| YouTube Channel

तेवृ (tevR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
तेव्
मूलधातुः:
तेवृ
धात्वर्थः:
देवने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
तेवते
धातुप्रदीपः
Sanskrit
तेवृँ तेवृ
मानकरूपान्तरम् - देवृँ
देवृ देवने
- तेवते अतितेवत् देवते अदिदेवत् आदेवकः ।। 498, 499 ।।
क्षीरतरङ्गिणी
Sanskrit
तेवृँ तेवृ
मानकरूपान्तरम् - देवृँ
देवृ देवने
- तेवते, अतितेवत् देवते, अदिदेवत् अतिकमिभ्रमि (उ0 3132) इत्यरः देवरः शकादिभ्योऽटन् (उ0 481) देवटः ऊर्णावृत्तिः वृषादिभ्यश्चित् (उ0 1108) देवलः दिवादौ ( 41) दीव्यति चुरादौ दिवु परिकूजने (10152) देवयते, आकुस्मात् (10123) तङ्, अदीदिवत, तथा दिवु अर्दने (10170) परिदेवयति 486, 487
धातुवृत्तिः
Sanskrit
तेवृँ तेवृ
मानकरूपान्तरम् - देवृँ
देवृ (अर्थः) देवने
तेविता तेविष्यते तेवताम् अतेवत तेवेत तेविषीष्ट अतेविष्यत इत्यादि तितेविषते तेव्यते तेवयिति अतितेवत् ) ऋदित्वान्नोपधाह्रस्वः वकारान्तानामूठ्भाविनां भाषायां यङ्लुङ्गास्ति "च्छ्वोः शूट्'' इत्यत्र क्ङिद्ग्रहणानुवृत्त्यननुवृत्ती प्रस्तुत्य तत्र त्वेतावानेव विशेषः, अनुवर्त्तमाने क्ङिद्ग्रहणे छः षत्वं वक्तव्यमिति भाष्य उक्तत्वात् छः षत्वमित्यक्ङिति ज्ञलादौ षत्वार्थं "व्रश्चभ्रस्ज" इत्यत्र छप्रहणं कर्त्तव्यं क्ङिदधिकाराभावे तु ज्ञलादिमात्रे छः षत्वं शकारान्तत्वादेव सिद्धमित्यर्थः यदि वकारान्तानामपि यङ्लुक् स्यात्तत्रापि कृङिद्ग्रहणानुवृत्तौ ऊठा भाव्यमन्यदा तु भाव्यमिति विवशेषस्य विद्यमानत्वाद् तत्रैतावन् विशेष इत्यादि भाष्यं कथं संगच्छेत, स्पष्टं चैतत्तत्र कैयटे (देवत) "अर्तिकमिभूमिवाशिभ्यश्च'' इत्यरः (देवलः) अनयोः क्किपि वलि लोपात्परत्वात् "च्छ्वोः शुद्'' इत्यूठ्ययादेशे (तयूर्दययूः ) इति भवति एवमन्यत्रापि वकारान्तेषु दिवीति प्रीणनार्थौ परस्मैपदी, दिवु इति क्रीडार्थो दिवादिः परिपूजनार्थश्चुरादिः496