| YouTube Channel

तैलसाधनं (tailasAdhanaM)

 
शब्दकल्पद्रुमः
Sanskrit
तैलसाधनं,
क्ली,
(तैलं साधयति निष्पादयतिसुगन्धीकरोतीति साध + णिच् + ल्युः ।) गन्ध-द्रव्यविशेषः काकला इति भाषा तत्-पर्य्यायः काकोलम् कोलकम् गन्ध-व्याकुलम् कक्कोलकम् कोषफलम् ।इति शब्दचन्द्रिका