| YouTube Channel

तृप (tRpa)

 
शब्दसागरः
English
तृप r. 1st cl. (तर्पति) 4th cl. (ञि, उ) ञितृपु (तृप्यति) 5th cl. (तृप्नोति) 6th cl.
(तृम्पति) and 10th cl. (तर्पयति-ते)
1. To please, to satisfy, to
content.
2. To be pleased or satisfied, to be content or satiate.
3. (In the 1st and 10th cls.) To light or kindle.
E.
भ्वा-पर-सक-सेट्
दिवा-पर-सक-सेट् स्वादि-पर-सक-सेट् चुरा-उभ-तुदा-मुचादि-पर-सक-सेट्
Wilson
English
तृप r. 1st cl. (तर्पति) 4th cl. (ञि, उ) ञितृपु
(तृप्यति) 5th cl. (तृप्नोति) 6th cl. (तृपति) and 10th cl.
(तर्पयति)
1 To please, to satisfy, to content.
2 To be pleased or satisfied, to be content or satiate.
3 (In the 1st and 10th cls.) To light or kindle.
Monier Williams Cologne
English
तृप
mfn.
अ-तृप॑
असु-
Monier Williams 1872
English
तृप। See अ-तृप।
Shabdartha Kaustubha
Kannada
तृप - प्रीणने (दिवा० पर० अक० /सक० वे०) तृप्यति
पदविभागः - > धातुः
कन्नडार्थः - > ತೃಪ್ತಿಗೊಳಿಸು
प्रयोगाः - > "नाग्निस्तृप्यति काष्ठानाम्" "पितृनतार्प्सीत्"
उल्लेखाः - > हितो० २-६-११५, भट्टि० २-५२
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
तृप्
मूलधातुः:
तृप
धात्वर्थः:
प्रीणने (तृप्तिः तर्पणं च)
गणः:
दिवादिः
कर्मकत्वं:
तृप्तौ अकर्मकः, तर्पणे सकर्मकः
इट्त्वं:
वेट्
उपग्रहः:
परस्मैपदी
रूपम्:
तृप्यति
अनुबन्धादिविशेषः:
पुषादिः
धातुः:
तृप्
मूलधातुः:
तृप
धात्वर्थः:
प्रीणने
गणः:
स्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
तृप्नोति
धातुः:
तृप्
मूलधातुः:
तृप
धात्वर्थः:
प्रीणने
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
तृपति
धातुः:
तृप्
मूलधातुः:
तृप
धात्वर्थः:
प्रीणने, सन्दीपने
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
तर्पयति-ते
अनुबन्धादिविशेषः:
आधृषीयः
धातुप्रदीपः
Sanskrit
तृपँ तृप प्रीणने
- तृप्यति अतार्प्सीत् अत्राप्सीत् अतर्पीत् अतृपत् तर्पित्वा तृप्त्वा तृप्तः तृप्तिः स्वादिवाठात् तृप्नोति तृपितः न्यासकृता तु स्वादावपठितत्वात् तृप्नोतीति क्षुभ्नादिपाठज्ञापकात् साधितम् 89
तृपँ तृप प्रीणने
- तृप्नोति ततर्प तृपितम् ऋध्यति तृप्यतीति दिवादिपाठात् 27
तृपँ तृप तृप्तौ
- तर्पयति तर्पति अततर्पत् अतीतृपत् तृपितम् अन्यत्र तृप्यति तृप्नोति 263
शब्दकल्पद्रुमः
Sanskrit
तृप, कि सन्दीपने प्रीणने इति कविकल्पद्रुमः
(चुरां-पक्षे भ्वां-परं-सकं-सेट् ।) कि, तर्पयतितर्पति योऽग्नित्रयं तर्पयतीति हलायुधः ।इति दुर्गादासः
तृप, प्रीणने इति कविकल्पद्रुमः
(स्वां-परं-सकं-सेट् ।) प्रीणनं प्रीतीकरणम् न, तृप्नोतिपितरं पुत्त्रः ततर्प इति दुर्गादासः
तृप, प्रीणने इति कविकल्पद्रुमः
(तुदां-परं-सकं-सेट् ।) श, तृम्पति ततर्प इतिदुर्गादासः
तृप, ञि प्रीणने इति कविकल्पद्रुमः
(दिवां-परं-अकं-सकं च-वेट् ।) ञि, तृप्तोऽस्ति ऌ, अतृपत् अस्य ऌदित्वेऽपि कृषमृशस्पृशेत्यादि-विशेषविधानात् पक्षे ट्यांसिस्तेन अतार्प्सीत्अत्राप्सीत् अतर्पीदित्यपि य, तृप्यति ऊ, तर्पिष्यति तर्प्स्यति प्रीणनमिह प्रीतीभावःप्रीतीकरणञ्च स्यन्दीनि तृप्यतु मधूनि पिब-न्निवायमिति श्रीहर्षः पितॄनतार्प्सीन्नृपरक्ततोयै-रिति भट्टिः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
तृप प्रीणने स्वा०
पर०
सक०
सेट् तृप्नोति अतर्पीत् ततर्प
तृप सन्दीपने प्रीणने वा चुरा०
उभ०
पक्षे
भ्वा०
पर०
सक०
सेट् तर्पयात ते तर्पति अततर्पत्त अतीतृपत् ।अतर्पीत् ततर्प ततर्पथ
तृप प्रीणने दि०
पर०
सक०
वेट् इरित् तृप्यति अतर्पीत् अत्रा-प्सीत्--अर्ताप्सीत्--अतृपत् ततर्ष
तृप प्रीणने तु०
पर०
सक०
सेट् तृपति अतर्पीत् ।“तृपत्सोमं पाहि” ऋ० ११ १५
क्षीरतरङ्गिणी
Sanskrit
तृपँ तृप प्रीतौ
-(अर्थविवरणम्) प्रीतिः सौहित्यम्
तृप्यति तर्पिता त्रप्ता तर्प्ता, अनुदात्तस्य चर्दुपधस्य (6159) इत्यमागमो वा पृप्तः स्पृशमृशकृषतृपदृपः सिज् वा (3144 वा0)-अतृपत्, अत्राप्सीत् अतर्प्सीत् तुदादौ तृप तृप्तौ (629 पाठ0)-तृपति, तृम्पति रक् (द्र0 उ0 213)-तृप्रम् स्वादौ क्षुभ्नादित्त्वात् (गण0 8439) पाठ उन्नेयः-तृप्नोति अतर्पीत्, तृपितम् 83
तृपँ तृप
मानकरूपान्तरम् - दृपँ
दृप संदीपने
- तर्पयति, तर्पति दिवादौ तृप प्रीतौ (486) तृप्यति स्वादौ तृप्नोति दर्पयति, दर्पति दिवादौ (487) दृप्यति चृत छृदेत्येके-चर्तयति, चर्तति
छर्दयति, छर्दति 265, 266
धातुवृत्तिः
Sanskrit
तृपँ तृप (अर्थः) प्रीणने
(अर्थविवरणम्) इह प्रीणनं तृप्तिस्तर्पणं
दृश्यते चोभयथा "तृप्यन्तु भवन्तः' "नाग्निस्तृप्यति काष्ठानाम्' "पितॄनतार्प्सीत्सममंस्तबन्धून्' इति ( तृप्यति ततर्प, ततृपतुः, ततर्पिथ, ततर्प्थ तत्रप्थ, ततृपथुः, ततृप, ततर्प, ततृपिव, ) "अनुदात्तस्य चर्दुपधस्य'' इतिथल्यनिट्पक्षेऽमागमविकल्पः कृते तस्मिन् यणादेशः ( तर्पिता, तर्प्ता, त्रप्ता तर्पिष्यति, तर्प्स्यति, त्रप्स्यति तृप्यतु अतृप्यत् तृत्येत्, तृप्यात्, )लिङौ ( अतृपत्, अतृपताम्, ) पुषादित्वादङ् [ स्पृशमृशकृषतृपदृपां च्लेः सिज्वा वक्तव्यः ] इति सिच्पक्षेअतर्पीत् अतर्पिष्टामिति "नेटि'' इति वृद्धिनिषेधः अनिट्पक्षे त्वमागमे ( अत्राप्सीत् ) अन्यदा ( अतार्प्सीत् ) उभयत्र "वदव्रज'' इति वृद्धिः ( तितर्पिषति, तितृप्सति, ) "हलन्ताच्च'' इति सनः कित्त्वात् नामागमो नापि गुणः ( तरीतृप्यते तरीतृपीति, तरीतर्ति ) इत्यादि रुग्रिकोरपि नेयम् ( तर्पयति अततर्पत् अतीतृपत् ) उरृद्वा ( तर्पित्वा तृप्त्वा फलानां तृप्तः ) "पूरणगुणसुहितार्थ'' इति षष्ठीसमासनिषेधः सुहितार्थास्तृप्तर्थाः (तृप्रः) पुरोडाशः "स्फायितञ्ची'' इत्यादिना रक् ( त्रपिष्ठः, त्रपीयान् ) तृप्तमाचष्टे ( त्रापयति ) "प्रियस्थिर'' इत्यादिना "णाविष्ठवत्'' इति त्रपादेशः पृथ्वादिष्वपाठाद् इमनिजस्य नास्तीति वृत्तावुक्तम् ( तृपला ) लता "कल तृपश्च'' इति कलप्रत्ययः अमुं स्वादावपि मैत्रेयात्रेयादयः पठन्ति तद्वृत्तिन्यासपदमञ्जर्यादिकृतामनभिमतम् तत्त्त्रैवोपपादयिष्यते अयं युजादौ तुदादौ तत्र तुदादौ द्वितीयान्तइत्येके 87
तृपँ तृप
मानकरूपान्तरम् - तृन्फँ
तृम्फ (अर्थः) तृप्तौ
आद्यः प्रथमान्त इति वामनः यदाह तृप्यतिदृप्यती सृपमित्यनिट्कारिकायां श्यना निर्द्देशस्य व्यावर्त्य दर्शयन् तुदादिषु यौ तृपिदृपी तावुदात्तावेवेति आत्रेयमैत्रेयादयस्तु द्वितीयान्तं पठित्वा प्रथमान्तं वामनः पठतीत्याहुः ( तृपति ततर्प तर्पिता तर्पिष्यति तृपतु अतृपत् तृपेत् तृप्याततर्पीत् ) "स्पृशमृशकृष'' इति सिचो विकल्पनमङपवाद इति पौषादिकस्यैव ( तितर्पिषति तरीतृप्यते तर्तर्प्ति तर्पयति अतीतृपत् अततर्पत् उरृद्वा तर्पित्वा तृपितःतृप्त्वा तृप्त ) इति तृप्यतेः (तृम्फति) शस्य ङित्वात्. " अनिदिताम्'' इति नलोपे "शे तृफादीनाम्'' इति नुमागमः येऽत्र सानुषङ्गाः पठ्यन्ते तृम्फादय इति, प्रकारवाच्यादिशब्दः, प्रकारश्च सादृश्यं, तच्च नकारानुषक्ततयेति हरदत्तः ( ततृम्फ तृम्फिता तृम्फिष्यति तृम्फतु अतृम्फत् तृम्फेत् ) आशिषि ( तृफ्यात् ) यासुटः कित्त्वान्नस्य लोपः ( अतृम्फीत् तितृम्फिषति तरोतृफ्यते ) "रीगृत्वतः'' इति रीक् ( तरीतृम्फति तृम्फयति अततृम्फत् तृफित्त्वा तृम्फित्वा तृफितः ) क्त्वायां "नोपधात्थफान्ताद्वा'' इति कित्त्वविकल्पनात्पक्षे नलोपः 27-28
तृपँ तृप (अर्थः) तृप्तौ
संदीपन इति क्षीरस्वामी ( तर्पयति तर्पति तर्पिता ) अनिट्कारिकायां तृप्यतीति श्यना निर्देशान्नास्यानिट्त्त्वम् तृपति तृम्पतीति शे तृप्यतीति श्यनि अस्य स्वादौ पाठो वृत्तिकारादीनामनभिमत इत्यवोचाम 278
कृदन्तरूपमाला
Sanskrit
1 {@“तृप प्रीणने”@} 2 रधादिः।
प्रीणनम् = तृप्तिः, तर्पणं च।
आद्येऽकर्मकः, द्वितीये--सकर्मकः।
3 ‘तृप्नोति तृप्यतीत्येते प्रीणने श्नौ श्यनि क्रमात्।
तृप्तावन्यतरस्यां णौ स्यातां तर्पति तर्पयेत्।।’ 4 इति देवः।
5 तर्पकः-र्पिका, तर्पकः-र्पिका, 6 तितर्पिषकः-षिका, तितृप्सकः-प्सिका, 7 तरीतृपकः-पिका
8 तर्पिता-तर्प्ता-त्रप्ता-त्री, 9 तर्पयिता-त्री, तितर्पिषिता-तितृप्सिता-त्री, तरीतृपिता-त्री
10 तृप्यन्- 11 न्ती, तर्पयन्-न्ती, तितर्पिषन्-तितृप्सन्-न्ती
-- तर्पिष्यन्-तर्प्स्यन्- 12 त्रप्स्यन्-न्ती-ती, तर्पयिष्यन्-न्ती-ती, तितर्पिषिष्यन्-तितृप्सिष्यन्-न्ती-ती
13 व्यतितृप्यमाणः, तर्पयमाणः, 14 व्यतितितर्पिषमाणः-व्यतितितृप्समानः, 15 तरीतृप्यमाणः
16 व्यतितर्पिष्यमाणः-व्यतितर्प्स्यमानः-व्यतित्रप्स्यमानः, तर्पयिष्यमाणः, व्यतितितर्पिषिष्यमाणः-व्यतितितृप्सिष्यमाणः, तरीतृपिष्यमाणः
सुतृप्-सुतृब्-सुतृपौ-सुतृपः
-- -- -- 17 तृप्तम्-18 19 तृप्तः-तृप्तवान्, तर्पितः, तितर्पिषितः-तितृप्सितः, तरीतृपितः-तवान्
तृपः, 20 सन्तर्पी, तर्पः, तितर्पिषुः-तितृप्सुः, तरीतृपः
तर्पितव्यम्-तर्प्तव्यम्-त्रप्तव्यम्, तर्पयितव्यम्, तितर्पिषितव्यम्-तितृप्सितव्यम्, तरीतृपितव्यम्
तर्पणीयम्, तर्पणीयम्, तितर्पिषणीयम्-तितृप्सनीयम्, तरीतृपणीयम्
21 तृप्यम्, तर्प्यम्, तितर्पिष्यम्-तितृप्स्यम्, तरीतृप्यम्, ईषत्तर्पः-दुस्तर्पः-सुतर्पः
-- -- तृप्यमाणः, तर्प्यमाणः, तितर्पिष्यमाणः-तितृप्स्यमानः, तरीतृप्यमाणः
तर्पः, तर्पः, तितर्पिषः-तितृप्सः, तरीतृपाः
तर्पितुम्-तर्प्तुम्-त्रप्तुम्, तर्पयितुम्, तितर्पिषितुम्-तितृप्सितुम्, तरीतृपितुम्
तृप्तिः, तर्पणा, तितर्पिषा-तितृप्सा, तरीतृपा
22 तर्पणम्, तर्पणम्, तितर्पिषणम्-तितृप्सनम्, तरीतृपणम्
23 तर्पित्वा-तृप्त्वा, तर्पयित्वा, तितर्पिषित्वा-तितृप्सित्वा, तरीतृपित्वा
सन्तृप्य, सन्तर्प्य, प्रतितर्पिष्य-प्रतितृप्स्य, प्रतरीतृप्य
तर्पम् २, तर्पित्वा २-तृप्त्वा २, तर्पम् २, तर्पयित्वा २, तितर्पिषम् २-तितृप्सम् २, तितर्पिषित्वा २-तितृप्सित्वा २, तरीतृपम्
तरीतृपीत्वा
24 25 इति रक्प्रत्ययः।
तृप्रः = पुरोडाशः।]] तृप्रः, 26 इति कलप्रत्ययः।
तृपला = लताविशेषः।]] तृपला।
प्रासङ्गिक्यः
01
=>
(७७०)
02
=>
(४-दिवादिः-११९५। सक। वेट्। पर।)
03
=>
[पृष्ठम्०६८८+ २४]
04
=>
(श्लो। १३३)
05
=>
[[१। ‘सार्वधातुकार्धधातुकयोः’ (७-३-८४) इति गुणः। ‘उरण् रपरः’ (१-१-५१) इति रेफविशिष्टो भवति। एवमुत्तरत्रापि ज्ञेयम्।]]
06
=>
[[२। ‘एकाच उपदेशेऽनुदात्तात्’ (७-२-१०) इत्यत्रानिट्कारिकासु, ‘--लिपिं लुपिं तृप्यतिदृप्यती सृपिम्।’ (काशिका ७-२-१०) इति पाठात् वलाद्यार्धधातुकेषु इडागमोऽस्य धातोर्यद्यपि भवेत्--तथापि, ‘रधादिभ्यश्च’ (७-२-४५) इत्यत्र पाठात् इड्विकल्पः। अनुदात्तत्वफलं तु अमागम इति ज्ञेयम्। इट्पक्षे तु-- ‘इको झल्’ (१-२-९) इति सनः कित्त्वान्न गुणः, नापि अमागमः, अमाग- मविधायके सूत्रे, ‘सृजिदृशोः--’ (६-१-५८) इत्यतः, ‘अकिति’ इत्यनुवृत्तेः।]]
07
=>
[[३। ‘रीगृदुपधस्य च’ (७-४-९०) इति रीगागमः। एवं यङन्ते सर्वत्र बोध्यम्।]]
08
=>
[[४। ‘रधादिभ्यश्च’ (७-२-४५) इतीड्विकल्पः। इडभावपक्षे, ‘अनुदात्तस्य ऋदुपधस्यान्यतरस्याम्’ (६-१-५९) इति अमागमविकल्पः। ‘मिदचोऽन्त्यात् परः’ (१-१-४७) इति अम् ऋकारात् परो भवति। ‘इको यणचि’ (६-१-७७) इति यण्। लघूपधगुणापवादोऽयममागमः। एवं तव्यदादिष्वपि ज्ञेयम्।]]
09
=>
[[आ। ‘दातुः स्थातुर्द्विषां मूर्ध्नि यष्टुस्तर्पयितुः पितॄन्।’ भ। का। १८। ४०।]]
10
=>
[[५। ‘दिवादिभ्यः--’ (३-१-६९) श्ति श्यन् विकरणप्रत्ययः। तस्य सार्वधातुकत्वेन ङिद्वद्भावादङ्गस्य गुणो न।]]
11
=>
[[B। ‘रद्धारये सोऽयमनश्वराय तृप्यन्मना दृप्तजनद्गुहेऽस्मै।’ धा। का। २। ६४।]]
12
=>
[[६। स्यप्रत्ययेऽपि अकित्त्वात् अमागमो भवति। अमागमपक्षे रूपमेवम्।]]
13
=>
[[७। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानचि रूपम्।]]
14
=>
[[८। ‘पूर्ववत् सनः’ (१-३-६२) इति सन्नन्तात् शानचि रूपम्।]]
15
=>
[[९। यङन्ताच्छानचि, ‘ऋवर्णान्नस्य णत्वं वाच्यम्’ (वा। ८-४-१) इति णत्वम्।]]
16
=>
[पृष्ठम्०६८९+ २१]
17
=>
[[१। रधादित्वेनास्य धातोर्वलाद्यार्धधातुकेषु वैकल्पिकेट्कत्वात् निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधः।]]
18
=>
[फलानां]
19
=>
[[२। ‘फलानां तृप्तः’ इत्यत्र, ‘पूरणगुणसुहितार्थ--’ (२-२-११) इत्यादिना षष्ठीसमासनिषेधः। सुहितार्थः = तृप्त्यर्थः।]]
20
=>
[[३। ताच्छील्ये णिनिप्रत्ययः।]]
21
=>
[[४। ‘ऋदुपधाच्चाकॢपिचृतेः’ (३-१-११०) इति क्यपि रूपम्।]]
22
=>
[[आ। ‘जप्तदग्निसूनुपितृतर्पणीरपो वहति स्म या विरलशैवला इव।।’ शि। व। १३। ५२।]]
23
=>
[[५। रधादित्वेनेड्विकल्पः। इट्पक्षे, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् गुणो भवति। इडभावपक्षे प्रत्ययस्य कित्त्वेन गुणोऽमागमश्च न।]]
24
=>
[पृष्ठम्०६९०+ २६]
25
=>
[[१। ‘स्फायितञ्चि--’ [द। उ। ८-३१]
26
=>
[[२। ‘कलस्तृपश्च’ [द। उ। ८-१०७]
1 {@“तृप प्रीणने”@} 2 3 स्वादिषु केषाञ्चिन्मतेनास्य धातोः पाठः।
‘स्वादौ क्षुभ्नादित्वात् 4 पाठ उन्नेयः।’ इति क्षीरस्वामी।
देघोऽपि स्वादिषु पाठमनुमेने।
अनिट्कारि- कासु ‘तृप्यतिदृप्यती सृपिम्’ 5 इति श्यना निर्देशव्यावर्त्यत्वेन ‘तुदादिषु यौ तृपिदृपी, तावुदात्तौ’ इति वृत्तिकारेणाभिधानात् तदनुसारिणो न्यासकारादयः स्वादिपाठं नेच्छन्ति।
क्षुभ्नादिषु णत्वनिषेधार्थं ‘तृप्नु’ इति पाठे व्यत्ययेन श्नुः इति न्यासकारादीनां मतम्।
देवश्लोकपरामर्शनेन देवस्य तुदादिष्वेव पाठोऽस्य धातोरनभिमत इति प्रतीयते।
सिद्धान्तकौमुद्याद्यनुसारेणा- स्माभिरयं धातुर्लिखितः।]] ‘तृप्नोति तृप्यतीत्येते प्रीणने श्नौ श्यनि क्रमात्।
तृप्तावन्यतरस्यां णौ स्याताम् तर्पति तर्पयेत्।।’ 6 इति देवः।
तर्पकः-र्पिका, तर्पकः-र्पिका, तितर्पिषकः-षिका, तरीतृपकः-पिका
तर्पिता-त्री, तर्पयिता-त्री, तितर्पिषिता-त्री, तरीतृपिता-त्री
7 तृप्नुवन्-ती, तर्पयन्-न्ती, तितर्पिषन्-न्ती
-- तर्पिष्यन्-न्ती-ती, तर्पयिष्यन्-न्ती-ती, तितर्पिषिष्यन्-न्ती-ती
-- -- तर्पयमाणः, तर्पयिष्यमाणः, -- तरीतृप्यमाणः, तरीतृपिष्यमाणः
प्रतृप्-प्रतृब्-प्रतृपौ-प्रतृपः
-- -- -- तृपितम्-तः, तर्पितः, तितर्पिषितः, तरीतृपितः-तवान्
तृपः, तर्पः, तितर्पिषुः, तरीतर्पः
तर्पितव्यम्, तर्पयितव्यम्, तितर्पिषितव्यम्, तरीतृपितव्यम्
तर्पणीयम्, तर्पणीयम्, तितर्पिषणीयम्, तरीतृपणीयम्
8 तृप्यम्, तर्प्यम्, तितर्पिष्यम्, तरीतृप्यम्
ईषत्तर्पः-दुस्तर्पः-सुतर्पः
-- -- -- 9 तृप्यमाणः, तर्प्यमाणः, तितर्पिष्यमाणः, तरीतृप्यमाणः
तर्पः, तर्पः, तितर्पिषः, तरीतृपः
तर्पितुम्, तर्पयितुम्, तितर्पिषितुम्, तरीतृपितुम्
10 तृप्तिः, तर्पणा, तितर्पिषा, तरीतृपा
तर्पणम्, तर्पणम्, तितर्पिषणम्, तरीतृपणम्
11 तर्पित्वा, तर्पयित्वा, तितर्पिषित्वा, तरीतृपित्वा
सन्तृप्य, सन्तर्प्य, प्रतितर्पिष्य, प्रतरीतृप्य
तर्पम् २, तर्पित्वा २, तर्पम् २, तर्पयित्वा २, तितर्पिषम् २, तितर्पिषित्वा २, तरीतृपम्
तरीतृपित्वा २।
प्रासङ्गिक्यः
01
=>
(७७१)
02
=>
(५-स्वादिः-१२७१। सक। सेट्। पर।)
03
=>
[[[अ]
04
=>
(८-४-३९)
05
=>
(काशिका ७-२-१०)
06
=>
(श्लो। १३३)
07
=>
[[३। शतरि, ‘स्वादिभ्यः--’ (३-१-७३) इति श्नुः विकरणप्रस्ययः। ‘अचि श्नुधातु--’ (६-४-७७) इत्युवङ्। ‘क्षुभ्नादिषु च’ (८-४-३९) इति णत्वनिषेधः।]]
08
=>
[[४। ‘ऋदुपधाच्चाकॢपिचृतेः’ (३-१-११०) इति क्यप्प्रत्ययः।]]
09
=>
[पृष्ठम्०६९१+ २४]
10
=>
[[१। ‘तितुत्र--’ (७-२-९) इति इण्णिषेधः।]]
11
=>
[[२। धातोरस्य सेट्त्वात्, क्त्वायाम्, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद् गुणः।]]
1 {@“तृप तृप्तौ”@} 2 ‘तृफ’ इति क्षीरस्वामिप्रभृतयः पठन्ति।
‘तृप्नोति तृप्यतीत्येके प्रीणने श्नौ श्यनि क्रमात्।’ 3 इति देवः।
अत्र पुरुषकारे-- ‘तृप तृप्तौ’ तुदादिश्चायम्।’ इत्युक्तम्।
तर्पकः-र्पिका, तर्पकः-र्पिका, तितर्पिषकः-षिका, तरीतृपकः-पिका
तर्पिता-त्री, तर्पयिता-त्री, तितर्पिषिता-त्री, तरीतृपिता-त्री
4 तृपन्-न्ती-ती, तर्पयन्-न्ती, तितर्पिषन्-न्ती
-- तर्पिष्यन्-न्ती-ती, तर्पयिष्यन्-न्ती-ती, तितर्पिषिष्यन्-न्ती-ती
-- 5 व्यतितृपमाणः, तर्पयमाणः, -- तरीतृप्यमाणः
व्यतितृपिष्यमाणः, तर्पयिष्यमाणः, -- तरीतृपिष्यमाणः
सुतृप्-सुतृब्-सुतृपौ-सुतृपः
-- -- तृपितम्- 6 तः, तर्पितः, तितर्पिषितः, तरीतृपितः-तवान्
7 तृपः, सन्तपीं, तृपः, तितर्पिषुः, तरीतृपः
तर्पितव्यम्, तर्पयितव्यम्, तितर्पिषितव्यम्, तरीतृपितव्यम्
तर्पणीयम्, तर्पणीयम्, तितर्पिषणीयम्, तरीतृपणीयम्
8 तृप्यम्, तर्प्यम्, तितर्पिष्यम्, तरीतृप्यम्
ईषत्तर्पः-दुस्तर्पः-सुतर्पः
-- -- तृप्यमाणः, तर्प्यमाणः, तितर्पिष्यमाणः, तरीतृप्यमाणः
तर्पः, तर्पः, तितर्पिषः, तरीतृपः
तर्पितुम्, तर्पयितुम्, तितर्पिषितुम्, तरीतृपितुम्
तृप्तिः, तर्पणा, तितर्पिषा, तरीतृपा
तर्पणम्, तर्पणम्, तितर्पिषणम्, तरीतृपणम्
तर्पित्वा, तर्पयित्वा, तितर्पिषित्वा, तरीतृपित्वा
प्रतृप्य, प्रतर्प्य, प्रतितर्पिष्य, प्रतरीतृप्य
तृपम् २, तर्पित्वा २, तर्पम् २, तर्पयित्वा २, तितर्पिषम् २, तितर्पिषित्वा २, तरीतृपम्
तरीतृपित्वा २।
प्रासङ्गिक्यः
01
=>
(७७२)
02
=>
(६-तुदादिः-१३०७। अक। सेट्। पर।)
03
=>
(श्लो। १३३)
04
=>
[[३। ‘तुदादिभ्यः--’ (३-१-७७) इति शः विकरणप्रत्ययः। तस्य ङिद्वद्भावादङ्गस्य गुणो न।]]
05
=>
[[४। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्।]]
06
=>
[[आ। ‘शत्रूल्लोभकरेफरीढितृपिता तृम्फाय तोफार्थिनो राज्ञो नित्यमतुम्पकात् वितुफती बन्धूंश्च सन्तुम्फती।’ धा। का। २। ७४।]]
07
=>
[पृष्ठम्०६९२+ २५]
08
=>
[[१। ‘ऋदुपधाच्चाकॢपिचृतेः’ (३-१-११०) इति भावकर्मणोः क्यप्।]]
1 {@“तृप तृप्तौ”@} 2 आधृषीयः।
‘तृप्तावन्यतरस्यां णौ स्यातां तर्पति तर्पयेत्।।’ 3 इति देवः।
‘प्रीणने च’ इति कविकल्पद्रुमे।
‘सन्दीपने’ इति क्षीरस्वामी।
आधृषीयत्वेनास्य धातोर्णिज्विकल्पः।
तर्पकः-र्पिका, तितर्पयिषकः-षिका, तर्पकः-र्पिका, तितर्पिषकः-षिका, तरीतृपकः-पिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचर्पयतिवत् 4 ज्ञेयानि।
णिजभावपक्षे शुद्धाद्धातोः ‘शेषात् कर्तरि--’ 5 इति परस्मैपदं शता भवतीति विशेषः।
6 तर्पन्-न्ती इति रूपम्।
प्रासङ्गिक्यः
01
=>
(७७३)
02
=>
(१०-चुरादिः-१८२०। सक। सेट्। उभ।)
03
=>
(श्लो। १३३)
04
=>
(५५४)
05
=>
(१-३-७८)
06
=>
[[आ। ‘प्रजहार हरिं रणेष्वतर्पन् सुदृढं छर्दितमन्युरप्रदर्भन्।।’ धा। का। ३। ४९।]]
Grassman
German
(tṛpa), a., befriedigt [von tṛp], enthalten in a-tṛpá.