| YouTube Channel

तोतुहः (totuhaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तुहिर् अर्दने”@} 2 तोहकः-हिका, तोहकः-हिका, 3 तुतोहिषकः-तुतुहिषकः-षिका, तोतुहकः-हिका
तोहिता-त्री, तोहयिता-त्री, तुतोहिषिता-तुतुहिषिता-त्री, तोतुहिता-त्री
तोहन्-न्ती, 4 व्यतितोहन्, तोहयन्-न्ती, तुतोहिषन्-तुतुहिषन्-न्ती
-- तोहिष्यन्-न्ती-ती, तोहयिष्यन्-न्ती-ती, तुतोहिषिष्यन्-तुतुहिषिष्यन्-न्ती-ती
5 -- तोहयमानः, तोहयिष्यमाणः, -- तोतुह्यमानः
तोतुहिष्यमाणः
6 तुट्-तुङ्-तुहौ-तुहः
-- -- -- 7 तुहितम्-तोहितम्-तः-तवान्, तोहितः, तुतोहिषितः-तुतुहिषितः, तोतुहितः-तवान्
तुहः, तोहः, तुतोहिषुः-तुतुहिषुः, तोतुहः
तोहितव्यम्, तोहयितव्यम्, तुतोहिषितव्यम्-तुतुहिषितव्यम्, तोतुहितव्यम्
तोहनीयम्, तोहनीयम्, तुतोहिषणीयम्-तुतुहिषणीयम्, तोतुहनीयम्
तोह्यम्, तोह्यम्, तुतोहिष्यम्-तुतुहिष्यम्, तोतुह्यम्
ईषत्तोहः-दुस्तोहः-सुतोहः
-- -- तुह्यमानः, तोह्यमानः, तुतोहिष्यमाणः-तुतुहिष्यमाणः, तोतुह्यमानः
तोहः, तोहः, तुतोहिषः-तुतुहिषः, तोतुहः
तोहितुम्, तोहयितुम्, तुतोहिषितुम्-तुतुहिषितुम्, तोतुहितुम्
8 तूढिः, तोहना, तुतोहिषा-तुतुहिषा, तोतुहा
तोहनम्, तोहनम्, तुतोहिषणम्-तुतुहिषणम्, तोतुहनम्
तोहित्वा-तुहित्वा, तोहयित्वा, तुतोहिषित्वा-तुतुहिषित्वा, तोतुहित्वा
सन्तुह्य, प्रतोह्य, प्रतुतोहिष्य-प्रतुतुहिष्य, प्रतोतुह्य
तोहम् २, तोहित्वा २-तुहित्वा २, तोहम् २, तोहयित्वा २, तुतोहिषम् २-तुतुहिषम् २, तुतोहिषित्वा २-तुतुहिषित्वा २, तोतुहम्
तोतुहित्वा
9 इति इनन्प्रत्ययः।
तस्य कित्त्वाद् गुणो न।
तोहति जनान् इति, तुह्यतेऽर्केणेति वा तुहिनम् = हिमम्, अन्धकारश्च।]] तुहिनम् 10।
प्रासङ्गिक्यः
01
=>
(७६०)
02
=>
(१-भ्वादिः। ७३७। सक। सेट्। पर।)
03
=>
[[१। ‘रलो व्युपधाद्धलादेः संश्च’ (१-२-२६) इति सेटः सनः क्त्वायाश्च कित्त्वविकल्पः। तेन रूपद्वयम्। एवं सन्नन्ते सर्वत्र, क्त्वायामपि ज्ञेयम्।]]
04
=>
[[२। ‘न गतिहिंसार्थेभ्यः’ (१-३-१५) इति निषेधात् कर्मव्यतीहारे गम्यमानेऽपि शानच् भवति।]]
05
=>
[पृष्ठम्०६७७+ २३]
06
=>
[[१। क्विपि, ‘हो ढः’ (८-२-३१) इति ढत्वे, जश्त्वचर्त्वयोश्च रूपम्।]]
07
=>
[[२। ‘उदुपधाद् भावादिकर्मणोरन्यतरस्याम्’ (१-२-२१) इति निष्ठायाः भावे आदिकर्मणि कित्त्वविकल्पनाद्रूपद्वयम्।]]
08
=>
[[३। ‘तितुत्र--’ (७-२-९) इतीण्णिषेधे, ढत्व-धत्व-ष्टुत्व-ढलोप-दीर्घेषु रूपम्।]]
09
=>
[[४। ‘वेपितुह्योर्ह्रस्वश्च’ [द। उ। ५-१८]
10
=>
[[आ। ‘गोविन्दस्तुहिनांशुरम्यवदनः कंसं जगद्दोहिनं प्रोहिष्यन् जगदर्हणीयमहिमा मोदेन निन्ये निशाम्।।’ धा। का। १। ९२।]]