| YouTube Channel

तेजः (tejaH)

 
Apte
English
तेजः [tējḥ], 1 Pungency.
Sharpness (of a weapon).
Brilliancy.
Spirit.
तेजः [tējḥ] तेजनम् [tējanam], तेजनम् See under तिज्.
Apte 1890
English
तेजः 1 Pungency.
2 Sharpness (of a weapon).
3 Brilliancy.
4 Spirit.
तेजः, तेजनं See under तिज्.
Monier Williams Cologne
English
तेजः
=
°जस्.
Hindi
Hindi
कौशल
Indian Epigraphical Glossary
English
tejaḥ (EI 12), abbreviation of tejaḥ-svāmya.
Wordnet
Sanskrit
Synonyms:
अग्निः, वैश्वानरः, वीतहोत्रः, अग्निहोत्रः, हुरण्यरेताः, सप्तार्चि, विभावसुः, वृषाकपिः, स्वाहापतिः, स्वाहाप्रयः, स्वाहाभुक्, अग्निदेवः, अग्निदेवता, धनञ्जयः, जातवेदः, कृपीटयोनिः, शोचिष्केशः, उषर्बुधः, बृहद्भानुः, हुतभुक्, हविरशनः, हुताशः, हुताशनः, हविर्भुक्, हव्यवाहनः, हव्याशनः, क्रव्यवाहनः, तनुनपात्, रोहिताश्वः, आशुशुक्षणिः, आश्रयाशः, आशयाशः, आश्रयभुक्, आश्रयध्वंसी, पावकः, पावनः, तेजः, वह्निः, ज्वलनः, अनलः, कृशानुः, वायुसखा, वायुसखः, दहनः, शिखी, शिखावान्, कृष्णवर्त्मा, अरणिः, घासिः, दावः, पचनः, पाचनः, पाचकः, जुहुवान्, वाशिः, अर्चिष्मान्, प्रभाकरः, छिदिरः, शुन्ध्युः, जगनुः, जागृविः, अपाम्पितः, जलपित्तः, अपित्तम्, हिमारातिः, फुत्करः, शुक्रः, आशरः, समिधः, चित्रभानुः, ज्वालाजिह्वा, कपिलः, विभावसुः, तमोनुद्, शुचिः, शुक्रः, दमुनः, दमीनः, अगिरः, हरिः, भुवः
noun
देवताविशेषः-हिन्दुधर्मानुसारम् अग्नेः देवतास्वरूपम्।
"अग्नेः पत्नी स्वाहा।"
Synonyms:
वैभवम्, तेजः, विभूतिः, प्रतापः, शोभा, उज्ज्वलता, प्रभावः, ऐश्वर्यम्, संपद्
noun
भव्यतायाः अवस्था भावः वा।
"तस्य राजप्रासादस्य वैभवं सर्वान् आकर्षयति।"
Synonyms:
प्राखर्यम्, प्रखरत्वम्, तीक्ष्णता, तेजः, पटुत्वम्, विदग्धता, विदग्धत्वम्
noun
प्रखरस्य अवस्था।
"विदुषां बुद्धेः प्राखर्य्यं शीघ्रतया एव ज्ञायते।"
Synonyms:
सामर्थ्यम्, शक्तिः, बलम्, प्रभावः, वीर्यम्, ऊर्जः, सहः, ओजः, विभवः, तेजः, विक्रमः, पराक्रमः, शौर्यम्, द्रविणम्, तरः, सहः, स्थामः, शुष्मम्, प्राणः, शक्तिता, वया, ईशा, आयत्तिः, आस्पदम्, उत्साहः, ऐधम्, ऐश्यम्, तवः, प्रतापः, प्रबलता, प्रबलता, सबलता, प्रबलत्वम्, प्रासहः, धिष्ण्यम्, वैभवम्, शम्बरः
noun
शारिरिकी क्षमता यया मनुष्यः कार्यं कर्तुं शक्यते।
"भरतस्य सामर्थ्यं केन अपि ज्ञायते।"
Synonyms:
वीर्यम्, शुक्रम्, धातुः, तेजः, रेतः, बीजम्
noun
पुरुषशरीरस्थः सन्ततिनिर्माणे आवश्यकः रसाद्यननुरुपकार्यकरणशक्तिवान् चरमधातुः
"वृष्यं वीर्यं वर्धयति"
Synonyms:
आभा, तेजः, कान्तिः, दीप्तिः
noun
कान्तेः शोभा।
"तस्य आभा मुखोपरि दृश्यते।"
Synonyms:
सुवर्णम्, स्वर्णम्, कनकम्, हिरण्यम्, हेम, हाटकम्, काञ्चनम्, तपनीयम्, शातकुम्भम्, गाङ्गेयम्, भर्मम्, कर्वरम्, चामीकरम्, जातरूपम्, महारजतम्, रुक्मम्, कार्तस्वरम्, जाम्बुनदम्, अष्टापदम्, शातकौम्भम्, कर्चुरम्, रुग्मम्, भद्रम्, भूरि, पिञ्जरम्, द्रविणम्, गैरिकम्, चाम्पेयम्, भरुः, चन्द्रः, कलधौतम्, अभ्रकम्, अग्निबीजम्, लोहवरम्, उद्धसारुकम्, स्पर्शमणिप्रभवम्, मुख्यधातु, उज्ज्वलम्, कल्याणम्, मनोहरम्, अग्निवीर्यम्, अग्नि, भास्करम्, पिञजानम्, अपिञ्जरम्, तेजः, दीप्तम्, अग्निभम्, दीप्तकम्, मङ्गल्यम्, सौमञ्जकम्, भृङ्गारम्, जाम्बवम्, आग्नेयम्, निष्कम्, अग्निशिखम्
noun
धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज्यते।
"सुवर्णस्य मूल्यं वर्धितम्।"
Synonyms:
पित्तम्, मायुः, पलज्वलः, तेजः, तिक्तधातुः, उष्मा, अग्निः, अनलः, शाण्डिलीपुत्रः
noun
शरीरस्थधातुविशेषः यः पित्ताशये जायते तथा यः पचनक्रियायां साहाय्यं करोति।
"पित्तं अन्नस्य पचनक्रियायां सहायकम्।"
Synonyms:
प्रकाशः, द्युतिः, दीप्तिः, तेजः, प्रदीपः, ज्योतिः, ज्योतिः, प्रभा, आभा, छविः, आलोकः, रुचिः, रुच्, कान्तिः, छटा, निभा, भा, भाः, छाया, त्विषा, त्विष्, शोचिः, शोभा, वर्चः, महः, द्योतः, दूशानम्, मरीचिः, झल्लिका
noun
सा शक्तिः तत्त्वं वा यया अन्यानि वस्तूनि दृग्गोचराणि भवन्ति।
"सूर्यस्य आगमनेन दिशः प्रकाशेण कास्यन्ति।"
Synonyms:
अग्निः, पावकः, पावनः, तेजः, वह्निः, ज्वलनः, अनलः, कृशानुः, वायुसखा, वायुसखः, दहनः, शिखी, शिखावान्, कृष्णवर्त्मा, अरणिः, घासिः, दावः, पचनः, पाचनः, पाचकः, जुहुवान्, वाशिः, अर्चिष्मान्, प्रभाकरः, छिदिरः, शुन्ध्युः, जगनुः, जागृविः, अपाम्पितः, जलपित्तः, अपित्तम्, हिमारातिः, फुत्करः, शुक्रः, आशरः, समिधः, चित्रभानुः, ज्वालाजिह्वा, कपिलः, विभावसुः, तमोनुद्, शुचिः, शुक्रः, दमुनः, दमीनः, अगिरः, हरिः, कविः
noun
तेजःपदार्थविशेषः।
"पर्वते दृश्यमानः धूमः अग्नेः सूचकः।"
Synonyms:
जलम्, वारि, अम्बु, अम्भः, पयः, सलिलम्, सरिलम्, उदकम्, उदम्, जडम्, पयस्, तोयम्, पानीयम्, आपः, नीरम्, वाः, पाथस्, कीलालम्, अन्नम्, अपः, पुष्करम्, अर्णः, पेयम्, सलम्, संवरम्, शंवरम्, संम्बम्, संवत्सरम्, संववरः, क्षीरम्, पायम्, क्षरम्, कमलम्, कोमलम्, पीवा, अमृतम्, जीवनम्, जीवनीयम्, भुवनम्, वनम्, कबन्धम्, कपन्धम्, नारम्, अभ्रपुष्पम्, घृतम्, कं, पीप्पलम्, कुशम्, विषम्, काण्डम्, सवरम्, सरम्, कृपीटम्, चन्द्रोरसम्, सदनम्, कर्वुरम्, व्योम, सम्बः, सरः, इरा, वाजम्, तामरस, कम्बलम्, स्यन्दनम्, सम्बलम्, जलपीथम्, ऋतम्, ऊर्जम्, कोमलम्, सोमम्, अन्धम्, सर्वतोमुखम्, मेघपुष्पम्, घनरसः, वह्निमारकः, दहनारातिः, नीचगम्, कुलीनसम्, कृत्स्नम्, कृपीटम्, पावनम्, शरलकम्, तृषाहम्, क्षोदः, क्षद्मः, नभः, मधुः, पुरीषम्, अक्षरम्, अक्षितम्, अम्ब, अरविन्दानि, सर्णीकम्, सर्पिः, अहिः, सहः, सुक्षेम, सुखम्, सुरा, आयुधानि, आवयाः, इन्दुः, ईम्, ऋतस्ययोनिः, ओजः, कशः, कोमलम्, कोमलम्, क्षत्रम्, क्षपः, गभीरम्, गम्भनम्, गहनम्, जन्म, जलाषम्, जामि, तुग्र्या, तूयम्, तृप्तिः, तेजः, सद्म, स्रोतः, स्वः, स्वधा, स्वर्गाः, स्वृतिकम्, हविः, हेम, धरुणम्, ध्वस्मन्वतु, नाम, पवित्रम्, पाथः, अक्षरम्, पूर्णम्, सतीनम्, सत्, सत्यम्, शवः, शुक्रम्, शुभम्, शम्बरम्, वूसम्, वृवूकम्, व्योमः, भविष्यत्, वपुः, वर्वुरम्, वर्हिः, भूतम्, भेषजम्, महः, महत्, महः, महत्, यशः, यहः, यादुः, योनिः, रयिः, रसः, रहसः, रेतम्
noun
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
"जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ पेयम्।"
Synonyms:
तेजः
noun
एकः पुरुषः
"तेजस्य उल्लेखः राजतरङ्गिण्यां वर्तते"
शब्दकल्पद्रुमः
Sanskrit
तेजः, [स्]
क्ली,
(तेजयति तेज्यतेऽनेन वा ।तिज निशाने + “सर्व्वधातुभ्योऽसुन् ।” उणां ।४ १८८ इति असुन् ।) दीप्तिः (यथा, माघे ६२ ।“अन्यदुच्छङ्खलं सत्त्वमन्यच्छास्त्रनियान्त्रितम् ।सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः
”)प्रभावः (यथा, महाभारते १४ ४८ ।“तस्मान्नूनं महावीर्य्याद्भार्गवाद्युद्धदुर्म्मदात् ।तेजोवीर्य्यबलैर्भूयान् शिखण्डी द्रुपदात्मजः
”)पराक्रमः (यथा, महाभारते २८ ।“न श्रेयः सततं तेजो नित्यं श्रेयसी क्षमा ।इति तात ! विजानीहि द्बयमेतदसंशयम्
”)रेतः इति मेदिनी से, २५
(यथा, रघुः ।“अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौःसुरसरिदिव तेजो वह्निनिष्ठ्यूतमैशम्
”“तत्र स्त्रीपुंसयोः संयोगे तेजः शरीराद्बायु-रुदीरयति ततस्तेजोऽनिलसन्निपाताच्छुक्रं च्युतंयोनिमभिप्रतिपद्यते संसृज्यते चार्त्तवेन ।”“तत्र तेजोधातुः सर्व्ववर्णानां प्रभवः यदागर्भोत्पत्तावब्धातुप्रायो भवति तदा गर्भं गौरंकरोति पृथिवीधातुप्रायः कृष्णं पृथिव्याकाश-धातुप्रायः कृष्णश्यामं तोयाकाशधातुप्रायोगौरश्यामम्
इति सुश्रुते शारीरस्थानेद्वितीयेऽध्याये
सारः यथा, मुश्रुते १५ ।रसादीनां शुक्रान्तानां धातूनां यत् परं तेज-स्तत् खल्वोजस्तदेव बलमित्युच्यते स्वशास्त्र-सिद्धान्तात्
”“यत् परं तेजः इति यदुत्कृष्टं सारः ।”इति तट्टीका
शारीराग्निसम्भूतपदार्थविशेषः तद्यथा, --“तेजोऽप्याग्नेयं क्रमशः पच्यमानानां धातूना-मभिनिर्वृत्तमन्तरस्थं स्नेहजातं वसाख्यं स्त्रीणांविशेषतो भवात तेन मार्द्दवसौकुमार्य्यमृद्व-ल्परोमतोत्साहदृष्टिस्थितिपक्तिकान्तिदीप्तयोभवन्ति तत् कषायतिक्तशीतरूक्षविष्टम्भिवेग-विघातव्यवायव्यायामव्याधिकर्षणैश्च विक्रियते
”इति सुश्रुते सूत्रस्थाने पञ्चदशेऽध्याये
)त्विट् (देहजकान्तिः यथा, वाजसनेय-संहितायाम् ३१ ।“तेजोऽसि शुक्रमस्यमृतमसि ।धामनामासि प्रियं देवानामनाधृष्टं देवयजन-मसि
”“हे आज्य ! त्वं तेजोऽसि शरीरकान्तिहेतु-त्वात्तेजस्त्वम् ।” इति महीधरः
) नवनीतम् ।अग्निः इति हेमचन्द्रः १५
सुवर्णम् ।मज्जा पित्तम् इति राजनिर्घण्टः
अस-हनम् यथा, साहित्यदर्पणे ६४ ।“अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् ।प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम्
”पञ्चमहाभूतान्तर्गतृतीयमहाभूतम् यथा, --“तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते ।अधिभूतं ततो रूपं सूर्य्यस्तत्राधिदैवतम्
”इत्याश्वमेधिकपर्व्व
अस्य धर्म्माः रूपम् द्रवत्वम् प्रत्यक्ष-योगित्त्वम्
अस्य गुणाः स्पर्शः संख्या २परिमाणम् पृथक्त्वम् संयोगः विभागः ६परत्वम् अपरत्वम् रूपम् द्रवः १०वगः ११ अस्य नैमित्तिकद्रवत्वम् अस्य स्पर्शउष्णः रूपं शुक्लभास्वरम् इदं द्बिधा ।परमाणुस्वरूपं नित्यम् सावयवमनित्यम् ।अनित्यं त्रिधा देहः इन्द्रियं विषयः इतिभाषापरिच्छेदः
(विष्णुः यथा, महा-भारते १३ १४९ ४३ ।“ओजस्तेजो द्युतिधरः प्रकाशात्मा प्रतापनः
”शिवः यथा, तत्रैव १३ १७ ५२ ।“तेजोऽपहारी बलहा मुदितोऽर्थोऽजितो-ऽवरः
”द्रिसप्ततिसाध्यमौलिककायस्थानामन्यतमः तत्रअकारान्तोऽयम् यथा, कुलदीपिकायाम् ।“खामः क्षोमो घर वैओषोवीदस्तेजश्चार्णव आशः
”)
कृदन्तरूपमाला
Sanskrit
1 {@“तिज निशाने”@} 2 निशानम् = तीक्ष्णीकरणम्।
‘क्षमायां च’ इति क्षीरस्वामी।
3 तितिक्षकः-क्षिका, तितिक्षकः 4 -क्षिका, तितिक्षिषकः 5 -षिका, 6 तेजकः-जिका
7 तितिक्षिता-त्री, तितिक्षयिता-त्री, तितिक्षिषिता-त्री, तेजयिता-त्री
-- तितिक्षयन्-न्ती, तितिक्षयिष्यन्-न्ती-ती, तेजयन्, तेजयिष्यन्-न्ती-ती
तितिक्षमाणः, तितिक्षयमाणः, तितिक्षिषमाणः, तेजयमानः
तितिक्षिष्यमाणः, तितिक्षयिष्यमाणः, तितिक्षिषिष्यमाणः, तेजयिष्यमाणः
8 तितिक्-तितिग्-तितिक्षौ-तितिक्षः
-- -- -- 9 तेक्-तेग्-तेजौ-तेजः
-- -- -- तितिक्षितः-तम्, तितिक्षितः, तितिक्षिषितः, 10 तेजितः-तवान्
11 तितिक्षुः, तितिक्षिषुः, तितिक्षयिषुः, तेजः
तितिक्षितव्यम्, तितिक्षयितव्यम्, तितिक्षिषितव्यम्, तेजयितव्यम्
तितिक्षणीयम्, तितिक्षणीयम्, तितिक्षिषणीयम्, तेजनीयम्
तितिक्ष्यम्, तितिक्ष्यम्, तितिक्षिष्यम्, तेज्यम्
ईषत्तितिक्षः-दुस्तितिक्षः-सुतितिक्षः
-- -- तितिक्ष्यमाणः, तितिक्ष्यमाणः, तितिक्षिष्यमाणः, तेज्यमानः
तितिक्षः, तितिक्षः, तितिक्षिषः, तेजः
12 तितिक्षितुम्, तितिक्षयितुम्, तितिक्षिषितुम्, तेजयितुम्
तितिक्षा, तितिक्षणा, तितिक्षिषा, तेजना
तितिक्षणम्, तितिक्षणम्, तितिक्षिषणम्, तेजनम्
तितिक्षित्वा, तितिक्षयित्वा, तितिक्षिषित्वा, तेजयित्वा
प्रतितिक्ष्य, प्रतितिक्ष्य, प्रतितिक्षिष्य, प्रतेज्य
तितिक्षम् २, तितिक्षित्वा २, तितिक्षम् २, तितिक्षयित्वा २, तितिक्षिषम् २, तितिक्षिषित्वा २, तेजम्
तेजयित्वा
13 14 इति क्स्नप्रत्यये दीर्घः।]] तीक्ष्णम्, तिग्मम् 15 इति मक्प्रत्ययः, तत्सन्नियोगेन कवर्गादेशश्च।
तिग्मम् = तीक्ष्णम्।]]।
प्रासङ्गिक्यः
01
=>
(७१९)
02
=>
(१-भ्वादिः-९७१। सक। सेट्। आत्म।)
03
=>
[[१। ‘गुप्तिज्किद्भ्यः सन्’ (३-१-५) इति नित्यं सन्। ‘सनाद्यन्ता धातवः’ (३-१-३२) इति धातुसंज्ञायाम्, ‘सन्यङोः’ (६-१-९) इति द्वित्वम्। अभ्यास- कार्याणि। ‘खरि च’ (८-४-५५) इति चर्त्वेन जकारस्य ककारः। अस्य सनः ‘धातोः’ इत्यधिकृत्य विधानाभावात् नार्धधातुकत्वम्। तेन इड्गुणौ भवतः ‘तिज निशाने’ इत्युक्तेऽपि, ‘तिजेः क्षमायाम्’ इति वृत्तिकारवचनात् (३-१-५) क्षमायां नित्यसन्नन्तः प्रयोगार्हः। अर्थान्तरे तु अननुबन्धकाश्चुरादयः। अत्र, अस्यानुदात्तेत्त्वात् आत्मनेपदमेव।]]
04
=>
[[२। स्वार्थसन्नन्तात् प्रयोजकणिचि, ण्वुलि, ‘णेरनिटि’ (६-४-५२) इति णिलोपे रूपम्। एवं ण्यन्तेऽत्र सर्वत्र प्रक्रिया ज्ञेया।]]
05
=>
[[३। स्वार्थसन्नन्तात् ‘धातोः कर्मणः समानकर्तृकादिच्छायां वा’ (३-१-७) इति इच्छासनि रूपम्। ‘सन्नन्तान्न सनिष्यते।।’ (भाष्येष्टिः ३-१-७) इत्युक्तेः कथमत्र पुनः सन्? इति शङ्कनीयम्। तत्र समानार्थकस्यैव सनः पुनरुत्पत्तिनिषेधे तात्पर्यात्। ‘शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः। सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते।।’ इति किल तत्रोक्तम्।]]
06
=>
[[४। ‘अर्थान्तरेऽननुबन्धकाश्चुरादयः’ इति सिद्धान्तकौमुद्यादिषूक्तत्वात् निशान- रूपार्थे चुरादिः। तदानीं स्वार्थसनोऽभावे रूपम्। एवमुत्तरत्रापि ज्ञेयम्।]]
07
=>
[पृष्ठम्०६५८+ २२]
08
=>
[[१। क्विपि, अतो लोपे, संयोगान्तलोपे रूपम्।]]
09
=>
[[२। स्वार्थसनोऽभावपक्षे ण्यन्ताण्णिचि क्विपि, चर्त्वविकल्पे रूपम्।]]
10
=>
[[आ। ‘कृष्णः प्रपञ्चरहितां धृततेजितास्त्रैः वीरैः स्तुतां गिरमकीर्तदरातिवर्धी।।’ धा। का। ३। २८।]]
11
=>
[[B। ‘जुगुप्सतेऽघाद् व्यसनं तितिक्षुः मीमांसते ब्रह्म यो दृढात्मा।’ धा। का। २। ३८।]]
12
=>
[[C। ‘असंविदानस्य ममेश संविदां तितिक्षितुं दुश्चरितं त्वमर्हसि।’ किरातार्जुनीये १८। ४२।]]
13
=>
[पृष्ठम्०६५९+ २८]
14
=>
[[१। ‘तिजेर्दीर्घश्च’ [द। उ। ५-५०]
15
=>
[[२। ‘युजिरुचितिजां कुश्च’ [द। उ। ७-३३]
Stchoupak
French
तेजः°
v. तेजस्-।