| YouTube Channel

तोल्यमानः (tolyamAnaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तुल उन्माने”@} 2 तोलकः-लिका, तुतोलयिषकः-षिका
तोलयिता-त्री, तुतोलयिषिता-त्री
तोलयन्-न्ती, तुतोलयिषन्-न्ती
तोलयिष्यन्-न्ती-ती, तुतोलयिषिष्यन्- न्ती-ती
तोलयमानः, तुतोलयिषमाणः
तोलयिष्यमाणः, तुतोलयिषिष्य- माणः
प्रतोल्-प्रतोलौ-प्रतोलः
तोलितम्-तः-तवान्, तुतोलयिषितः- तवान्
तोलः, 3 तुलः 4 , तुतोलयिषुः
तोलयितव्यम्, तुतोलयिषितव्यम्
5 तोलनीयम्, तुतोलयिषणीयम्
तोल्यम्, तुतोलयिष्यम्
ईषत्तोलः-दुस्तोलः- सुतोलः
तोल्यमानः, तुतोलयिष्यमाणः
तोलः, तुतोलयिषः
तोलयितुम्, तुतोलयिषितुम्
तोलना- 6 तुलना, तुला, तुतोलयिषा
तोलनम्, तुतोलयिषणम्
तोलयित्वा, तुतोलयिषित्वा
प्रतोल्य, प्रतुतोलयिष्य
तोलम् २, तोलयित्वा २, तुतोलयिषम्
तुतोलयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(७५७)
02
=>
(१०-चुरादिः-१५९९। सक। सेट्। उभ।)
03
=>
[[४। ‘चुरादिणिचोऽनित्यत्वात् तदभावः।’ इति धातुकाव्यव्याख्याने (३-२१) प्रोक्तम्।]]
04
=>
[[B। ‘दुर्दान्तचक् पशुपचुक्कनमप्यरौत्सीत् प्रक्षालितक्षितितलातुलवर्षरोधी।’ धा। का। ३। २१।]]
05
=>
[पृष्ठम्०६७५+ २६]
06
=>
[[१। बाहुलकाद् गुणाभावे रूपम्। ‘चिन्तिपूजि--’ (३-३-१०५) इत्यत्र चकारात् तुला’ इति क्षीरस्वामी। माधवधातुवृत्तौ तु-- ‘तुला इति ‘णिचो- ऽनित्यत्वात्’ इति मैत्रेयः। अन्ये तु ‘णिजभावे प्रमाणाभावात् ‘तुल्यार्थैः--’ (२-३-६२) इत्यादौ तुला इति निपातनादङि णिलुकि तुला इति।’ इत्युक्तम्।]]