| YouTube Channel

तैलं (tailaM)

 
Apte 1890
English
तैलं [तिलस्य तत्सदृशस्य वा विकारः अण्] 1 Oil
लभेत सिकतासु तैलमपि यत्नतः पीडयन् Bh. 2. 5
Y. 1. 284
R. 8. 38.
2 Benzoin.
Comp.
अटी a wasp.
अभ्यंगः anointing the body with oil.
कल्कजः oil-cake.
कारः an oilman.
किट्टं oil-cake.
चौरिका a cockroach.
द्रोणी an oil-tub.
पर्णिका,
पर्णी {1} sandal. {2} incense. {3} turpentine.
पायिन् m. {1} a kind of cockroach. {2} a sword.
पिंजः the white sesamum.
पिपीलिका the small red ant.
पीत a. one who has drunk oil.
फलः {1} the Iṅgudī tree. {2} the sesamum plant.
भाविनी Jasmine.
माली the wick of a lamp.
यंत्रं an oil-mill.
स्फटिकः a kind of gem.
शब्दकल्पद्रुमः
Sanskrit
तैलं,
क्ली,
(तैलं तैलवत् स्नेहोऽस्त्यस्येति अच् ।)सिह्लकः इति रत्नमाला
(तिलस्य तत्-सदृशस्य वा विकारः तिल + “तस्य विकारः ।”४ १३४ इत्यण् ।) तिलादिजातस्नेहः ।यथा, भावप्रकाशे ।“तिलादिस्निग्धवस्तूनां स्नेहस्तैलमुदाहृतम्
”तत्पर्य्यायः म्रक्षणम् स्नेहः अभ्य-ञ्जनम् इति हेमचन्द्रः ८१
अस्यगुणाः कषायत्वम् मधुरत्वम् त्वच्यत्वम् ।उष्णत्वम् व्यवायित्वम् पित्तकारित्वम् वद्ध-विन्मूत्रत्वम् श्लेष्मावर्द्धकत्वम् सर्व्ववात-विकारनाशित्वम् मेधाग्निबलवर्द्धनत्वञ्च ।“नास्ति तैलात् परं किञ्चित् भेषजं मारुता-पहम्
”इति राजनिर्घण्टः
पक्वपुरातनतैलस्य गुणः महद्गुणत्वम् ।किञ्चिद्गन्धहीनत्वञ्च द्रव्यसंयोगे संस्कृततैलस्यसर्व्वरोगनाशित्वम्
अवगाहने युक्ततैलस्यगुणः शरीरबलकारित्वम् शिंरामुखरोम-कूपधमनीनाडीद्वारा तृप्तिकारित्वञ्च नित्यंमस्तके अधिकतैलदानगुणाः शिरःशूल-खालित्यपालित्यनाशित्वम् केशमूलस्य दृढता-कारित्वम् केशस्यापतनघनताकृष्णतादीर्घता-कारित्वम् इन्द्रियप्रसन्नताग्निशुद्धिकारित्वञ्च
नित्यं कर्णे तैलपूरणस्य गुणाः मन्याहनु-संग्रहोच्चैःश्रुतिवाधिर्य्यकर्णवातजरोगाजनक-त्वम्
मर्द्दने तैलस्य गुणः घृतादष्टगुणगुरु-त्वम् इति राजवल्लभादिः
*
“प्रातःस्नाने व्रते श्राद्धे द्वादश्यां ग्रहणे तथा ।मद्यलेपसमं तैलं तस्मात्तैलं विवर्जयेत्
”इति कर्म्मलोचनम्
“घृतञ्च सार्षपं तैलं यत्तैलं पुष्पवासितम् ।अदुष्टं पक्वतैलञ्च तैलाभ्यङ्गे नित्यशः
”इति तिथ्यादितत्त्वम्
*
वारविशेषे तैलग्रहणफलं यथा, --रवौ हृद्रोगः सोमे कीर्त्तिलाभः कुजे मृत्युः बुधेपुत्त्राप्तिः गुरौ अर्थहानिः शुक्रे शोकः शनौदीर्घायुः
*
अथ निषिद्धदिने तैलग्रहणदोषशान्त्यर्थदेय-द्रव्यनियमः रवौ पुष्पं गुरौ दूर्व्वा कुजे भूमिःशुक्रे गोमयम् अस्य प्रमाणं यथा, --“अर्के नूनं दहति हृदयं कीर्त्तिलाभश्च सोमेभौमे मृत्युर्भवति नियतं चन्द्रजे पुत्त्रलाभः ।अर्थग्लानिर्भवति गुरौ भार्गवे शोकयुक्त-स्तैलाभ्यङ्गात्तनयमरणं सूर्य्यजे दीर्घमायुः
”इति ज्योतिःसारसंग्रहः
वारादिविशेषे तदभ्यङ्गे गुणदोषौ यथा, --“सन्तापः कीर्त्तिरल्पायुर्धनं निधनमेव ।आरोग्यं सर्व्वकामाप्तिरभ्यङ्गाद्भास्करादिषु
उपोषितस्य व्रतिनः कृत्तकेशस्य नापितैः ।तावत् श्रीस्तिष्ठति प्रीता यावत्तैलं संस्पृशेत्
”इति गारुडे ११४ अध्यायः
*
अथ तैलवर्गः तत्र तैलस्य स्वरूपनिरूपणम् ।“तिलादिस्निग्धवस्तूनां स्नेहस्तैलमुदाहृतम् ।तत्तु वातहरं सर्व्वं विशेषात्तिलसम्भवम्
*
अथ तिलतैलगुणाः ।“तिलतैलं गुरु स्थैर्य्यं बलवर्णकरं परम् ।वृष्यं विकाशि विशदं मधुरं रसपाकयोः
सूक्ष्मं कषायानुरसं तिक्तं वातकफापहम् ।वीर्य्येणोष्णं हिमं स्पर्शे बृंहणं रक्तपित्तहृत्
लेखनं बद्धविम्मूत्रत्वगामाशयशोधनम् ।दीपनं बुद्धिदं मेध्यं व्यवायि व्रणमेहनुत्
श्रोत्रयोनिशिरःशूलनाशनं लघुताकरम् ।त्वच्यं केश्यञ्च चक्षुष्यमभ्यङ्गे भोजनेऽन्यथा
छिन्नभिन्नच्युतोत्पिष्टमथितक्षतपिच्चिते ।भग्नस्फुटितविद्धाग्निदग्धाविश्लिष्टदारिते
तथाभिहतनिर्भुग्नमृगव्याघ्रादिविक्षते ।वस्तौ पानेऽन्नसंस्कारे नस्ये कर्णाक्षिपूरणे
सेकाभ्यङ्गावगाहेषु तिलतैलं प्रशस्यते
*
ननु बृंहणलेखनयोः कथं सामानाधिकरण्य-मित्याह ।“रूक्षादिदुष्टपवनः स्रोतः सङ्कोचयेद्यदा ।रसेऽसम्यग्वहन् कार्श्यं कुर्य्याद्रक्ताद्यवर्द्धनम्
तेषु प्रवेष्टुं सरता सौक्ष्म्यस्निग्धत्वमार्द्दवैः ।तैलं क्षमं रसं नेतुं कृशानां तेन बृंहणम्
व्यवायसूक्ष्मतीक्ष्णोष्णसरत्वैर्म्मेदसः क्षयः ।शनैः प्रकुरुते तैलं तेन लेखनमीरितम्
द्रुतं पुरीषं बध्नाति स्खलितं तत् प्रवर्त्तयेत् ।ग्राहकं सारकं वापि तेन तैलमुदीरितम्
घृतमब्दात् परं पक्वं हीनवीर्य्यं प्रजायते ।तैलं पक्वमपक्वं वा चिरस्थायि गुणाधिकम्
*अथ सरिषबराइतैलगुणाः ।“दीपनं सार्षपं तैलं कटुपाकरसं लघु ।लेखनं स्पर्शवीर्य्योष्णं तीक्ष्णं पित्तास्रदूषकम् ।कफमेदोऽनिलार्शोघ्नं शिरःकर्णामयापहम् ।कण्डूकोठकृमिश्वित्रकुष्ठदुष्टव्रणप्रणुत्
तद्वद्राजिकयोस्तैलं विशेषाम्मूत्रकृच्छ्रकृत् ।राजिकयोः कृष्णराइ आरक्तराइ द्बयोः
*
अथ तोरीतैलगुणाः ।तीक्ष्णोष्णं तुवरीतैलं लघु ग्राहि कफास्रजित् ।वह्निकृद्बिषहृत् कण्डूकुष्ठकोठकृमिप्रणुत्
मेदोदोषापहञ्चापि व्रणशोथहरं परम्
*
अथ तिसीतैलगुणाः ।“अतसीतैलमाग्नेयं स्निग्धोष्णं कफपित्तकृत् ।कटुपाकमचक्षुष्यं बल्यं वातहरं गुरु
मलकृद्रसतः स्वादु ग्राहि त्वग्दोषहृत् व्रणम् ।वस्तौ पाने तथाभ्यङ्गे नस्ये कर्णस्य पूरणे
अनुपानविधौ चापि प्रयोज्यं वातशान्तये
*
अथ वररैतैलगुणाः ।कुसुम्भतैलमम्लं स्यादुष्णं गुरु विदाहि ।चक्षुर्भ्यामहितं बल्यं रक्तपित्तकफप्रदम्
*
अथ खाखसवीजतैलगुणाः ।तैलं खाखसवीजानां बल्यं वृष्यं गुरु स्मृतम् ।वातहृत् कफकृच्छीतं स्वादुपाकरसञ्च तत्
*
अथ एरण्डतैलगुणाः ।एरण्डतैलं तीक्ष्णोष्णं दीपनं पिच्छिलं गुरु ।वृष्यं त्वच्यं वयःस्थायि मेधाकान्तिबलप्रदम्
कषायानुरसं सूक्ष्मं योनिशुक्रविशोधनम् ।विस्रं स्वादु रसे पाके सतिक्तं कटुकं सरम्
विषमज्वरहृद्रोगपृष्ठगुह्यादिशूलहृत् ।हन्ति वातोदरानाहगुल्माष्ठीलाकटीग्रहान्
वातशोणितविड्बन्धव्रध्नशोथामविद्रधीन् ।आमवातगजेन्द्रस्य शरीरवनचारिणः ।एक एव निहन्तायमेरण्डस्नेहकेशरी
*
अथ रालतैलगुणाः ।तैलं सर्ज्जरसोद्भूतं विस्फोटव्रणनाशनम् ।कुष्ठपामाकृमिहरं वातश्लेष्मामयापहम्
*
अथ सर्व्वतैलगुणाः ।तैलं स्वयोनिगुणकृद्वाग्भटेनाखिलं मतम् ।अतः शेषस्य तैलस्य गुणा ज्ञेयाः स्वयोनिवत्
इति भावप्रकाशे तैलवर्गः
*
अथ पुराणतैलगुणाः ।“यामं कल्ककषायवीर्य्यमखिलं चूर्णञ्च पक्षत्रयंषण्मासान् घृतमोदकौ सहगुडौ मासत्रयंगुग्गुलोः ।सिद्धानां रसभस्मनां सुविपुलं वीर्य्यन्तु वर्षत्रयंकिञ्चिद्गन्धविवर्ज्जितं गुणपरं तैलं पुराणंमहत्
”इति नारायणदासकृतपरिभाषा