| YouTube Channel

तोतुडः (totuDaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तुडृ तोडने”@} 2 ‘तूडृ--’ इति स्वामिशाकटायनादयः।
तोडनम् = दारणं हिंसनं च।
‘तोडनार्थे तुडेस्तुण्डेः तुडेत् तोडति तुण्डते।।’ 3 इति देवः।
4 तोडकः-डिका, तोडकः-डिका, 5 तुतोडिषकः-तुतुडिषकः-षिका, तोतुडकः-डिका
तोडिता-त्री, तोडयिता-त्री, तुतोडिषिता-तुतुडिषिता-त्री, तोतुडिता-त्री
तोडन्-न्ती, 6 व्यतितोडन्, 7 तोडयन्-न्ती, तुतोडिषन्-तुतुडिषन्-न्ती
-- तोडिष्यन्-न्ती-ती, तोडयिष्यन्-न्ती-ती, तुतोडिषिष्यन्-तुतुडिषिष्यन्-न्ती-ती
-- तोडयमानः, तोडयिष्यमाणः, -- तोतुड्यमानः, तोतुडिष्यमाणः
तुट्-तुड्-तुडौ-तुडः
-- -- -- 8 तुडितम्-तोडितम्-तः, तोडितः, तुतोडिषितः-तुतुडिषितः, तोतुडितः-तवान्
तुडः, तोडः, तुतोडिषुः-तुतुडिषुः, तोतुडः
तोडितव्यम्, तोडयितव्यम्, तुतोडिषितव्यम्-तुतुडिषितव्यम्, तोतुडितव्यम्
तोडनीयम्, तोडनीयम्, तुतोडिषणीयम्-तुतुडिषणीयम्, तोतुडनीयम्
तोड्यम्, तोड्यम्, तुतोडिष्यम्-तुतुडिष्यम्, तोतुड्यम्
ईषत्तोडः-दुस्तोडः-सुतोडः
-- -- तुड्यमानः, तोड्यमानः, तुतोडिष्यमाणः-तुतुडिष्यमाणः, तोतुड्यमानः
तोडः, तोडः, तुतोडिषः-तुतुडिषः, तोतुडः
9 तोडितुम्, तोडयितुम्, तुतोडिषितुम्-तुतुडिषितुम्, तोतुडितुम्
10 तुट्टिः, तोडना, तुतोडिषा-तुतुडिषा, तोतुडा
तोडनम्, तोडनम्, तुतोडिषणम्-तुतुडिषणम्, तोतुडनम्
तोडित्वा-तुडित्वा, तोडयित्वा, तुतोडिषित्वा-तुतुडिषित्वा, तोतुडित्वा
प्रतुड्य, प्रतोड्य, प्रतुतोडिष्य-प्रतुतुडिष्य, प्रतोतुड्य
तोडम् २, तोडित्वा २-तुडित्वा २, तोडम् २, तोडयित्वा २, तुतोडिषम् २-तुतुडिषम् २, तुतोडिषित्वा २-तुतुडिषित्वा २, तोतुडम्
तोतुडित्वा २।
प्रासङ्गिक्यः
01
=>
(७३८)
02
=>
(१-भ्वादिः-३५१। सक। सेट्। पर।)
03
=>
(श्लो। ८८)
04
=>
[[आ। ‘अकद्धरिक्रीडनधूततोडकान् प्रहूडितान् होडदरोड्यभिक्षुकैः।’ धा। का। १। ४६।]]
05
=>
[[१। ‘रलो व्युपधात्--’ (१-२-२६) इति सेटः क्त्वायाः सनश्च कित्त्वविकल्पः। तेन रूपद्वयम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
06
=>
[[२। ‘न गतिहिंसार्थेभ्यः’ (१-३-१५) इति निषेधात् कर्मव्यतीहारेऽपि शानज् न।]]
07
=>
[[३। ‘तोडनम् = द्रावणम्’ इति क्षीरस्वामी। एवमेव पाणिनीयधातुपाठ- नामके तञ्जापुरीयसरस्वतीमहाल् विमर्शनालयमुद्रिते कोशेऽपि वर्तते। तदानी धातोः कम्पनार्थकत्वात्, ण्यन्तात्, ‘निगरणचलनार्थेभ्यः--’ (१-३-८७) इति शतैव, शानजिति ज्ञेयम्। हिंसाद्यर्थेषु तु शानज् भवतीति विशेषः।]]
08
=>
[[४। ‘उदुपधाद् भावादिकर्मणोरन्यतरस्याम्’ (१-२-२१) इति सेटो निष्ठायाः भावकर्म- विषये कित्त्वविकल्पनाद् रूपद्वयम्।]]
09
=>
[पृष्ठम्०६६६+ २५]
10
=>
[[१। ‘तितुत्र--’ (७-२-९) इतीण्णिषेधे, ‘ष्टुना ष्टुः’ (८-४-४१) इति ष्टुत्वम्।]]