| YouTube Channel

त्राणं (trANaM)

 
शब्दकल्पद्रुमः
Sanskrit
त्राणं,
क्ली,
(त्रै + भावे ल्युट् क्तो वा नुदविदेतिपक्षे नत्वम् ।) रक्षणम् (यथा, शाकुन्तले१ अङ्के ।“आर्त्तत्राणाय वः शस्त्रं प्रहर्त्तुमनागसि
”त्रायते इति कर्त्तरि ल्युः रक्षिता यथा, महाभारते २३ १८ ।“त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम्
”तथाच रघौ १५ ।“अवेक्ष्य रामं ते तस्मिन् प्रजह्रुः स्वतेजसा ।त्राणाभावे हि शापास्त्राः कुर्व्वन्ति तपसोव्ययम्
”त्रायतेऽनेनेति करणे ल्युट् कवचम् अस्त्रम् ।यथा, महाभारते १६८ १४ ।“दंशिता विविधैस्त्राणैर्षिचित्रायुधपाणयः
”)त्रायमाणालता रक्षिते, त्रि इति मेदिनी ।णे, १४