| YouTube Channel

तृम्फम् (tRmpham)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तृन्फ तृप्तौ”@} 2 तृम्फादिः।
‘प्रीणने--’ इति द्रुमे।
इति धा।
का।
व्याख्यायाम् 3।
4 तृम्फकः-म्फिका, तृम्फकः-म्फिका, तितृम्फिषकः-षिका, 5 तरीतृफकः-फिका
तृम्फिता-त्री, तृम्फयिता-त्री, तितृम्फिषिता-त्री, तरीतृफिता-त्री
6 7 तृम्फन्-न्ती-ती, 8 तृम्फयन्-न्ती, तितृम्फिषन्-न्ती
-- तृम्फिष्यन्-न्ती-ती, तृम्फयिष्यन्-न्ती-ती, तितृम्फिषिष्यन्-न्ती-ती
9 व्यतितृम्फमाणः, -- -- तरीतृफ्यमाणः
व्यतितृम्फिष्यमाणः, -- -- तरीतृफिष्यमाणः
10 सन्तृप्-सन्तृब्-सन्तृफौ-सन्तृफः
-- -- 11 तृफितम्-तः, तृम्फितः, तितृम्फिषितः, तरीतृफितः-तवान्
तृम्फः, तृम्फः, तितृम्फिषुः, 12 तरीतृम्फः
तृम्फितव्यम्, तृम्फयितव्यम्, तितृम्फिषितव्यम्, तरीतृफितव्यम्
तृम्फणीयम्, तृम्फणीयम्, तितृम्फिषणीयम्, तरीतृफणीयम्
तृम्फ्यम्, तृम्फ्यम्, तितृम्फिष्यम्, तरीतृफ्यम्
ईषत्तृम्फः-दुस्तृम्फः-सुतृम्फः
-- -- -- 13 तृफ्यमाणः, तृम्फ्यमाणः, तितृम्फिष्यमाणः, तरीतृफ्यमाणः
14 तृम्फः, तृम्फः, तितृम्फिषः, तरीतृफः
तृम्फितुम्, तृम्फयितुम्, तितृम्फिषितुम्, तरीतृफितुम्
15 तृम्फा, तृम्फणा, तितृम्फिषा, तरीतृफा
16 तृम्फणम्, तृम्फणम्, तितृम्फिषणम्, तरीतृफणम्
17 तृफित्वा-तृम्फित्वा, तृम्फयित्वा, तितृम्फिषित्वा, तरीतृफित्वा
प्रतृफ्य, प्रतृम्फ्य, प्रतितृम्फिष्य, प्रतरीतृफ्य
तृम्फम् २, तृफित्वा २-तृम्फित्वा २, तृम्फम् २, तृम्फयित्वा २, तितृम्फिषम् २, तितृम्फिषित्वा २, तरीतृफम्
तरीतृफित्वा २।
प्रासङ्गिक्यः
01
=>
(७६८)
02
=>
(६-तुदादिः-१३०८। सक। सेट्। पर।)
03
=>
(२-२७)
04
=>
[[४। नोपधोऽयं धातुः। नकारस्य, ‘नश्चापदान्तस्य झलि’ (८-३-२४) इत्यनुस्वारे, ‘अनुस्वारस्य ययि परसवर्णः’ (८-४-५८) इति परसवर्णो मकारः। एवं सर्वत्र ज्ञेयम्।]]
05
=>
[[५। यङन्तेऽभ्यासस्य, ‘रीगृत्वत इति वक्तव्यम्’ (वा। ७-४-९०) इति रोगागमः। यङ्निमित्तकः सर्वत्र, ‘अनिदितां हल उपधायाः क्ङिति’ (६-४-२४) इति नकारलोपः।]]
06
=>
[पृष्ठम्०६८५+ २४]
07
=>
[[१। ‘तुदादिभ्यः--’ (३-१-७७) इति शः विकरणप्रत्ययः। शस्य सार्वधातुकत्वेन ङिद्वद्भावात्, ‘अनिदितां--’ (६-४-२४) इत्युपधानकारलोपः। ‘शे तृम्फा- दीनामिति वक्तव्यम्’ (वा। ७-१-५९) इति नुम्। तृम्फादयः = येऽत्र (तुदादौ) सानुषङ्गाः पठ्यन्ते ते इति व्याख्यातारः। ‘प्रकारवाची आदिशब्दः। प्रकारश्च सादृश्यम्। तच्च नकारानुषक्ततया--’ इति हरदत्तः।]]
08
=>
[[२। ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इत्यनेन ण्यन्तात् परस्मैपदमेव। शानच्।]]
09
=>
[[३। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्।]]
10
=>
[[४। क्विपि, ‘अनिदिताम्--’ (६-४-२४) इति नकारलोपे, चर्त्वजश्त्वयो रूपम्।]]
11
=>
[[५। निष्ठायाम्, नकारलोपे रूपम्।]]
12
=>
[[६। यङन्तात् पचाद्यचि, ‘यङोऽचि च’ (२-४-७४) इति यङो लुकि रूपम्। लुका लुप्तत्वेन स्थानिवद्भावनिषेधादुपधानकारलोपो न।]]
13
=>
[[७। यकि, उपधानकारलोपे, ‘ऋवर्णान्नस्य णत्वं वाच्यम्’ (वा। ८-४-१) इति णत्वम्।]]
14
=>
[[आ। ‘शत्रूल्लोभकरेफरीढितृपिता तृम्फाय तोपार्थिनो राज्ञो नित्यमतुम्पकान् वितुफती बन्धूंश्च सन्तुम्फती।’ धा। का। २। ७४।]]
15
=>
[[८। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियां भावादावकारप्रत्ययः।]]
16
=>
[पृष्ठम्०६८६+ २३]
17
=>
[[१। ‘नोपधात् थफान्ताद्वा’ (१-२-२३) इति कित्त्वविकल्पः। कित्त्वपक्षे उपधा- नकारलोपो भवति। कित्त्वाभावपक्षे, नकारलोपो न।]]