| YouTube Channel

त्यज (tyaja)

 
शब्दसागरः
English
त्यज r. 1st cl. (औ) त्यजौ (त्यजति) To quit, to abandon, to leave or resign,
to part from, to give away.
Wilson
English
त्यज r. 1st cl. (औ) त्यजौ (त्यजति) To quit, to abandon, to
leave or resign, to part from, to give away.
Monier Williams Cologne
English
त्यज See दुस्-.
Shabdartha Kaustubha
Kannada
त्यज - हानौ (भ्वा० पर० सक० अनि०) त्यजति
पदविभागः - > धातुः
कन्नडार्थः - > ತ್ಯಜಿಸು /ಬಿಡು /ವಿಸರ್ಜಿಸು
प्रयोगाः - > "तस्मिन् काले नयनसलिलं योषितां खण्डितानां शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु"
उल्लेखाः - > मेघ० १-३९
त्यज - हानौ (भ्वा० पर० सक० अनि०) त्यजति
पदविभागः - > धातुः
कन्नडार्थः - > ತ್ಯಜಿಸು /ತೊರೆ
प्रयोगाः - > "औष्ण्यं त्यजेन्मध्यगतोऽपि भानुः शैत्यं निशायामथवा हिमांशुः"
उल्लेखाः - > भट्टि० १२-६४
त्यज - हानौ (भ्वा० पर० सक० अनि०) त्यजति
पदविभागः - > धातुः
कन्नडार्थः - > ಪರಿತ್ಯಜಿಸು /ತೊರೆದು ಬಿಡು
प्रयोगाः - > "जराशिकसमाविष्टं रोगायतनमातुरम् रजस्वलमनित्यं भूतावासमिमं त्यजेत् ॥" "तदेषा भवतः कान्ता त्यज वैनां गृहाण वा"
उल्लेखाः - > मनु० ६-७७, शाकु० ५-२६
त्यज - हानौ (भ्वा० पर० सक० अनि०) त्यजति
पदविभागः - > धातुः
कन्नडार्थः - > ತ್ಯಜಿಸು /ಬಿಟ್ಟುಬಿಡು /ಕಡಿದುಹಾಕು
प्रयोगाः - > "यश्चैतान् प्राप्नुयात्सर्वान् यश्चैतान् केवलांस्त्यजेत्"
उल्लेखाः - > मनु० २-९५
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
त्यज्
मूलधातुः:
त्यज
धात्वर्थः:
हानौ
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
त्यजति
धातुप्रदीपः
Sanskrit
त्यजँ त्यज हानौ
- त्यजति तत्याज त्यक्ता त्यक्ष्यति अत्याक्षीत् त्यक्त्वा त्यागः त्याज्यम् ज्यागी त्यक्तः ।। 994 ।।
Sanskrit Tibetan
Tibetan
dor byar 'gyur
त्यज
dor cig
त्यज
शब्दकल्पद्रुमः
Sanskrit
त्यज, हानौ इति कविकल्पद्रुमः
(भ्वां-परं-सकं-अनिट् ।) औ, अत्याक्षीत् हानि-र्वर्ज्जनम् त्यजति दुष्टलोकं जनः इति दुर्गा-दासः
वाचस्पत्यम्
Sanskrit
त्यज हानौ दाने
भ्वा०
सक०
पर०
अनिट् त्यजतिअत्याक्षीत् तत्याज त्यक्तव्यं त्याज्यम् त्यागः त्यक्तं त्यक्त्वात्यागी “त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्” चाणक्यः“योऽत्याक्षीत् संयुगं भयात्” भा० द्री० ९५ अ०“तं तत्याजाहितं पुत्रम्” रामा० ३६ अ० “नैवनीलिवर्णेन कदाचित् त्यज्यते” पञ्चत० (शूराः) “मदर्थेत्यक्तजीविताः” गीता “प्रतिरोद्धा गुरोश्चैव त्यक्ताग्नि-र्वार्द्धुषिस्तथा” मनुः “न माता पिता स्त्री नपुत्रस्त्यागमर्हति” मनुः “त्याज्यं दोषवदित्येके कर्म प्राहु-र्मनीषिणः यज्ञदानतपः कर्म त्याज्यमिति चापरे”गीता “ज्ञातिसम्बन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः”--मनुः“चतुष्पदाः स्वयूथेभ्यस्त्यक्तव्याः परभूमिषु” वृ० स० ६० अ० ।वेदे तु नि० णलि तित्याज “यस्तित्याज सचि विदं सखा-यम्” ऋ० १० ७१ त्यागश्च स्वत्वध्वं सानुकूलव्यापारः नममेदमित्याकारः मूर्त्तद्रव्याणामेव भवति अमूर्त्त-जीवनादेर्वियोजनरूपः उपसर्गपूर्वकस्य तत्तदुपसर्गद्यो-त्यार्थयुक्तत्यागे इति भेदः
क्षीरतरङ्गिणी
Sanskrit
त्यजँ त्यज हानौ
-(अर्थविवरणम्) हानिस्त्यागः
त्यजति त्याज्यम्-त्यजियज्योः कुत्वं नेष्टम् 957
धातुवृत्तिः
Sanskrit
त्यजँ त्यज (अर्थः) हानौ
( त्यजति तत्याज तत्यजतुः तत्यजिथ तत्यक्थ तत्यजिव त्यक्ता त्यक्ष्यति त्यजतु अत्यजत् त्यजेत् त्यज्यात् अत्याक्षीत् अत्याक्ताम् तित्यजिषति तात्यज्यते तात्यक्ति त्याजयति अतित्यजत् ) त्यागशीलस्त्यागी संपृचादित्वात् घिनुण् "चजोः कु घिण्ण्यतोः'' इति कुत्वम् त्याज्यमित्यत्र ण्यति प्रतिषेधे [ त्यजेरुपसंख्यानम् ] इति कुत्वाभावः ( त्यद् ) "त्यजियजितनिभ्यो डित्'' इत्यदिप्रत्यये डित्त्वाट्टिलोपः (स्यः) "त्यदादीनामः'' इति त्यदाद्यर्थविभक्तिनिमित्तनिबन्धनेऽन्त्यस्यात्वे पररूपे त्यदादीनामित्यधिकारे "तदोः सः सावनन्त्ययोः'' इति तकारस्य सकारः (त्यौ त्ये ) इत्यादौ सर्वनामकार्यं पूर्ववत् अत्वादिस्त्यदादिप्राधान्येऽपीयतइति परमस्य इत्यादि भवति, अप्राधान्ये तु अतित्यदित्यादि त्यस्येदं त्यदीयम् "त्यदादीनि च" इति वृद्धत्वात् "वृद्धाच्छः" इति छः त्यस्यापत्यं त्यादायनिः "उदीचां वृद्धादगोत्रात्'' इति फिञ्, अगोत्रप्रत्ययान्ताद्वृद्धादपत्ये फिञुदीचां मतेनेति सूत्रार्थः स्यश्च देवदत्तश्च त्यौ "त्यदादीनि सर्वैर्नित्यम्'' इति त्यदः शेषः स्यश्च तावित्यत्र त्यदादीनां यत्परं तच्छिष्यतइति वा परस्य तदः शेषः स्त्रियां "त्यदादीनामः'' इति विभक्तावत्वे टापि "हल्ङ्याभ्यः'' इति सुपो लोपे स्या इति भवति सन्निपातपरिभाषा "न यासयोः'' इति निर्देशाल्लिङ्गादनित्यज्वज्ञापनान्न भवति अयं ण्यन्तो द्विकर्मके इति सुधाकरादिमतेन नाथतावुक्तं, दृश्यते प्रयोगः, "त्याजितैः फलमुत्खातैः'' "पूषोष्मणा त्याजितमात्रभावः'' इत्यादि "अकथितं च'' इत्यत्र गौःपयस्यजति गवा पयस्त्याजयतीति प्रयुञ्जानयोः कैयटहरदत्तयोः प्रयोज्यस्य कर्मत्वमनभिमतम् 966
कृदन्तरूपमाला
Sanskrit
1 {@“त्यज हानौ”@} 2 हानिः = उत्सर्गः इति बालमनोरमा।
त्यागः इति क्षीरस्वामी।
त्याजकः-जिका, त्याजकः-जिका, 3 तित्यक्षकः-क्षिका, 4 तात्यजकः-जिका
5 त्यक्ता-त्री, त्याजिता-त्री, तित्यक्षिता-त्री, तात्यजिता-त्री
त्यजन्-न्ती, त्याजयन्-न्ती, तित्यक्षन्-न्ती
-- त्यक्ष्यन्-न्ती-ती, त्याजयिष्यन्-न्ती-ती, तित्यक्षिष्यन्-न्ती-ती
-- 6 व्यतित्यजमानः, त्याजयमानः, तित्यक्ष्यमाणः, तात्यज्यमानः
-- त्याजयिष्यमाणः, तित्यक्षिष्यमाणः, तात्यजिष्यमाणः
7 त्यक्-त्यग्-त्यजौ-त्यजः
-- -- 8 त्यक्तम्-क्तः-क्तवान्, 9 त्याजितः, तित्यक्षितः, तात्यजितः-तवान्
त्यजः, 10 त्यागी, 11 संत्याजी, त्याजः, तित्यक्षुः, तात्यजः
त्यक्तव्यम्, त्याजयितव्यम्, तित्यक्षितव्यम्, तात्यजितव्यम्
त्याजनीयम्, त्याजनीयम्, तित्यक्षणीयम्, तात्यजनीयम्
12 त्याज्यम्, त्याज्यम्, तित्यक्ष्यम्, तात्यज्यम्
ईषत्त्यजः-दुस्त्यजः-सुत्यजः
-- -- त्यज्यमानः, त्याज्यमानः, तित्यक्ष्यमाणः, तात्यज्यमानः
त्यागः, त्याजः, तित्यक्षः, तात्यजः
त्यक्तुम्, त्याजयितुम्, तित्यक्षितुम्, तात्यजितुम्
त्यक्तिः, त्याजना, तित्यक्षा, तात्यजा
त्यजनम्, त्याजनम्, तित्यक्षणम्, तात्यजनम्
त्यक्त्वा, त्याजयित्वा, तित्यक्षित्वा, तात्यजित्वा
परित्यज्य, प्रत्याजयिष्य, प्रतित्यक्ष्य, प्रतात्यज्य
त्याजम् त्यक्त्वा त्याजम् त्याजयित्वा तित्यक्षम् तित्यक्षित्वा तात्यजम्
तात्यजित्वा २।
प्रासङ्गिक्यः
01
=>
(७८२)
02
=>
(१-भ्वादिः-९८६। सक। अनि। पर।)
03
=>
[[३। सनि, झलि परतः ‘चो कुः’ (८-२-३०) इति कुत्वे, षत्वे रूपम्। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
04
=>
[[४। यङन्तेऽभ्यासस्य, ‘दीर्घोऽकितः’ (७-४-८३) इति दीर्घः। एवं सर्वत्र ज्ञेयम्।]]
05
=>
[[५। जकारस्य कुत्वेन चकारः। एवं तव्यदादिष्वपि ज्ञेयम्।]]
06
=>
[[६। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्।]]
07
=>
[[७। क्विपि, कुत्वे, जश्त्वे रूपम्।]]
08
=>
[पृष्ठम्०७०१+ २९]
09
=>
[[१। ‘तारेर्ग्राहेस्तथा मोचेस्त्याजेर्दापेश्च संग्रहः।’ (मा। धा। वृत्तिः ‘नाथ’ धातौ) इति वचनात्, ‘त्याजितैः फलमुत्खातैर्भग्रैश्च बहुधा नृपैः।’ (रघुवंशे ४-३३) इत्यादिप्रयोगाच्च ण्यन्तस्य द्विकर्मकत्वं ज्ञेयम्।]]
10
=>
[[२। ‘सम्पृचानुरुधाङ्यमाङ्यपपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदह- परिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यज--’ (३-२-१४२) इत्यादिना तच्छीलादिषु कर्तृषु घिनुण्प्रत्ययः। उपधावृद्धिः। ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति जकारस्य कुत्वेन गकारः।]]
11
=>
[[३। ताच्छील्ये णिनिः। अस्य घित्त्वाभावात् कुत्वं न।]]
12
=>
[[४। ‘विप्रतिषेधे त्यजेरुपसंख्यानं कर्तव्यम्’ (भाष्यम् ७-३-६९) इति वचनात् ‘चजोः--’ (७-३-५२) इति प्राप्तं कुत्वं भवति।]]