| YouTube Channel

त्रपुषं (trapuSaM)

 
शब्दकल्पद्रुमः
Sanskrit
त्रपुषं,
क्ली,
(त्रप + बाहुलकादुषः ।) रङ्गम् ।इति भरतकृतद्विरूपकोषः
त्रपुषीफलम् ।शसा इति भाषा तत्पर्य्यायः कण्टकिफलम्२ सुधावासम् सुशीतलम् तल्लघुफल-गुणाः नीलत्वम् बलतृड्भ्रमदाहपित्तरक्त-पित्तनाशित्वम् स्वादुत्वम् शीतत्वञ्च तत्पक्व-फलगुणाः अस्लत्वम् उष्णत्वम् पित्तलत्वम् ।कफवातनाशित्वञ्च तद्बृहत्फलगुणाः मूत्र-लत्वम् शीतत्वम् रूक्षत्वम् पित्तास्रकृच्छ्र-नाशित्वञ्च इति भावप्रकाशः
अस्य सामान्य-गुणाः स्वादुत्वम् गुरुत्वम् विष्टम्भित्वम् ।शीतलत्वम् मुखप्रियत्वम् रूक्षत्वम् अति-मूत्रलत्वञ्च इति राजवल्लभः