| YouTube Channel

तैलपर्णिकं (tailaparNikaM)

 
शब्दकल्पद्रुमः
Sanskrit
तैलपर्णिकं,
क्ली,
(तैलयुक्तं पर्णमस्त्यस्य यद्बा, तिलपर्णो वृक्ष उत्पत्तिस्थानत्वेनास्त्यस्येति ।ठन् ।) हरिचन्दनम् इत्यमरः १३१
चन्दनविशेषः तत्तु तिलपर्णवृक्षजातं धवलंसुशीतलम् इति भरतः
(अस्य पर्य्याय यथा, “श्रीखण्डं चन्दनं स्त्री भद्रश्रीस्तैलपर्णिकः ।गन्धसारो मलयजस्तथा चन्द्रद्युतिश्च सः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
वृक्षविशेषे, पुं यथा, हरिवंशे २२३ ६८ ।“कदम्बाश्चैव भव्याश्च दाडिमा वीजपूरकाः ।कालीयका दुकूलाश्च हिङ्गवस्तैलपर्णिकाः
”)