| YouTube Channel

त्यत् (tyat)

 
Bopp
Latin
त्यत् (ut mihi videtur, e stirpe demonstrat. त, abjecto अ, et
relat. य, Nom. m. स्यः, स्य, f. स्या, n. त्यत्) is, hic,
ille, in dial. Vêd. (Huc trahimus germ. vet. dër e diar,
f. diu, acc. dia = त्याम्, N. pl. m. die = त्ये, f. dio =
त्यास्, n. diu = त्यानि, v. gr. comp. 355. 356.
ad स्या
pertinet germ. vet. siu, acc. sia
de nostro dieser (die-
ser) v. gr. comp. 357.
de lith. et slav. szis, sj hic =
स्यः, szi, si haec = स्या v. gr. comp. 358.)
शब्दकल्पद्रुमः
Sanskrit
त्यत्, [द्] त्रि, (त्यजति संसर्गमिति त्यज् +“त्यजितनियजिभ्यो डित् ।” उणां १३१ ।इति अदिः डित् ।) तत् सेइ इतिभाषा अस्य पुंलिङ्गस्त्रीलिङ्गयो रूपं स्यःस्या सर्व्वनामशब्दोऽयम् इति व्याकरणम्
(यथा, ऋग्वेदे ६३ ।“त्वं त्यदिन्द्र चोदीः सखा वृत्रं यद्बज्रिन्वृषकर्म्मन्नुभ्नाः
”)
त्यत्, [द्]
क्ली,
(त्यज् + “त्यजितनीति ।” उणां ।१ १३१ इति अदिः डित् ।) वायुः ।आकाशः यथा, --“सत्यव्रतं सत्यपरं त्रिसत्यंसत्त्यस्य योनिं निहितञ्च सत्त्ये ।सत्त्यस्य सत्यमृतसत्यनेत्रंसत्यात्मकं त्वां शरणं प्रपन्नाः
”इति भागवते १० २६
“सत्यव्रतमिति सत्यं व्रतं सङ्कल्पो यस्य तम् ।सत्यपरं सत्यं परं श्रेष्ठं प्राप्तिसाधनं यस्मिन् तम् ।त्रिसत्यं त्रिष्वपि कालेषु सृष्टेः पूर्व्वं प्रलयानन्तरंस्थितिसमये सत्यं अव्यभिचारेण वर्त्तमानम् ।तदेवाहुः सत्त्यस्य योनिमिति सच्छब्देनपृथिव्यप्तेजांसि त्यच्छब्देन वाय्वाकाशौ एवंसच्च त्यच्च सत्त्यं भूतपञ्चकम् ‘तत् सत्त्यमित्या-चक्षते ।’ इति श्रुतेः तस्य योनिं कारणम् ।अनेन सृष्टेः पूर्व्वं वर्त्तमानतोक्ता तथा सत्त्येतस्मिन्नेव निहितं अन्तर्यामितया स्थितम् ।अनेन स्थितिसमयेऽपि सत्यत्वमुक्तम् तथामत्त्यस्य सत्यं तस्यैव सत्त्यस्य सत्यं पारमार्थिकंनाशेऽप्यवशिष्यमाणरूपम् अनेन प्रलयेऽप्य-वधित्वे सत्यत्वं दर्शितम् एवं त्रिसत्यत्व-मुपपादितम् तथा ऋतसत्यनेत्रं ऋतं सूनृतावाणी सत्यं समदर्शनम् तथा भगवता व्याख्यास्यमानत्वात् सत्यञ्च समदर्शनम् ऋतञ्चसूनृता, वाणी कविभिः परिकीर्त्तिता इति ।तयोर्नेत्रं नयनसाधनं नेतारं प्रवर्त्तकमितियावत् एवं सर्व्वप्रकारेण सत्यात्मकं त्वां वयंशरणं प्रपन्ना इत्यर्थः ।” इति तट्टीकायां श्रीधर-स्वामी
Burnouf
French
त्यत् त्यत्
n.
de l'a. स्यस्। 53.