| YouTube Channel

तैजसः (taijasaH)

 
शब्दकल्पद्रुमः
Sanskrit
तैजसः,
पुं,
(तेजसो विकारः तेजस् + अण् ।)सूक्ष्मशरीरव्यष्ट्युपहितचैतन्यम् यथा, --“एतद्व्यष्ट्युपहितं चैतन्यं तैजसो भवति तेजो-मयान्तःकरणोपहितत्वात्
इति वेदान्त-सारः
(तैजसाहङ्कारविशेषः यथा, भाग-वते २४ ।“सोऽहङ्कार इति प्रोक्तो विकुर्व्वन् समभूत्त्रिधा ।वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा
”घोटकविशेषः तल्लक्षणादिकं यथा, भोज-राजकृतयुक्तिकल्पतरौ ।“ये क्रोधशीला भृशवेगयुक्तामुक्ता दिनात् क्रोशशतं व्रजन्ति ।ते तैजसाः पुण्यवतां प्रदेशेभवन्ति पुण्यैरपि ते मिलन्ति
”सुमतिपुत्त्रः यथा, ब्रह्माण्डे ३६ अध्याये ।“तैजसस्तत्सुतश्चापि प्रजापतिरमित्रजित्
”)