| YouTube Channel

तेपृ (tepR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
तेप्
मूलधातुः:
तेपृ
धात्वर्थः:
कम्पने, रक्षणे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
तेपते
धातुप्रदीपः
Sanskrit
तेपृँ तेपृ कम्पने
- तेपते अतितेपत् तेपः स्तेपते तिष्टिपे तिष्टेपे ।। 364-367 ।।
क्षीरतरङ्गिणी
Sanskrit
तेपृँ तेपृ कम्पने
-
धातुवृत्तिः
Sanskrit
तेपृँ तेपृ (अर्थः) कम्पने
362
कृदन्तरूपमाला
Sanskrit
1 {@“तेपृ क्षरणार्थः”@} 2 ‘कम्पने च’ इति क्षीरस्वाम्यादयः।
तेपकः-पिका, तेपकः-पिका, तितेपिषकः-षिका, तेतेपकः-पिका
इत्यादीनि सर्वाण्यपि रूपाणि केपृधातुवत् 3 ज्ञेयानि।
तेपितम् 4।
5 तेपनः।
तृचि गणकार्यस्यानित्यत्वात् तेप्ता इति क्षीरस्वामी।
प्रासङ्गिक्यः
01
=>
(७८०)
02
=>
(१-भ्वादिः-३६३। अक। सेट्। आत्म।)
03
=>
(२६१)
04
=>
[[आ। ‘अतिप्त हर्षाश्रु धृतिश्च तेपिता गृहानिमान् प्रस्तिपितार्ति पश्यतः।’ धा। का। १। ४७।]]
05
=>
[[१। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति ताच्छीलिको युच्।]]