| YouTube Channel

त्रिकं (trikaM)

 
शब्दकल्पद्रुमः
Sanskrit
त्रिकं,
क्ली,
(त्रयाणां सङ्घः “संख्यायाः संज्ञा-सङ्घसूत्राध्ययनेषु ।” ५८ इति कन् ।)पृष्ठवंशाधरः इत्यमरः ७६
(यथा, माघे १२ १० ।“नस्या गृहीतोऽपि धुवन्विषाणयो-र्युगं ससूत्कारविवर्त्तितत्रिकः
”)त्रयम् इति मेदिनी के, २६
(यथा, मनुः ५१ ।“दण्डस्य पातनञ्चैव वाक्पारुष्यार्थदूषणे ।क्रोधजेऽपि गणे विद्यात् कष्टमेतत्त्रिकं सदा
”)त्रिपथसंस्थानम् इति हेमचन्द्रः ५२
त्रिफला त्रिकटु त्रिमदः यथा, सुखबोधे ।गुडूचीसारसंयुक्तात्त्रिकत्रयसमन्वयात् ।वातरक्तं निहन्त्याशु सर्व्वरोगहरन्त्वयः
”(तृतीयेन रूपेण ग्रहणं यस्य तृतीय +“तावतिथं ग्रहणमिति लुग्वा ।” ७७ ।इति कन् पूरणप्रत्ययस्य लुक् तृतीयके, त्रि यथा, मनुः १४२ ।“द्विकं त्रिकं चतुष्कञ्च पक्षकञ्च शतं समम् ।मासस्य वृद्धिं गृह्णीयात् वर्णानामनुपूर्व्वशः
”)