| YouTube Channel

तोदनीयम् (todanIyam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तुद व्यथने”@} 2 तोदकः-दिका, तोदकः-दिका, 3 तुतुत्सकः-त्सिका, तोतुदकः-दिका
तोत्ता-त्री, तोदयिता-त्री, तुतुत्सिता-त्री, तोतुदिता-त्री
4 तुदन्-न्ती-ती, तोदयन्-न्ती, तुतुत्सन्-न्ती
-- तोत्स्यन्-न्ती-ती, तोदयिष्यन्-न्ती-ती, तुतुत्सिष्यन्-न्ती-ती
-- तुदमानः, तोदयमानः, तुतुत्समानः, तोतुद्यमानः
तोत्स्यमानः, तोदयिष्यमाणः, तुतुत्सिष्यमाणः, तोतुदिष्यमाणः
तुत्-तुद्-तुदौ-तुदः
-- -- -- 5 तुन्नम्-तुन्नः-तुन्नवान्, तोदितः, तुतुत्सितः, तोतुदितः-तवान्
तुदः, 6 विधुन्तुदः 7 - 8 अरुन्तुदः- 9 तिलन्तुदः, तोदः, तुतुत्सुः, तोतुदः
तोत्तव्यम्, तोदयितव्यम्, तुतुत्सितव्यम्, तोतुदितव्यम्
तोदनीयम्, तोदनीयम्, तुतुत्सनीयम्, तोतुदनीयम्
10 तोद्यम्, तोद्यम्, तुतुत्स्यम्, तोतुद्यम्
ईषत्तोदः-दुस्तोदः-सुतोदः
-- -- तुद्यमानः, तोद्यमानः, तुतुत्स्यमानः, तोतुद्यमानः
11 प्रतोदः, तोदः, तुतुत्सः, तोतुदः
तोत्तुम्, तोदयितुम्, तुतुत्सितुम्, तोतुदितुम्
तुत्तिः, तोदना, तुतुत्सा, तोतुदा
12 तोत्त्त्रम्-तोत्त्त्री, तोदनम्, तोदनम्, तुतुत्सनम्, तोतुदनम्
तुत्त्वा, तोदयित्वा, तुतुत्सित्वा, तोतुदित्वा
प्रतुद्य, प्रतोद्य, प्रतुतुत्स्य, प्रतोतुद्य
तोदम् २, तुत्त्वा २, तोदम् २, तोदयित्वा २, तुतुत्सम् २, तुतुत्सित्वा २, तुतुत्सित्वा २, तोतुदम्
तोतुदित्वा २।
प्रासङ्गिक्यः
01
=>
(७४१)
02
=>
(६-तुदादिः-१२८१। सक। अनि। उभ।)
03
=>
[[१। ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वम्। तेनाङ्गस्य गुणो न। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[[आ। ‘तुदन् कुचरितान् शुभे प्रणुदमान इष्टं दिशन् प्रभृष्टपललान् क्षिपन् अरिमतिं कृषन् माधवः।’ धा। का। २। ७२।]]
05
=>
[[२। ‘रदाभ्यां निष्ठातो नः पूर्वस्य दः’ (८-२-४२) इति निष्ठानत्वम्।]]
06
=>
[[३। ‘विध्वरुषोस्तुदः’ (३-२-३५) इति खशूप्रत्ययः। ‘अरुर्द्विषदजन्तस्य मुम्’ (६-३-६७) इति मुम्। विधुन्तुदः = राहुः। ‘संयोगान्तस्य लोपः’ (८-२-२३) इति अरुषः सकारस्य लोपः। अरुः = मर्म तुदति = व्यथतीति अरुन्तुदः = मर्मावित्।]]
07
=>
[[B। ‘अथ मुहुर्बहुनिन्दितचन्द्रया स्तुतविधुन्तुदया तया बहु।’ नैषधे। ४। ४३।]]
08
=>
[[C। ‘अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः।।’ रघुवंशे १। ७१।]]
09
=>
[[४। ‘वातशुनीतिलशर्धेषु अजधेट्तुदजहातीनामुपसंख्यानम्’ (वा। ३-२-२८) इति खशू। ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति मुमागमः। तिलन्तुदः = वणिजां तैलनिष्पादकं दारु।]]
10
=>
[पृष्ठम्०६६८+ २६]
11
=>
[[१। प्रतुद्यतेऽनयेति करणे ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्।]]
12
=>
[[२। ‘दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे’ (३-२-१८२) इति करणे ष्ट्रन् प्रत्ययो भवति। षित्त्वात् स्त्रियां ङीष्।]]