| YouTube Channel

तोषयमाणः (toSayamANaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तुष प्रीतौ”@} 2 प्रीतिः = तृप्तिः।
तोषकः-षिका, तोषकः-षिका, 3 तुतुक्षकः-क्षिका, तोतुषकः-षिका
तोष्टा-ष्ट्री, तोषयिता-त्री, तुतुक्षिता-त्री, तोतुषिता-त्री
4 तुष्यन्-न्ती, तोषयन्-न्ती, तुतुक्षन्-न्ती
-- 5 तोक्ष्यन्-न्ती-ती, 6 तोषयिष्यन्-न्ती-ती, तुतुक्षिष्यन्-न्ती-ती
-- -- तोषयमाणः, तोषयिष्यमाणः, -- तोतुष्यमाणः, तोतुषिष्यमाणः
तुट्-तुषौ-तुषः
-- -- -- तुष्टम्-ष्टः-ष्टवान्, तोषितः, तुतुक्षितः, तोतुषितः-तवान्
तुषः, तोषः, तुतुक्षिषुः, तोतुषः
तोष्टव्यम्, तोषयितव्यम्, तुतुक्षितव्यम्, तोतुषितव्यम्
तोषणीयम्, तोषणीयम्, तुतुक्षणीयम्, तोतुषणीयम्
7 तोष्यम्, तोष्यम्, तुतुक्ष्यम्, तोतुष्यम्
ईषत्तोषः-दुस्तोषः-सुतोषः
-- -- -- तुष्यमाणः, तोष्यमाणः, तुतुक्ष्यमाणः, तोतुष्यमाणः
संतोषः, 8 तोषः, तोषः, तुतुक्षः, तोतुषः, तोष्टुम्, तोषयितुम्, तुतुक्षितुम्, तोतुषितुम्
संतुष्टिः, तोषणा, तुतुक्षा, तोतुषा
तोषणम्, तोषणम्, तुतुक्षणम्, तोतुषणम्
तुष्ट्वा, तोषयित्वा, तुतुक्षित्वा, तोतुषित्वा
संतुष्य, प्रतोष्य, प्रतुतुक्ष्य, सन्तोतुष्य
तोषम् २, तुष्ट्वा २, तोषम् २, तोषयित्वा २, तुतुक्षम् २, तुतुक्षित्वा २, तोतुषम्
तोतुषित्वा २।
प्रासङ्गिक्यः
01
=>
(७५८)
02
=>
(४-दिवादिः-११८४। अक। अनि। पर।)
03
=>
[[२। ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वम्। ‘षढोः कः सि’ (८-२-४१) इति धातुषकारस्य ककारः। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
04
=>
[[३। ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन् विकरणप्रत्ययः। तस्य ङिद्वद्भावादङ्गस्य गुणो न।]]
05
=>
[[४। ‘षढोः कः सि’ (८-२-४१) इति धातुषकारस्य ककारः।]]
06
=>
[[५। ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इत्यनेन ण्यन्तात् चित्तवत्कर्तृकत्वे परस्मैपदमेव। अचित्तवत्कर्तृकत्वे तु आत्मनेपदमपि भवति।]]
07
=>
[पृष्ठम्०६७६+ २७]
08
=>
[[आ। ‘राध्यद्वेषगुणोऽथ वायकवराद् दैत्याविदेषोऽपुष- च्छोषं तोषकृतोऽस्य दोषविततेराश्लिष्टलक्ष्मीस्तनः।’ धा। का। २। ६३।]]