तेज (teja)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishतेजः [tējḥ], 1 Pungency.
Sharpness (of a weapon).
Brilliancy.
Spirit.
तेजः [tējḥ] तेजनम् [tējanam], तेजनम् See under तिज्.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
Englishतेज तेज, अस्, m. (fr. rt. तिज्), sharpness,
pungency
sharpness (of a weapon)
brilliancy
spirit
N. of a man.
—तेज-पत्त्र, अस्, m. the leaf
of Laurus Cassia.
—तेज-वत्, आन्, अती, अत्, sharp,
&c.
see तेजो-वत्।
—तेज-सिंह, अस्, m., N. of a
king, a descendant of Paramāra, mentioned in the
Rāja-taraṅgiṇī by Kalhaṇa.
धातुपाठः (Krishnacharya)
Sanskrit तेज्
तेज
पालने
भ्वादिः
सकर्मकः
सेट्
परस्मैपदी
तेजति
धातुप्रदीपः
Sanskritतेजँ तेज पालने
- तेजति । तेजः ।। 228 ।।
शब्दकल्पद्रुमः
Sanskritतेजः, [स्] (तेजयति तेज्यतेऽनेन वा ।तिज निशाने + “सर्व्वधातुभ्योऽसुन् ।” उणां ।४ । १८८ । इति असुन् ।) दीप्तिः । (यथा, माघे । २ । ६२ ।“अन्यदुच्छङ्खलं सत्त्वमन्यच्छास्त्रनियान्त्रितम् ।सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ॥
”)प्रभावः । (यथा, महाभारते । ६ । १४ । ४८ ।“तस्मान्नूनं महावीर्य्याद्भार्गवाद्युद्धदुर्म्मदात् ।तेजोवीर्य्यबलैर्भूयान् शिखण्डी द्रुपदात्मजः ॥
”)पराक्रमः । (यथा, महाभारते । ३ । २८ । ६ ।“न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा ।इति तात ! विजानीहि द्बयमेतदसंशयम् ॥
”)रेतः । इति मेदिनी । से, २५ ॥
(यथा, रघुः ।“अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौःसुरसरिदिव तेजो वह्निनिष्ठ्यूतमैशम् ॥
”“तत्र स्त्रीपुंसयोः संयोगे तेजः शरीराद्बायु-रुदीरयति । ततस्तेजोऽनिलसन्निपाताच्छुक्रं च्युतंयोनिमभिप्रतिपद्यते संसृज्यते चार्त्तवेन ।”“तत्र तेजोधातुः सर्व्ववर्णानां प्रभवः स यदागर्भोत्पत्तावब्धातुप्रायो भवति तदा गर्भं गौरंकरोति पृथिवीधातुप्रायः कृष्णं पृथिव्याकाश-धातुप्रायः कृष्णश्यामं तोयाकाशधातुप्रायोगौरश्यामम् ॥
” इति सुश्रुते शारीरस्थानेद्वितीयेऽध्याये ॥
सारः । यथा, मुश्रुते । १ । १५ ।रसादीनां शुक्रान्तानां धातूनां यत् परं तेज-स्तत् खल्वोजस्तदेव बलमित्युच्यते स्वशास्त्र-सिद्धान्तात् ॥
”“यत् परं तेजः इति यदुत्कृष्टं सारः ।”इति तट्टीका ॥
शारीराग्निसम्भूतपदार्थविशेषः । तद्यथा, --“तेजोऽप्याग्नेयं क्रमशः पच्यमानानां धातूना-मभिनिर्वृत्तमन्तरस्थं स्नेहजातं वसाख्यं स्त्रीणांविशेषतो भवात तेन मार्द्दवसौकुमार्य्यमृद्व-ल्परोमतोत्साहदृष्टिस्थितिपक्तिकान्तिदीप्तयोभवन्ति तत् कषायतिक्तशीतरूक्षविष्टम्भिवेग-विघातव्यवायव्यायामव्याधिकर्षणैश्च विक्रियते ॥
”इति च सुश्रुते सूत्रस्थाने पञ्चदशेऽध्याये ॥
)त्विट् । (देहजकान्तिः । यथा, वाजसनेय-संहितायाम् । १ । ३१ ।“तेजोऽसि शुक्रमस्यमृतमसि ।धामनामासि प्रियं देवानामनाधृष्टं देवयजन-मसि ॥
”“हे आज्य ! त्वं तेजोऽसि शरीरकान्तिहेतु-त्वात्तेजस्त्वम् ।” इति महीधरः ॥
) नवनीतम् ।अग्निः । इति हेमचन्द्रः । २ । १५ ॥
सुवर्णम् ।मज्जा । पित्तम् । इति राजनिर्घण्टः ॥
अस-हनम् । यथा, साहित्यदर्पणे । ३ । ६४ ।“अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् ।प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ॥
”पञ्चमहाभूतान्तर्गतृतीयमहाभूतम् । यथा, --“तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते ।अधिभूतं ततो रूपं सूर्य्यस्तत्राधिदैवतम् ॥
”इत्याश्वमेधिकपर्व्व ॥
अस्य धर्म्माः रूपम् १ द्रवत्वम् २ प्रत्यक्ष-योगित्त्वम् ३ ॥
अस्य गुणाः । स्पर्शः १ संख्या २परिमाणम् ३ पृथक्त्वम् ४ संयोगः ५ विभागः ६परत्वम् ७ अपरत्वम् ८ रूपम् ९ द्रवः १०वगः ११ । अस्य नैमित्तिकद्रवत्वम् । अस्य स्पर्शउष्णः । रूपं शुक्लभास्वरम् । इदं द्बिधा ।परमाणुस्वरूपं नित्यम् । सावयवमनित्यम् ।अनित्यं त्रिधा देहः इन्द्रियं विषयः । इतिभाषापरिच्छेदः ॥
(विष्णुः । यथा, महा-भारते । १३ । १४९ । ४३ ।“ओजस्तेजो द्युतिधरः प्रकाशात्मा प्रतापनः ॥
”शिवः । यथा, तत्रैव । १३ । १७ । ५२ ।“तेजोऽपहारी बलहा मुदितोऽर्थोऽजितो-ऽवरः ॥
”द्रिसप्ततिसाध्यमौलिककायस्थानामन्यतमः । तत्रअकारान्तोऽयम् । यथा, कुलदीपिकायाम् ।“खामः क्षोमो घर वैओषोवीदस्तेजश्चार्णव आशः ॥
”)
धातुवृत्तिः
Sanskritतेजँ तेज (अर्थः) पालने
(तेजति) ( तितेज तेजितेत्यादि तेजः ) "असुम् तिजः' इति नित्यासुन्नन्तः क्षमार्थोग्रे तिज निशान इति चुरादौ 229
कृदन्तरूपमाला
Sanskrit1 {@“तेज पालने”@} 2 तेजकः-जिका, तेजकः-जिका, तितेजिषकः-षिका, तेतेजकः-जिका
तेजिता-त्री, तेजयिता-त्री, तितेजिषिता-त्री, तेतेजिता-त्री
इत्यादीनि सर्वाणि रूपाणि भौवादिककेलतिवत् 3 बोध्यानि।
तेजितम् 4।
5
01 (७७९)
02 (१-भ्वादिः-२३१। सक। सेट्। पर।)
03 (२६२)
04 [[B। ‘अकर्जितोऽसौ हरिखर्जनोत्कधीरजत्पशुव्रातमजेन तेजितम्।’ धा। का। १। ३१।]]
05 [पृष्ठम्०७००+ २४]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
