| YouTube Channel

तृहू (tRhU)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
तृह्
मूलधातुः:
तृहू
धात्वर्थः:
हिंसायाम्
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
वेट्
उपग्रहः:
परस्मैपदी
रूपम्:
तृहति
अनुबन्धादिविशेषः:
ऊदित्
धातुप्रदीपः
Sanskrit
तृहूँ तृहू
मानकरूपान्तरम् - स्तृहूँ
स्तृहू
मानकरूपान्तरम् - तृन्हूँ
तृंहू हिंसार्थाः
- तृहति तर्हिता तर्ढा अतर्हीत् अतृक्षत् तरीतृह्यते तर्हित्वा तृढ्वा तृढः स्तृहति तस्तर्ह स्तर्हिता स्तर्ढा स्तर्हिष्यति स्तर्क्ष्यति अस्तर्हीत् अस्तृक्षत् तिस्तर्हिषति तिस्तृक्षति तिष्टर्हयिषति तरीष्टृह्यते स्तर्हित्वा स्तृढ्वा स्तृढः तृंहति ततृंह तर्हिता तृण्ढा तृंहिष्यति तृङ्क्ष्यति तृह्यात् अतृंहीत् अतार्ङ्क्षीत् अतृंहिष्टामतार्ढाम् तितृहिषति तितृक्षति (11) तरीतृह्यते तृंहित्वा तृण्ढ्वा तृढः तृंहणम् 67-69
क्षीरतरङ्गिणी
Sanskrit
तृहूँ तृहू
मानकरूपान्तरम् - तृन्हूँ
तृन्हू
मानकरूपान्तरम् - स्तृहूँ
स्तृहू
मानकरूपान्तरम् - स्तृन्हू
स्तृन्हू हिंसायाम्
- तृहति तर्हिता, तर्ढा तर्हणम् रुधादौ तृहि हिसि हिंसायाम् (724) तृणेढि, तृण्ढः, तृंहन्ति तृंहति तृंहिता, तृण्ढा स्तृहति, स्तृंहति षोपदेशाविति दुर्गः 68-71
धातुवृत्तिः
Sanskrit
तृहूँ तृहू
मानकरूपान्तरम् - स्तृहूँ
स्तृहू
मानकरूपान्तरम् - तृन्हूँ
तृंहू (अर्थः) हिंसार्थाः
( तृहति ततर्ह स्तृहति तस्तर्ह ) "शर्पूर्वाः खयः'' ( तर्हिता तर्ढा स्तर्हिता स्तर्ढा ) इत्यादि वृहतिवत् ( तरीष्टृह्यते तरीष्टर्ढि ) "आदेशप्रत्यययोः''इति प्रकृतेः षत्वम् (तिस्तर्हिषति तिस्तृक्षति) इत्यत्र तु "स्तौतिण्योरेव'' इति नियमान्न षत्वम् ( तृहति ) शस्य ङित्त्वात् "अनिदिताम्'' इति नलोपः (ततृंह ततृहतुः ततृंहिथ ततृण्ढ ) धत्वढत्वष्टुत्वडलोपेषु नकारस्य "नश्चापदान्तस्य'' इत्यनुस्वारे परसवर्णो णकारः (तृंहिता तृण्ढा तृंहिष्यति तृङ्क्ष्यति तृहतु अतृहत् तृहेत् तृह्यात् )यासुटः कित्त्वान्नलोपः (अतृंहीत् अतृंहिष्टाम्) अनिट्पक्षेऽप्यनिगुपधत्वात् क्सो नास्तीति सिचि ढत्वकत्वयोः सचः षत्वं, नकारस्यानुस्वारपरसवर्णौ, वृद्धिः, (अतार्ङ्क्षीत् अतार्ण्ढाम् ) इत्यादि ( तितृंहिषति तितृक्षति ) अनिट्पक्षे "हलन्ताद्'' इत्यत्र हल्ग्रहणस्य जातिवाचकत्वात् सनः कित्त्वान्नलोपः (तरीतृह्यते तरीतृंहीति तरीतृण्ढि ) इत्यादि तृंहयति ) अततृंहत् तृंहित्वा तृण्ड्ढ्वा ) इटि "न क्त्वा सेङ्'' इत्यकित्त्वम् ( तृढः तृढवान् ) अत्र सानुषङ्गं मूर्धन्यादिं चतुर्थमपि ष्टृह इति धातुं केचित्पठन्ति आत्रेयमैत्रेयादिभिरयं पठ्यते तृह हिंसार्थो रूधादौ 67-68-69
कृदन्तरूपमाला
Sanskrit
1 {@“तृहू हिंसायाम्”@} 2 ‘श्ने तृणेढीति हिंसायाम्, तृहतीत्यूदितस्तृहेः।।’ 3 देवः।
तर्हकः-र्हिका, तर्हकः-र्हिका, 4 तितर्हिषकः-षिका, तितृक्षकः-क्षिका, तरीतृहकः-हिका
5 तर्हिता-त्री, 6 तर्ढा-र्ढ्री, तर्हयिता-त्री, तितर्हिषिता-तितृक्षिता-त्री, तरीतृ-हिता-त्री
7 व्यतितृहन्-न्ती-ती, तर्हयन्-न्ती, तितर्हिषन्-तितृक्षन्-न्ती
-- तर्हिष्यन्-न्ती-ती, तर्क्ष्यन्-न्ती-ती, तितर्हिषिष्यन्-तितृक्षिष्यन्-न्ती-ती
-- -- तर्हयमाणः, तर्हयिष्यमाणः, -- तरीतृह्यमाणः, तरीतृहिष्यमाणः
सुतृट्-सुतृड्-सुतृहौ-सुतृहः
-- -- -- 8 तृढम्-तृढः-तृढवान्, तर्हितः, तितर्हिषितः-तितृक्षितः, तरीतृहितः-तवान्
तृहः, प्रतर्ही, तर्हः, तितर्हिषुः-तितृक्षुः, तरीतर्हः
तर्हितव्यम्-तर्ढव्यम्, तर्हयितव्यम्, तितर्हिषितव्यम्-तितृक्षितव्यम्
तरीतृहितव्यम्
तर्हणीयम्, तर्हणीयम्, तितर्हिषणीयम्-तितृक्षणीयम्, तरीतृहणीयम्, तृह्यम्, तर्ह्यम्, तितर्हिष्यम्-तितृक्ष्यम्, तरीतृह्यम्, ईषत्तर्हः-दुस्तर्ह-सुतर्हः
-- -- -- तृह्यमाणः, तर्ह्यमाणः, तितर्हिष्यमाणः-तितृक्ष्यमाणः, तरीतृह्यमाणः
तर्हः, तर्हः, तितर्हिषः-तितृक्षः, तरीतृहः
तर्हितुम्-तर्ढुम्, तर्हयितुम्, तितर्हिषितुम्-तितृक्षितुम्, तरीतृहितुम्
तृढिः, तर्हणा, तितर्हिषा-तितृक्षा, तरीतृहा
तर्हणम्, तर्हणम्, तितर्हिषणम्-तितृक्षणम्, तरीतृहणम्
9 तर्हित्वा-तृढ्वा, तर्हयित्वा, तितर्हिषित्वा-तितृक्षित्वा, तरीतृहित्वा
प्रतृह्य, प्रतर्ह्य, प्रतितर्हिष्य-प्रतितृक्ष्य, प्रतरीतृह्य
तर्हम् २, तर्हित्वा २-तृढ्वा, तर्हम् २, तर्हियित्वा, तितर्हिषम् २-तितृक्षम् २, तितर्हिषित्वा २-तितृक्षित्वा २, तरीतृहम्
तरीतृहित्वा २। 10
प्रासङ्गिक्यः
01
=>
(७७७)
02
=>
(६-तुदादिः-१३४८। सक। वेट्। पर।)
03
=>
(श्लो। १९५)
04
=>
[[५। ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (७-२-४४) इति इड्विकल्पः। इडभावपक्षे ‘इको झल्’ (१-२-९) इति सनः कित्त्वम्। ‘हो ढः’ (८-२-३१) इति ढत्वे, ‘षढोः कः सि’ (८-२-४१) इति ढकारस्य ककारे, ‘इण्कोः’ (८-३-५७) इति षत्वे रूपम्। एवमिडभावपक्षे सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
05
=>
[पृष्ठम्०६९६+ २३]
06
=>
[[१। ऊदित्त्वेनेड्विकल्पः। इडभावपक्षे ढत्वधत्वष्टुत्वढलोपाः। एवं तव्यदादिष्वपि।]]
07
=>
[[२। ‘न गतिहिंसार्थेभ्यः’ (१-३-१५) इति कर्मव्यतिहारे शानचो निषेधः। ‘तुदादिभ्यः--’ (३-१-७७) इति शः विकरणप्रत्ययः। शस्य सार्वधातुकत्वेन ङिद्वद्भावादङ्गस्य गुणो भवति।]]
08
=>
[[३। ऊदित्त्वेनेड्विकल्पनात् निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधे, ढत्वादिकं भवति।]]
09
=>
[[४। इट्पक्षे, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद् गुणो भवति।]]
10
=>
[पृष्ठम्०६९७+ २५]