| YouTube Channel

त्रापः (trApaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“त्रपूष् लज्जायाम्”@} 2 घटादिः।
त्रापकः-पिका, 3 त्रपकः-पिका, 4 त्रापकः-पिका, 5 तित्रपिषकः-षिका, 6 तित्रप्सकः-प्सिका, 7 तात्रपकः-पिका
त्रपिता-त्रप्ता-त्री, त्रपयिता-त्री, तित्रपिषिता-तित्रप्सिता-त्री, तात्रपिता-त्री
-- त्रपयन्-न्ती, त्रपयिष्यन्-न्ती-ती
-- -- त्रपमाणः, त्रपयमाणः, तित्रपिषमाणः-तित्रप्समानः, तात्रप्यमानः
त्रपिष्यमाणः-त्रप्स्यमानः, त्रपयिष्यमाणः, तित्रपिषिष्यमाणः-तित्रप्सिष्यमाणः, तात्रपिष्यमाणः
त्रपू-त्रपौ-त्रपः
-- -- -- 8 त्रप्तम्-त्रप्तः-त्रप्तवान्, त्रपितः, तित्रपिषितः-तित्रप्सितः, तात्रपितः-तवान्
त्रपः, 9 अपत्रपिष्णुः 10, 11 त्रेपिवान्, त्रपः, तित्रपिषुः-तित्रप्सुः
तात्रपः
त्रपितव्यम्-त्रप्तव्यम्, त्रपयितव्यम्, तित्रपिषितव्यम्-तित्रप्सितव्यम्, तात्रपितव्यम्
त्रपणीयम्, त्रपणीयम्, तित्रपिषणीयम्-तित्रप्सनीयम्, तात्रपणीयम्
12 त्राप्यम्, त्रप्यम्, तित्रपिष्यम्-तित्रप्स्यम्, तात्रप्यम्
ईषत्त्रपः-दुस्त्रपः-सुत्रपः
-- -- त्रप्यमाणः, त्रप्यमाणः, तित्रपिष्यमाणः-तित्रप्स्यमानः, तात्रप्यमाणः
त्रापः, त्रपः, तित्रपिषः-तित्रप्सः, तात्रपः
त्रपितुम्-त्रप्तुम्, त्रपयितुम्, तित्रपिषितुम्-तित्रप्सितुम्, तात्रपितुम्
13 त्रपा, त्रपणा, तित्रपिषा-तित्रप्सा, तात्रपा
त्रपणम्, त्रपणम्, तित्रपिषणम्-तित्रप्सनम्, तात्रपणम्
त्रपित्वा-त्रप्त्वा, त्रपयित्वा, तित्रपिषित्वा-तित्रप्सित्वा, तात्रपित्वा
14 अपत्रप्य, 15 अपत्रपय्य, प्रतित्रपिष्य-प्रतित्रप्स्य, प्रतात्रप्य
त्रापम् २, त्रपित्वा २, त्रप्त्वा २, 16 त्रपम् -त्रापम् २, त्रपयित्वा २, तित्रपिषम् -तित्रप्सम् २, तित्रपिषित्वा -तित्रप्सित्वा २, तात्रपम्
तात्रपित्वा
17 इत्यादिना उप्रत्ययः।
अग्निं दृष्ट्वा त्रपते = लज्जते इव इति त्रपु = सीसम्।]] त्रपु।
प्रासङ्गिक्यः
01
=>
(७८७)
02
=>
(१-भ्वादिः। ३७४। अक। वेट्। आत्म।)
03
=>
[[१। भोजमतेनास्य धातोः घटादिषु पाठः। तदानीं ‘घटादयो मितः’ (ग। सू। भ्वादौ) इति मित्त्वात्, ‘मितां ह्रस्वः’ (६-४-९२) इति णौ उपधाह्रस्वः। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[[२। भोजाद् अन्येषां सर्वेषां मतेनास्य धातोः घटादिपाठो न। तदानीं मित्त्वा- भावेनोपधाह्रस्वाभावे रूपमेवम्। एवं तृजादिष्वपि त्रापयिता-त्री इत्यादीनि रूपाण्यूह्यानि।]]
05
=>
[[३। ऊदित्त्वेन, ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (७-२-४४) इति बलाद्यार्धधातुकेषु इड्विकल्पः। इट्पक्षे रूपमेवम्। इडभावपक्षे तित्रप्सकः इत्यादीनि रूपाणि, इति ज्ञेयम्। तव्यदादिप्रत्ययेष्वप्येवमिड्विकल्पो ज्ञेयः।]]
06
=>
[पृष्ठम्०७०३+ २५]
07
=>
[[१। यङन्ते, ‘दीर्घोऽकितः’ (७-४-८३) इत्यभ्यासस्य दीर्घः। एवं सर्वत्र ज्ञेयम्।]]
08
=>
[[२। ऊदित्त्वेनेड्विकल्पनात्, निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इति इण्णिषेधः।]]
09
=>
[[३। ‘अलङ्कृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतु--’ (३-२-१३६) इत्यादिना तच्छीलतद्धर्मतत्साधुकारिष्वर्थेषु कर्तरि इष्णुच् प्रत्ययः।]]
10
=>
[[आ। ‘पर्यच्छे सरसि हृतेंऽशुके पयोभिर्लोलाक्षे सुरतगुरावपत्रपिष्णोः’। शि। व। ८। ४६।]]
11
=>
[[४। क्वसुप्रत्यये, ‘तॄफलभजत्रपश्च’ (६-४-१२२) इत्येत्वाभ्यासलोपे रूपम्। ‘पपुष आगतम्--पपिवद्रूप्यम्’ इति ‘विभाषा पूर्वाह्णापराह्णाभ्याम्’ (४-३-२४) इति सूत्रे भाष्यकारप्रयोगात् छन्दसि विहितोऽपि क्वसुः भाषायामपि क्वचिद् भवति।]]
12
=>
[[५। ‘आसुयुवपिरपित्रपिचमश्च’ (३-१-१२६) इति यदपवादो ण्यत्।]]
13
=>
[[६। धातोरस्य षित्त्वात् स्त्रियाम्, ‘षिद्भिदादिभ्योऽङ्’ (३-३-१०४) इत्यङ् भावे।]]
14
=>
[पृष्ठम्०७०४+ २५]
15
=>
[[१। ण्यन्ताल्ल्यपि, ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
16
=>
[[२। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ दीर्घविकल्पः।]]
17
=>
[[३। ‘श्रॄस्वृस्निहित्रपि--’ [द। उ। १-९५]
1 {@“त्रैङ् पालने”@} 2 3 त्रायकः-यिका, 4 त्रापकः-पिका, तित्रासकः-सिका, तात्रायकः-यिका
त्राता-त्रात्री, त्रापयिता-त्री, तित्रासिता-त्री, तात्रायिता-त्री
-- त्रापयन्-न्ती, त्रापयिष्यन्-न्ती-ती
-- -- 5 त्रायमाणः, 6 चोरात्] त्रायमाणः, त्रापयमाणः, तित्रासमानः, तात्राय्यमाणः
त्रास्यमानः, त्रापयिष्यमाणः, तित्रासिष्यमाणः, तात्रायिष्यमाणः
सुत्राः-सुत्रौ-सुत्राः
-- -- -- 7 त्रातम्-त्राणम्-त्रातः-त्राणः-त्रातवान्-त्राणवान्, 8 देवत्रातः-भवत्रातः, त्रापितः, तित्रासितः, तात्रायितः-तवान्
9 गोत्रः, 10 सुत्रः, आतपत्रम्, अङ्गुलित्रम्, 11 12 सुत्रायी, 13 त्रायः, 14 15 पार्ष्णिसंत्रायः, 16 सुत्रामा, 17 त्रापः, तित्रासुः, तात्रः
त्रातव्यम्, त्रापयितव्यम्, तित्रासितव्यम्, तात्रायितव्यम्
त्राणीयम्, त्रापणीयम्, तित्रासनीयम्, तात्रायणीयम्
18 त्रेयम्, त्राप्यम्, तित्रास्यम्, तात्राय्यम्
19 ईषत्त्राणः-दुस्त्राणः-सुत्राणः
-- -- त्रायमाणः, त्राप्यमाणः, तित्रास्यमानः, तात्रायमाणः
त्रायः, त्रापः, तित्रासः, तात्रायः
त्रातुम्, त्रापयितुम्, तित्रासितुम्, तात्रायितुम्
त्रातिः, 20 सुत्रा, त्रापणा, तित्रासा, तात्राया
त्राणम्, त्रापणम्, तित्रासनम्, तात्रायणम्
त्रात्वा, त्रापयित्वा, तित्रासित्वा, तात्रायित्वा
प्रत्राय, प्रत्राप्य, प्रतित्रास्य, प्रतात्राय्य
त्रायम् २, त्रात्वा २, त्रापम् २, त्रापयित्वा २, तित्रासम् २, तित्रासित्वा २, तात्रायम्
तात्रायित्वा २।
प्रासङ्गिक्यः
01
=>
(७९९)
02
=>
(१-भ्वादिः-९६५। सक। अनि। आत्म।)
03
=>
[[१। ‘आदेच उपदेशेऽशिति’ (६-१-४५) इत्यात्वे, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवमात्वं सर्वत्र, युगागमस्तु घञादिषु इति ज्ञेयम्।]]
04
=>
[[२। आदन्तलक्षणः पुगागमो ण्यन्ते सर्वत्र ज्ञेयः।]]
05
=>
[[३। शानचि, आत्वाभावे, आयादेशे रूपम्।]]
06
=>
[[[४। ‘भीत्रार्थानां भयहेतुः’ (१-४-२५) इति अपादानसंज्ञा चोरस्य।]]
07
=>
[[५। ‘नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्’ (८-२-५६) इति निष्ठानत्वविकल्पः।]]
08
=>
[[६। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तप्रत्ययः। ‘देवत्रातो गलो ग्राह इतियोगे सद्विधिः। मिथस्ते विभाष्यन्ते गवाक्षः संशितव्रतः।।’ (भाष्यम्--७-४-४१) इति व्यवस्थितविभाषाश्रयणाद् अत्र निष्ठानत्वं न। देवत्रात इत्युपलक्षणम्, संज्ञायामन्योपपदेऽपि भवतीति ज्ञापनाय भवत्रात इत्यप्युक्तम्।]]
09
=>
[[७। ‘आतोऽनुपसर्गे कः’ (३-२-३) इति कर्मण्युपपदेऽणपवादः कप्रत्ययः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः। एवम्, पार्ष्णित्रम्, तनुत्रम्, आतपत्रम् इत्यादिकमपि बोध्यम्।]]
10
=>
[[८। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्ययः।]]
11
=>
[[आ। ‘व्रजति पुरतरुण्यो बद्धचित्राङ्गुलित्रे कथमपि गुरुशोकान्मा रुदन् माङ्गलिक्यः।।’ भ। का। १। २६।]]
12
=>
[[९। ताच्छील्ये णिनिप्रत्ययः। युगागमः।]]
13
=>
[[१०। ‘श्याऽऽद्व्यथ--’ (३-१-१४१) इति कर्तरि णप्रत्यये रूपमेवम्।]]
14
=>
[पृष्ठम्०७०८+ २६]
15
=>
[[१। सोपसर्गे कर्मण्युपपदे तु कप्रत्ययं बाधित्वा औत्सर्गिकः ‘कर्मण्यण्’ (३-२-१) इत्यणेव भवति।]]
16
=>
[[२। ‘आतो मनिन्--’ (३-२-७४) इति मनिन्प्रत्ययः। सुत्रामा = इन्द्रः।]]
17
=>
[[आ। ‘सुत्रामपुत्रारिशिलीमुखानां स्मृत्वा गणस्तत्र वलीमुखानाम्।’ च। रा। ४। ४४।]]
18
=>
[[३। ‘अचो यत्’ (३-१-९७) इति यत्। ‘ईद् यति’ (६-४-६५) इति ईत्वे गुणे रूपम्।]]
19
=>
[[४। ईषदाद्युपपदेषु खलपवादः ‘आतो युच्’ (३-३-१२८) इति युच्।]]
20
=>
[[५। ‘आतश्चोपसर्गे’ (३-३-१०६) इति स्त्रियां भावादावङ्।]]