दशः ककुदेकविंशः कुकुत्त्रयस्त्रंशो एवंविद्वान् दशरात्रेण यजते त्रिककुदेव समानानांभवति
”)