| YouTube Channel

त्रास्यमानः (trAsyamAnaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“त्रसी उद्वेगे”@} 2 उद्वेगः = भयम् इति क्षीरस्वामी।
‘त्रसति त्रस्यतीत्येवमुद्वेगार्थे तु वा श्यनि।।’ 3 इति देवः।
त्रासकः-सिका, त्रासकः-सिका, तित्रसिषकः-षिका, तात्रसकः-सिका
त्रसिता-त्री, त्रासयिता-त्री, तित्रसिषिता-त्री, तात्रसिता-त्री
4 5 त्रस्यन्- 6 त्रसन्-न्ती, त्रासयन्-न्ती, तित्रसिषन्-न्ती
-- त्रसिष्यन्-न्ती-ती, त्रासयिष्यन्-न्ती-ती, तित्रसिषिष्यन्-न्ती-ती
-- -- त्रासयमानः, त्रासयिष्यमाणः, -- तात्रस्यमानः, तात्रसिष्यमाणः
7 सुत्रः-सुत्रसौ-सुत्रसः
-- -- -- 8 त्रस्तम्, 9 तरङ्गापत्रस्तः-त्रस्तवान्, त्रासितः, तित्रसिषितः, तात्रसितः-तवान्
त्रसः, वित्रासी, 10 तत्रसिवान्-त्रेसिवान्, 11 त्रस्नुः, 12 त्रासः, तित्रसिषुः, तात्रसः
त्रसितव्यम्, त्रासयितव्यम्, तित्रसिषितव्यम्, तात्रसितव्यम्
त्रसनीयम्, त्रासनीयम्, तित्रसिषणीयम्, तात्रसनीयम्
त्रास्यम्, त्रास्यम्, तित्रसिष्यम्, तात्रस्यम्
ईषत्त्रसः-दुस्त्रसः-सुत्रसः
-- -- त्रस्यमानः, त्रास्यमानः, तित्रसिष्यमाणः, तात्रस्यमानः
13 त्रासः, त्रासः, तित्रसिषः, तात्रसः
त्रसितुम्, 14 त्रासयितुम्, तित्रसिषितुम्, तात्रसितुम्
त्रस्तिः, त्रासना, तित्रसिषा, तात्रसा
त्रसनम्, त्रासनम्, तित्रसिषणम्, तात्रसनम्
त्रसित्वा, त्रासयित्वा, तित्रसिषित्वा, तात्रसित्वा
प्रत्रस्य, प्रत्रास्य, प्रतित्रसिष्य, प्रतात्रस्य
त्रासम् २, त्रसित्वा २, त्रासम् २, त्रासयित्वा २, तित्रसिषम् २, तित्रसिषित्वा २, तात्रसम्
तात्रसित्वा २। 15
प्रासङ्गिक्यः
01
=>
(७९०)
02
=>
(४-दिवादिः-१११७। सक। सेट्। पर।)
03
=>
(श्लो। १९१)
04
=>
[पृष्ठम्०७०५+ २७]
05
=>
[[१। ‘वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः’ (३-१-७०) इति श्यन्विकल्पः। तेन रूपद्वयम्। प्राप्तविभाषेयम्, तेन पक्षे शप् भवति।]]
06
=>
[[आ। ‘उपेक्षिता देवगणैस्त्रसद्भिर्निशाचरैर्वीतभयैर्निकृत्ताः।’ भ। का। ११। ४३।]]
07
=>
[[२। क्विपि, सकारस्य रुत्वविसर्गौ भवतः।]]
08
=>
[[३। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इति इण्णिषेधः।]]
09
=>
[[४। ‘अपेतापोढमुक्तपतितापत्रस्तैरल्पशः’ (२-१-३८) इति समासः।]]
10
=>
[[५। क्वसौ ‘वा जॄभ्रमुत्रसाम्’ (६-४-१२४) इति एत्वाभ्यासलोपः। छान्दसोऽपि क्वसुर्भाषायामपि प्रयुज्यत इत्यसकृत् प्रमाणप्रदर्शनपूर्वकमुक्तम्।]]
11
=>
[[६। ‘त्रसिगृधिधृषिक्षिपेः क्नुः’ (३-२-१४०) इति ताच्छीलिकः क्नुप्रत्ययः। ‘नेड् वशि कृति’ (७-२-८) इतीण्णिषेधः।]]
12
=>
[[B। ‘अथानुकूलश्रवणप्रतीतामत्रस्नुभिर्मुक्तधुरं तुरङ्गैः।’ रघुवंशे १४। ४७।]]
13
=>
[[७। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। त्रासः = भयम्, मणिदोषो वा।]]
14
=>
[[C। ‘फणावतस्त्रासयितुं रसायास्तलं विविक्षन् इव पन्नगारिः।।’ शि। व। ३। २३।]]
15
=>
[पृष्ठम्०७०६+ २५]
1 {@“त्रैङ् पालने”@} 2 3 त्रायकः-यिका, 4 त्रापकः-पिका, तित्रासकः-सिका, तात्रायकः-यिका
त्राता-त्रात्री, त्रापयिता-त्री, तित्रासिता-त्री, तात्रायिता-त्री
-- त्रापयन्-न्ती, त्रापयिष्यन्-न्ती-ती
-- -- 5 त्रायमाणः, 6 चोरात्] त्रायमाणः, त्रापयमाणः, तित्रासमानः, तात्राय्यमाणः
त्रास्यमानः, त्रापयिष्यमाणः, तित्रासिष्यमाणः, तात्रायिष्यमाणः
सुत्राः-सुत्रौ-सुत्राः
-- -- -- 7 त्रातम्-त्राणम्-त्रातः-त्राणः-त्रातवान्-त्राणवान्, 8 देवत्रातः-भवत्रातः, त्रापितः, तित्रासितः, तात्रायितः-तवान्
9 गोत्रः, 10 सुत्रः, आतपत्रम्, अङ्गुलित्रम्, 11 12 सुत्रायी, 13 त्रायः, 14 15 पार्ष्णिसंत्रायः, 16 सुत्रामा, 17 त्रापः, तित्रासुः, तात्रः
त्रातव्यम्, त्रापयितव्यम्, तित्रासितव्यम्, तात्रायितव्यम्
त्राणीयम्, त्रापणीयम्, तित्रासनीयम्, तात्रायणीयम्
18 त्रेयम्, त्राप्यम्, तित्रास्यम्, तात्राय्यम्
19 ईषत्त्राणः-दुस्त्राणः-सुत्राणः
-- -- त्रायमाणः, त्राप्यमाणः, तित्रास्यमानः, तात्रायमाणः
त्रायः, त्रापः, तित्रासः, तात्रायः
त्रातुम्, त्रापयितुम्, तित्रासितुम्, तात्रायितुम्
त्रातिः, 20 सुत्रा, त्रापणा, तित्रासा, तात्राया
त्राणम्, त्रापणम्, तित्रासनम्, तात्रायणम्
त्रात्वा, त्रापयित्वा, तित्रासित्वा, तात्रायित्वा
प्रत्राय, प्रत्राप्य, प्रतित्रास्य, प्रतात्राय्य
त्रायम् २, त्रात्वा २, त्रापम् २, त्रापयित्वा २, तित्रासम् २, तित्रासित्वा २, तात्रायम्
तात्रायित्वा २।
प्रासङ्गिक्यः
01
=>
(७९९)
02
=>
(१-भ्वादिः-९६५। सक। अनि। आत्म।)
03
=>
[[१। ‘आदेच उपदेशेऽशिति’ (६-१-४५) इत्यात्वे, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवमात्वं सर्वत्र, युगागमस्तु घञादिषु इति ज्ञेयम्।]]
04
=>
[[२। आदन्तलक्षणः पुगागमो ण्यन्ते सर्वत्र ज्ञेयः।]]
05
=>
[[३। शानचि, आत्वाभावे, आयादेशे रूपम्।]]
06
=>
[[[४। ‘भीत्रार्थानां भयहेतुः’ (१-४-२५) इति अपादानसंज्ञा चोरस्य।]]
07
=>
[[५। ‘नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्’ (८-२-५६) इति निष्ठानत्वविकल्पः।]]
08
=>
[[६। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तप्रत्ययः। ‘देवत्रातो गलो ग्राह इतियोगे सद्विधिः। मिथस्ते विभाष्यन्ते गवाक्षः संशितव्रतः।।’ (भाष्यम्--७-४-४१) इति व्यवस्थितविभाषाश्रयणाद् अत्र निष्ठानत्वं न। देवत्रात इत्युपलक्षणम्, संज्ञायामन्योपपदेऽपि भवतीति ज्ञापनाय भवत्रात इत्यप्युक्तम्।]]
09
=>
[[७। ‘आतोऽनुपसर्गे कः’ (३-२-३) इति कर्मण्युपपदेऽणपवादः कप्रत्ययः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः। एवम्, पार्ष्णित्रम्, तनुत्रम्, आतपत्रम् इत्यादिकमपि बोध्यम्।]]
10
=>
[[८। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्ययः।]]
11
=>
[[आ। ‘व्रजति पुरतरुण्यो बद्धचित्राङ्गुलित्रे कथमपि गुरुशोकान्मा रुदन् माङ्गलिक्यः।।’ भ। का। १। २६।]]
12
=>
[[९। ताच्छील्ये णिनिप्रत्ययः। युगागमः।]]
13
=>
[[१०। ‘श्याऽऽद्व्यथ--’ (३-१-१४१) इति कर्तरि णप्रत्यये रूपमेवम्।]]
14
=>
[पृष्ठम्०७०८+ २६]
15
=>
[[१। सोपसर्गे कर्मण्युपपदे तु कप्रत्ययं बाधित्वा औत्सर्गिकः ‘कर्मण्यण्’ (३-२-१) इत्यणेव भवति।]]
16
=>
[[२। ‘आतो मनिन्--’ (३-२-७४) इति मनिन्प्रत्ययः। सुत्रामा = इन्द्रः।]]
17
=>
[[आ। ‘सुत्रामपुत्रारिशिलीमुखानां स्मृत्वा गणस्तत्र वलीमुखानाम्।’ च। रा। ४। ४४।]]
18
=>
[[३। ‘अचो यत्’ (३-१-९७) इति यत्। ‘ईद् यति’ (६-४-६५) इति ईत्वे गुणे रूपम्।]]
19
=>
[[४। ईषदाद्युपपदेषु खलपवादः ‘आतो युच्’ (३-३-१२८) इति युच्।]]
20
=>
[[५। ‘आतश्चोपसर्गे’ (३-३-१०६) इति स्त्रियां भावादावङ्।]]