| YouTube Channel

त्रपुः (trapuH)

 
Wordnet
Sanskrit
Synonyms:
त्रपुः, त्रपुस्, त्रपुलम्, रङ्गम्, पिच्चटम्, स्वर्णजम्, नागम्, कुरुप्यम्, प्रस्तीरम्, सुरेभम्, आपूषम्, तीरः, आलीनकम्, कुटिलम्, कर्कटी, बार्ब्बढीरम्
noun
धातुविशेषः यः वह्नियोगेन लज्जते इव त्रपते। आयुर्वेदे अस्य वातकफापहत्वादिगुणाः प्रोक्ताः।
"यथा सिंहः हस्तिगणं निहन्ति तथा त्रपुः अखिलमेहवर्गं निहन्ति।"
Synonyms:
सीसम्, सीसकम्, नागम्, वप्रम्, योगेष्टम्, त्रपुः, वङ्गम्, कुवङ्गम्, पिच्चटम्, शिरावृतम्, तमरम्, जडम्, चीनम्, बहुमलम्, यामुनेष्ठकम्, परिपिष्टकम्, तारशुद्धिकरम्
noun
धातुविशेषः -कृष्णवर्णीयः धातुः यस्य परमाणुसङ्ख्या द्वयशीतिः अस्ति।
"बालकः सीसस्य क्रीडानकेन खेलति।"
Synonyms:
त्रपुः
noun
लघुः सम्पुटः।
"तेन त्रपोः गृहीत्वा तमाखुः मुखे स्थापितः।"
शब्दकल्पद्रुमः
Sanskrit
त्रपुः, [स्]
क्ली,
(त्रपते वह्निं प्राप्य लज्जते इव ।त्रप + “उस् स्यात्तपादेः तु कित् ।” ४६० ।इति उणादिकोषटीकाधृतसूत्रात् उस् ।)रङ्गम् इत्युणादिकोषः
(यथा, ग्रहभाव-प्रकाशे ।“भौमे त्रपुः शनौ लौहं राहावश्मानि कीर्त्त-येत्
”रङ्गशब्देऽस्य विवरणं ज्ञातव्यम्
)