| YouTube Channel

तोतूयमानः (totUyamAnaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तु गतिवृद्धिहिंसासु”@} 2 3 अदादौ ‘रु शब्दे’ इत्यत्र माधवधातुवृत्तौ एवं दृश्यते-- “‘तुरुस्तुशम्यमः--’ 4 इत्यत्र वृत्तौ-- ‘तुः इति सौत्रो धातुः’ इति।
अत्र न्यासे-- ‘वृध्यर्थ इति एके।
हिंसार्थ इति अपरे
यस्य लुग्विकरणत्वं स्मर्यते।’ इति।
वर्धमानश्च-- ‘तु इति वृद्धिहिंसयोरदादौ स्मर्यते’ इति।
हरदत्तस्तु-- वृद्ध्यर्थत्वमभिधाय, ‘गत्यर्थ इति एके।
हिंसार्थ इत्यपरे।’ इति।
‘त्रिष्वपि’ इति बोधिन्यासे।” इति।]] ‘तु इति सौत्रो धातुः गतिवृद्धिहिंसासु’ इति सि।
कौमुदी।
“अत्र व्याख्यानमेव शरणम्” इति बालमनोरमा।
5 तावकः-विका, तावकः-विका, 6 तुतूषकः-षिका, 7 तोतूयकः-यिका
तोता-त्री, तावयिता-त्री, तुतूषिता-त्री, तोतूयिता-त्री
8 उत्तुवन्-ती, तावयन्-न्ती, तुतूषन्-न्ती
-- तोष्यन्-न्ती-ती, तावयिष्यन्-न्ती-ती, तुतूषिष्यन्-न्ती-ती
-- -- तावयमानः, तावयिष्यमाणः, -- तोतूयमानः, तोतूयिष्यमाणः
9 संतुत्-संतुद्-संतुतौ-संतुतः
-- -- तुतम्-तुतः, तावितः, तुतूषितः, तोतूयितः-तवान्
तवः, तावः, तुतूषुः, तोतुवः
तोतव्यम्, तावयितव्यम्, तुतूषितव्यम्, तोतूयितव्यम्
तवनीयम्, तावनीयम्, तुतूषणीयम्, तोतूयनीयम्
तव्यम्, 10 अवश्यताव्यम्, ताव्यम्, तुतूष्यम्, तोतूय्यम्
ईषत्तवः-दुस्तवः-सुतवः
-- -- तूयमानः, ताव्यमानः, तुतूष्यमाणः, तोतूय्यमानः
तवः, तावः, तुतूषः, तोतूयः
तोतुम्, तावयितुम्, तुतूषितुम्, तोतूयितुम्
तुतिः, तावना, तुतूषा, तोतूया
तवनम्, तावनम्, तुतूषणम्, तोतूयनम्
तुत्वा, तावयित्वा, तुतूषित्वा, तोतूयित्वा
प्रतुत्य, प्रताव्य, प्रतुतूष्य, प्रतोतूय्य
11 तावम् २, तुत्वा २, तावम् २, तावयित्वा २, तुतूषम् २, तुतूषित्वा २, तोतूयम्
तोतूयित्वा २।
प्रासङ्गिक्यः
01
=>
(७३०)
02
=>
(२-अदादिः-१०३४-आ। सक। अनि। पर।)
03
=>
[[[अ]
04
=>
(७-३-९५)
05
=>
[पृष्ठम्०६६२+ २७]
06
=>
[[१। ‘इको झल्’ (१-२-९) इति सनः कित्त्वान्न गुणः। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। षत्वम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
07
=>
[[२। ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासे गुणः। ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
08
=>
[[३। ‘लुग्विकरणेऽदादौ धातोरस्य पाठ इति व्याख्यातृभिरुक्तत्वात् ‘अदिप्रभृतिभ्यः शपः’ (२-४-७२) इति लुक्। शतुर्ङिद्वद्भावान्न गुणः। ‘अचि श्नुधातुभ्रुवां--’ (६-४-७७) इत्युवङ्।]]
09
=>
[[४। क्विपि, ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुक्। एवं ल्यप्यपि ज्ञेयम्।]]
10
=>
[[५। ‘ओरावश्यके’ (३-१-१२५) इति ण्यत्। ‘लुम्पेदवश्यमः कृत्ये--’ (वा। ६-३-१०९) इति पृषोदरादिषु पाठात् अवश्यमो मकारस्य लोपः।]]
11
=>
[पृष्ठम्०६६३+ २६]