| YouTube Channel

तृणजलीकान्याय (tRNajalIkAnyAya)

 
वाचस्पत्यम्
Sanskrit
तृणजलीकान्याय तृणजलौकायाः यथा अपरदेशसंयोगान-न्तरं पूर्धदेशवियोगस्तत्तुल्ये जीवस्यापरदेहसंयोगेन पूर्व-देहपरित्यागरूपे न्याये नैयायिकानां तृणजल-यूकाशब्दे दर्शितश्रुत्या कल्पितः तदेतन्मतं शा० भा०आशङ्क्य तन्मूलश्रुतेरन्यार्थत्वं प्रदर्श्यदुषयित्वा छा० उ०पञ्चाग्निविद्युक्तोश्रुतेः अन्यविध एव संसरणप्रकार उक्तः ।यथा “नन्वन्या श्रुतिः तृणजलौकावत् पूर्वदेहं मुञ्चतियावन्न देहान्तरमाक्रमतीति दर्शयति इति तद्यथातृणजलायूकेति, (तृणजलायूकाशब्दे दर्शिता)तत्राप्यप्परिवेष्टितस्यैव जीवस्य कर्मोपस्थापितप्रतिपत्त-व्यदेहविषयभावनादीर्घीभावमात्रं तृणजलूकयोपमोयतइत्यविरोधः एवं श्रुत्युक्ते देहान्तरप्रतिपत्तिप्रकारेसति याः पुरुषमतिप्रभवाः कल्पनाः” इत्युप-क्रमे “ताः सर्वा एवानादर्तव्याः श्रुतिविरोधात्” ।“नन्वेतद्देहं त्यक्त्वाऽद्भिः सहगतस्य पश्चाद्देहान्तरप्राप्ति-रित्ययुक्तम् यथा तृणजलायूका तृणान्तरं गृहीत्वापूर्वतृणं त्यजति तथा जीवी देहान्तरं गृहीत्वा पूर्वदेहंत्यजतीति श्रुतिविरोधादिति शङ्कते नन्वेति इहैवकर्म्मायत्तभाविदेहं देहोऽहमित्यादिभावनया गृहीत्वापूर्वदेहं त्यजतीति श्रुत्यर्थः अतो विरोधः, इतिसमाधत्ते, तत्रापीति भावनाया दीर्घभावो भाविदेह-विषयत्वम् घटाकाशवदुपहितो जीवः सूक्ष्मोपाधि-गत्या लोकान्तरं गच्छतीति पञ्चाग्निश्रुत्युक्तः प्रकारस्तद्वि-रोधादन्याः कल्पनाः अनादर्तव्या इत्यन्वयः” रत्नप्र०