| YouTube Channel

तृहः (tRhaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तृह हिंसायाम्”@} 2 3 क्षीरस्वामी ‘तृहि’ इति इदितं धातुं पठति।
तदानीं ‘इदितो नुम् धातोः, 4 इति नुमि, तृंहकः-हिका, तृंहकः-हिका, तितृंहिषकः-षिका, तरीतृंहकः-हिका, इत्यादीनि नुङ्घटितानि रूपाणि सर्वत्र ज्ञेयानीति विशेषः।]] ‘श्ने तृणेढीति हिंसायां तृहतीत्यूदितस्तृहेः।।’ 5 इति देवः।
तर्हकः-र्हिका, तर्हकः-र्हिका, तितर्हिषकः-षिका, तरीतृहकः-हिका
तर्हिता-त्री, तर्हयिता-त्री, तितर्हिषिता-त्री, तरीतृहिता-त्री
6 तृंहन्-न्ती, 7 व्यतितृंहन्-न्ती, तर्हयन्-न्ती, तितर्हिषन्-न्ती
8 तर्हिष्यन्-न्ती-ती, तर्हयिष्यन्-न्ती-ती, तितर्हिषिष्यन्-न्ती-ती
-- -- तर्हयमाणः, तर्हयिष्यमाणः -- तरीतृह्यमाणः, तरीतृहिष्यमाणः
9 तृट्-तृड्-तृहौ-तृहः
-- -- -- तृहितम्-तः-तवान्, तर्हितः, तितर्हिषितः, तरीतृहितः-तवान्
तृहः, तर्हः, तितर्हिषुः, तरीतर्हः
तर्हितव्यम्, तर्हयितव्यम्, तितर्हिषितव्यम्, तरीतृहितव्यम्
तर्हणीयम्, तर्हणीयम्, तितर्हिषणीयम्, तरीतृहणीयम्
10 तृह्यम्, तर्ह्यम्, तितर्हिष्यम्, तरीतृह्यम्
ईषत्तर्हः-दुस्तर्हः-सुतर्हः
-- -- -- तृह्यमाणः, तर्ह्यमाणः, तितर्हिष्यमाणः, तरीतृह्यमाणः
तर्हः, तर्हः, तितर्हिषः, तरीतृहः
तर्हितुम्, तर्हयितुम्, तितर्हिषितुम्, तरीतृहितुम्
11 तृढिः, तर्हणा, तितर्हिषा, तरीतृहा
तर्हणम्, तर्हणम्, तितर्हिषणम्, तरीतृहणम्
12 तर्हित्वा, तर्हयित्वा, तितर्हिषित्वा, तरीतृहित्वा
प्रतृह्य, प्रतर्ह्य, प्रतितर्हिष्य, प्रतरीतृह्य
तर्हम् २, तर्हित्वा २, तर्हम् २, तर्हयित्वा २, तितर्हिषम् २, तितर्हिषित्वा २, तरीतृहम्
तरीतृहित्वा २।
प्रासङ्गिक्यः
01
=>
(७७६)
02
=>
(७-रुधादिः-१४५५। अक। सेट्। पर।)
03
=>
[[[अ]
04
=>
(७-१-५८)
05
=>
(श्लो-१९५)
06
=>
[[६। ‘रुधादिभ्यः श्नम्’ (३-१-७८) इति श्नम् विकरणप्रत्ययः। तस्य मित्त्वात् अन्त्यादचः परो भवति। ‘श्नसोरल्लोपः’ (६-४-१११) इति अल्लोपः। ‘नश्चा- पदान्तस्य झलि’ (८-३-२४) इति मकारस्यानुस्वारः।]]
07
=>
[[७। ‘न गतिहिंसार्थेभ्यः--’ (१-३-१५) इति कर्मव्यतीहारे शानचो निषेधः।]]
08
=>
[पृष्ठम्०६९५+ २४]
09
=>
[[१। क्विपि, ‘हो ढः’ (८-२-३१) इति ढत्वे, जश्त्वचर्त्वयो रूपम्।]]
10
=>
[[२। ‘ऋदुपधाच्चाकॢपिचृतेः’ (३-१-११०) इति भावकर्मणोः क्यप्।]]
11
=>
[[३। ‘तितुत्र--’ (७-२-९) इतीण्णिषेधे, ढत्वधत्वष्टुत्वढलोपाः।]]
12
=>
[[४। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद् गुणः।]]
1 {@“तृहू हिंसायाम्”@} 2 ‘श्ने तृणेढीति हिंसायाम्, तृहतीत्यूदितस्तृहेः।।’ 3 देवः।
तर्हकः-र्हिका, तर्हकः-र्हिका, 4 तितर्हिषकः-षिका, तितृक्षकः-क्षिका, तरीतृहकः-हिका
5 तर्हिता-त्री, 6 तर्ढा-र्ढ्री, तर्हयिता-त्री, तितर्हिषिता-तितृक्षिता-त्री, तरीतृ-हिता-त्री
7 व्यतितृहन्-न्ती-ती, तर्हयन्-न्ती, तितर्हिषन्-तितृक्षन्-न्ती
-- तर्हिष्यन्-न्ती-ती, तर्क्ष्यन्-न्ती-ती, तितर्हिषिष्यन्-तितृक्षिष्यन्-न्ती-ती
-- -- तर्हयमाणः, तर्हयिष्यमाणः, -- तरीतृह्यमाणः, तरीतृहिष्यमाणः
सुतृट्-सुतृड्-सुतृहौ-सुतृहः
-- -- -- 8 तृढम्-तृढः-तृढवान्, तर्हितः, तितर्हिषितः-तितृक्षितः, तरीतृहितः-तवान्
तृहः, प्रतर्ही, तर्हः, तितर्हिषुः-तितृक्षुः, तरीतर्हः
तर्हितव्यम्-तर्ढव्यम्, तर्हयितव्यम्, तितर्हिषितव्यम्-तितृक्षितव्यम्
तरीतृहितव्यम्
तर्हणीयम्, तर्हणीयम्, तितर्हिषणीयम्-तितृक्षणीयम्, तरीतृहणीयम्, तृह्यम्, तर्ह्यम्, तितर्हिष्यम्-तितृक्ष्यम्, तरीतृह्यम्, ईषत्तर्हः-दुस्तर्ह-सुतर्हः
-- -- -- तृह्यमाणः, तर्ह्यमाणः, तितर्हिष्यमाणः-तितृक्ष्यमाणः, तरीतृह्यमाणः
तर्हः, तर्हः, तितर्हिषः-तितृक्षः, तरीतृहः
तर्हितुम्-तर्ढुम्, तर्हयितुम्, तितर्हिषितुम्-तितृक्षितुम्, तरीतृहितुम्
तृढिः, तर्हणा, तितर्हिषा-तितृक्षा, तरीतृहा
तर्हणम्, तर्हणम्, तितर्हिषणम्-तितृक्षणम्, तरीतृहणम्
9 तर्हित्वा-तृढ्वा, तर्हयित्वा, तितर्हिषित्वा-तितृक्षित्वा, तरीतृहित्वा
प्रतृह्य, प्रतर्ह्य, प्रतितर्हिष्य-प्रतितृक्ष्य, प्रतरीतृह्य
तर्हम् २, तर्हित्वा २-तृढ्वा, तर्हम् २, तर्हियित्वा, तितर्हिषम् २-तितृक्षम् २, तितर्हिषित्वा २-तितृक्षित्वा २, तरीतृहम्
तरीतृहित्वा २। 10
प्रासङ्गिक्यः
01
=>
(७७७)
02
=>
(६-तुदादिः-१३४८। सक। वेट्। पर।)
03
=>
(श्लो। १९५)
04
=>
[[५। ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (७-२-४४) इति इड्विकल्पः। इडभावपक्षे ‘इको झल्’ (१-२-९) इति सनः कित्त्वम्। ‘हो ढः’ (८-२-३१) इति ढत्वे, ‘षढोः कः सि’ (८-२-४१) इति ढकारस्य ककारे, ‘इण्कोः’ (८-३-५७) इति षत्वे रूपम्। एवमिडभावपक्षे सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
05
=>
[पृष्ठम्०६९६+ २३]
06
=>
[[१। ऊदित्त्वेनेड्विकल्पः। इडभावपक्षे ढत्वधत्वष्टुत्वढलोपाः। एवं तव्यदादिष्वपि।]]
07
=>
[[२। ‘न गतिहिंसार्थेभ्यः’ (१-३-१५) इति कर्मव्यतिहारे शानचो निषेधः। ‘तुदादिभ्यः--’ (३-१-७७) इति शः विकरणप्रत्ययः। शस्य सार्वधातुकत्वेन ङिद्वद्भावादङ्गस्य गुणो भवति।]]
08
=>
[[३। ऊदित्त्वेनेड्विकल्पनात् निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधे, ढत्वादिकं भवति।]]
09
=>
[[४। इट्पक्षे, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद् गुणो भवति।]]
10
=>
[पृष्ठम्०६९७+ २५]