| YouTube Channel

त्रयस्त्रिंशत्पति (trayastriMzatpati)

 
Shabdartha Kaustubha
Kannada
त्रयस्त्रिंशत्पति
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಇಂದ್ರ
व्युत्पत्तिः - > त्रयस्त्रिंशतो देवतानां पतिः
त्रयस्त्रिंशत्पति
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪ್ರಜಾಪತಿ /ಬ್ರಹ್ಮ
विस्तारः - > "कतमे ते व्ब्त्रयस्त्रिंशदित्यष्टौ वसवः एकादश रुद्राः द्वादशादित्यास्त एकत्रिंशत् इन्द्रश्चैव प्रजापतिश्च त्र्यस्त्रिंशाविति" - शतपथ०
वाचस्पत्यम्
Sanskrit
त्रयस्त्रिंशत्पति
पु०
त्रयस्त्रिंशतो देवानां पतिः इन्द्रेहेमच० प्रजापतौ तयोः त्र्यधिकत्रिंशतो देवानांपतित्वात् तथात्वम् देवानां त्रयस्त्रिंशत्त्वं तु“अष्टौ वसवः एकादश रुद्रा द्वादशादित्या इमे एवद्यावा पृथिवी त्रयस्त्रिंश्यौ, त्रयस्त्रिं शद्वै देवाः प्रजा-पतिश्चतुस्त्रिंशस्तदेनं प्रजापतिम्” शत० ब्रा० ।“कतमे ते त्रयस्त्रिंशदित्यष्टौ वसव एकादश रुद्रा द्वादशा-दित्यास्त एकत्रिंशत् इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति”शत० ब्रा० ११ तु अन्यथोक्ता अस्मिन् पक्षे नि-र्द्धारणसप्तम्यासमासात् इन्द्रप्रजापतिपरत्वम् तयो-स्तेषां मध्ये श्रेष्ठत्वेन पतित्वात्तथात्वमिति बोध्यम् ।“आदित्यांश्च वसूंश्चैव रुद्रांश्चैवाश्विनावपि” रामा० ।२० अन्यथा संख्योक्ता