| YouTube Channel

तृतीया (tRtIyA)

 
Apte
English
तृतीया [tṛtīyā], 1 The third day of a lunar fortnight.
(In
gram.
) The instrumental case or its terminations.
Comp.
-कृत
a.
thrice ploughed (as a field).-तत्पुरुषः the instrumental Tatpuruṣa. -प्रकृतिः
m.
,
f.
a eunuch.
a hermaphrodite.
the neuter gender.
Apte 1890
English
तृतीया 1 The third day of a lunar fortnight.
2 (In gram.) The instrumental case or its terminations.
Comp.
कृत a. thrice ploughed (as a field).
तत्पुरुषः the instrumental Tatpuruṣa.
प्रकृतिः m., f. {1} a cunuch. {2} a hermaphrodite. {3} the neuter gender.
Monier Williams Cologne
English
तृती॑या a (आ),
f.
(scil. तिथि)
=
°यिका,
Jyot.
&c.
(scil. विभक्ति) the terminations of the 3rd case, the 3rd case (instrumental),
Pāṇ.
APrāt.
iii, 19
तृतीया b
f.
तृतीया
ind.
Apte Hindi
Hindi
तृतीया
स्त्री*
- तृतीय + टाप्
"चान्द्र पक्ष का तीसरा दिन, तीज"
तृतीया
स्त्री*
- -
करण कारक या उसके विभक्ति चिह्न
L R Vaidya
English
tftIya {% (I) a. (f. या) %} the third.
tftIyA {% f. %} 1. The third day of a lunar fortnight
2. the instrumental case (in gram.).
Abhyankara Grammar
English
तृतीया the third case
affixes of the third case ( instrumental case or तृतीयाविभक्ति ) which are placed (1) after nouns in the sense of an ins- trument or an agent provided the agent is not expressed by the personal-ending of the root
e. g. देवदत्तेन कृतम्, परशुना छिनत्ति: cf. P. III. 3.18
(2) after nouns connected with सह्, nouns meaning defective limbs, nouns forming the object of ज्ञा with सम् as also nouns meaning हेतु or a thing capable of produc ing a result: e. g. पुत्रेण सहागतः, अक्ष्णा 23 काणः, मात्रा संजानीते, विद्यया यशः
cf. Kas. on P. II.3.19, 23
(3) optionally with the ablative after nouns meaning quality, and optionally with the genitive after pronouns in the sense of हेतु, when the word हेतु is actually used e. g. पाण्डित्येन मुक्तः or पाण्डित्यान्मुक्त:
केन हेतुना or कस्य हेतोर्वसति
it is observed by the Varttikakara that when the word हेतु or its synonym is used in a sen- tence, a pronoun is put in any case in apposition to that word i.e. हेतु or its synonym e.g, केन निमित्तेन, किं निमित्तम् etc.
cf. Kas. on P. II. 3. 25, 27
(4) optionally after nouns connected with the words पृथक्, विना, नाना, after the words स्तोक, अल्प, as also after दूर, अन्तिक and their synonyms
e.g. पृथग्देवदत्तेन etc. स्तोकेन मुक्तः, दूरेण ग्रामस्य, केशैः प्रसितः
cf. Kas. on P.II.3.32, 33, 35, 44
(5) optionally with the locative case after nouns meaning constellation when the tad. affix after them has been elided
e.g. पुष्येण संप्रयातोस्मि श्रवणे पुनरागतः Mahabharata
cf. P.II.3.45
(6) optionally with the genitive case after words connected with तुल्य or its synonyms
e.g.तुल्यो देवदत्तेन, तुल्यो देवदत्तस्य
cf. P. II.3.72.
Wordnet
Sanskrit
Synonyms:
तृतीया
noun
चान्द्रमासस्य कस्यापि पक्षस्य तृतीयतमा तिथिः।
"भाद्रपदमासस्य शुक्लपक्षस्य तृतीयायां स्त्रियः व्रतं कुर्वन्ति सा हरतालिका इति नाम्ना ख्याता अस्ति।"
Mahabharata
English
Tṛtīyā, a river. § 268 (Varuṇasabhāv.): II, 9, 373 (present in the palace of Varuṇa).
पुराणम्
English
तृतीया / TṚTĪYĀ. A river. This river sat in the court of varuṇa worshipping him. (Śloka 21, Chapter 9, Sabhā Parva).
शब्दकल्पद्रुमः
Sanskrit
तृतीया,
स्त्री,
(त्रयाणां पूरणी त्रि + “त्रेःसम्प्रसारणञ्च ।” ५५ इति तीयःसम्प्रसारणञ्च ततष्टाप् ।) तिथिविशेषः ।सा चन्द्रमण्डलस्य तृतीयकलाक्रियारूपा तत्-क्रियोपलक्षितः कालो वा इति तिथ्यादि-तत्त्वम्
अस्यां जातस्य फलं यथा, --“सकलगुणगभीरो भूमिपालानुरागीपवनगरविगाही सर्व्वलोकोपकारी ।परविषयनिवासी कौतुकी सत्यवादीभवति निखिलविद्यो यस्तृतीयाप्रसूतः
”इति कोष्ठीप्रदीपः
वा वैशाखस्य शुक्ला अक्षयतृतीयां यथा, स्मृतिः ।“वैशाखे मासि राजेन्द्र ! शुक्लपचे तृतीयिका ।अक्षया सा तिथिः प्रोक्ता कृत्तिकारोहिणी-युता
तस्या दानादिकं पुण्यं अक्षयं समुदाहृतम्
”भविष्ये ।या शुक्ला कुरुशार्द्दूल ! वैशाखे मासि वै तिथिः ।तृतीया साक्षया लोके गीर्व्वाणैरभिवन्दिता
योऽस्यां ददाति करकान् वारिवाजसमन्वितान् ।स याति पुरुषो वीर ! लोकान् वै हेममालिनः
करकान् कुम्भान् वाजमन्नम् हेममालिनःसूर्य्यस्य
ब्रह्मपुराणे ।“यः पश्यति तृतीयायां कृष्णं चन्दनचर्च्चितम् ।वैशाखस्य सिते पक्षे यात्यच्युतमन्दिरम्
”स्कन्दपुराणम् ।“वैशाखस्य सिते पक्षे तृतीयाक्षयसंज्ञिता ।तत्र मां लेपयेद्गन्धलेपनैरतिशोभनैः
*
ब्रह्मपुराणम् ।“वैशाखशुक्लपक्षे तु तृतीयायां जनार्द्दनः ।यवानुत्पादयामास युगञ्चारब्धवान् कृतम्
ब्रह्मलोकात्त्रिपथगां पृथिव्यामवतारयत् ।तस्यां कार्य्यो यवैर्होमो यवैर्व्विष्णुं समर्च्चयेत्
यवान् दद्यात् द्विजातिभ्यः प्रयतः प्राशयेद्-यवान् ।पूजयेत् शङ्करं गङ्गां कैलासञ्च हिमालयम्
भगीरथञ्च नृपतिं सागराणां सुखावहम् ।स्नानं दानं तपः श्राद्धं जपहोमादिकञ्च यत्
श्रद्धया क्रियते तत्र तदानन्त्याय कल्प्यते
अत्रानन्त्यफलश्रुतेः पूर्व्ववचने नक्षत्रयोगः फला-तिशयार्थः ।” इति तिथ्यादितत्त्वम्
*
पाद्मे श्रीवराहधरणीसंवादे ।“त्रेतायुगं तृतीयायां शुक्लायां मासि माधवे ।प्रवृत्तञ्च त्रयीधर्म्माः प्रवृत्तास्ते प्रवर्त्तिताः
अक्षया सोच्यते लोके तृतीया हरिवल्लभा ।स्नाने दानेऽर्च्चने श्राद्धे जपे पूर्व्वजतर्पणे
येऽर्च्चयन्ति यवैर्व्विष्णुं श्राद्धं कुर्व्वन्ति यत्नतः ।तस्यां ददति दानानि धन्यास्ते वैष्णवा नराः
”इति श्रीहरिभक्तिविलासे १४ १३४
वाचस्पत्यम्
Sanskrit
तृतीया स्त्री तृतीय + टाप् चन्द्रमण्डलस्य तृतीयकला-क्रियायां तदुपलक्षिते कालभेदे तत्र व्रतादिकालव्यव-स्थादि तिथिशब्दे ३२९० पृ० दर्शितम् जन्मनक्षत्रापेक्षया३ तृतीयद्वादशैकविंशात्मकनक्षत्ररूपविपत्तारायाञ्च