| YouTube Channel

तृणजलायूका (tRNajalAyUkA)

 
वाचस्पत्यम्
Sanskrit
तृणजलायूका स्त्री० तृणाकारा तृणजाता वा जलायूकाजलौकाभेदे “तद्यथा तृणजलायूका तृणस्यान्तंगत्वात्मानमुपसंहरत्येवमेवायं पुरुष इदं शरीरं निह-त्याविद्यां गमयित्वात्मानमुपसंहरति” शत० व्रा०१४ ७२ तृणजलूकादयोऽप्यत्र स्त्री “यथा तृणजलूकेयंनापयात्यपयाति च” भाग० २९ ७६