| YouTube Channel

तृक्ष (tRkSa)

 
शब्दसागरः
English
तृक्ष r. 1st. cl. (तृक्षति) To go, to move or approach.
E.
भ्वा-पर-सक-सेट्
Wilson
English
तृक्ष r. 1st cl. (तृक्षति) To go, to move or approach.
Apte
English
तृक्षः [tṛkṣḥ],
N.
of the sage Kāśyapa.
Apte 1890
English
तृक्षः N. of the sage Kaśyapa.
Monier Williams Cologne
English
तृक्ष
m.
N.
of a man g. गर्गादि.
Monier Williams 1872
English
तृक्ष तृक्ष, अस्, m. or तृक्षस्, अस्, n., Ved.
strength (?), [cf. त्वक्षस्]
(अस्), m. a kind of
tree (?)
N. of a man.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
तृक्ष्
मूलधातुः:
तृक्ष
धात्वर्थः:
गतौ
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
तृक्षति
धातुप्रदीपः
Sanskrit
तृक्षँ तृक्ष
मानकरूपान्तरम् - ष्टृक्षँ
ष्टृक्ष
मानकरूपान्तरम् - णक्षँ
णक्ष गतौ
- तृक्षति ततृक्ष ।तृक्षः स्तृक्षति तिष्ट्टक्षयिषति (74)। नक्षति ।।661-663 ।।
शब्दकल्पद्रुमः
Sanskrit
तृक्ष, इत्याम् इति कविकल्पद्रुमः
(भ्वा-पर-सकं-सेट् ।) सप्तमस्वरी तृक्षति इत्यां गतौ ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
तृक्ष गतौ
भ्वा०
पर०
सक०
सेट् तृक्षति अतृक्षीत् ततृक्ष
तृक्ष
पु०
तृक्ष--अच् काश्यपे ऋषौ तस्यापत्यं गर्गा० यञ् ।तार्क्ष्य गरुडे अरुणे विहगमात्रे तार्क्ष्यशब्दे दृश्यम्
क्षीरतरङ्गिणी
Sanskrit
तृक्षँ तृक्ष
मानकरूपान्तरम् - स्तृक्षँ
स्तृक्ष
मानकरूपान्तरम् - णक्षँ
णक्ष गतौ
- [ तृक्षति, स्तृक्षति ] तृक्षस्यापत्यं तार्क्ष्यः (द्र0 41105) स्तृक्षः षोपदेशो न्याय्यः, तथा चान्द्राः तृक्ष ष्टृक्ष णक्ष (तु0 चा0 धा0 1215) इति पेठुः अभिनक्षि (उ0 3105) इत्यत्रन्- नक्षत्रम् नभ्राट् (6365) सूत्रेऽस्य निपातनं नाम्नां व्युत्पत्तिरव्यवस्थितेति ज्ञापनार्थम् 640-642
धातुवृत्तिः
Sanskrit
तृक्षँ तृक्ष
मानकरूपान्तरम् - स्तृक्षँ
स्तृक्ष
मानकरूपान्तरम् - णक्षँ
णक्ष (अर्थः) गतौ
(तृक्षति ततृक्ष तृक्षितेतृयादि तितृक्षिषति तरीतृक्ष्यते) "रीगृत्वतः" इति रीक्(तरीतृष्टिः)"स्कोः''इति कलोपस्यासिद्धत्वाल्लघुपधत्वाभावान्नगुणः एवं रुग्रिकौ (तृक्षयति अततृक्षत् तृक्षतीति, तृक्षः तस्यापत्यं तार्क्ष्यः) "गर्गादिभ्यो यञ्'' इति यञ् स्तृक्षति तस्तृक्षेत्यादि पूर्ववत् षोपदेशफलं (तरीष्टृक्ष्यत) इत्यादौ (नक्षति प्रणक्षतीत्यादि नक्षत्रम्) नक्षत्रम्) अमिनक्षीत्यत्रप्रत्ययः "नभ्राण्'' इत्यत्र नञ्पूर्वात् क्षरतेः क्षीयतेर्वा नक्षत्रमिति निपातितम् 651
कृदन्तरूपमाला
Sanskrit
1 {@“तृक्ष गतौ”@} 2 तृक्षकः-क्षिका, तृक्षकः-क्षिका, तितृक्षिषकः-क्षिका, 3 तरीतृक्षकः-क्षिका
तृक्षिता-त्री, तृक्षयिता-त्री, तितृक्षिषिता-त्री, तरीतृक्षिता-त्री
तृक्षन्-न्ती, तृक्षयन्-न्ती, तितृक्षिषन्-न्ती
-- तृक्षिष्यन्-न्ती-ती, तृक्षयिष्यन्-न्ती-ती, तितृक्षिषिष्यन्-न्ती-ती
-- 4 -- तृक्षयमाणः, -- तरीतृक्ष्यमाणः
-- तृक्षयिष्यमाणः, -- तरीतृक्षिष्यमाणः
5 तृट्-तृड्-तृक्षौ-तृक्षः
6 तृक्-तृग्-तृक्षौ तृक्षः
-- तृक्षितम्- 7 तः-तवान्, तृक्षितः, तितृक्षिषितः, तरीतृक्षितः-तवान्
तृक्षः, 8 तार्क्ष्यः, तृक्षः, तितृक्षिषुः, तरीतृक्षः
तृक्षितव्यम्, तृक्षयितव्यम्, तितृक्षिषितव्यम्, तरीतृक्षितव्यम्
तृक्षणीयम्, तृक्षणीयम्, तितृक्षिषणीयम्, तरीतृक्षणीयम्
तृक्ष्यम्, तृक्ष्यम्, तितृक्षिष्यम्, तरीतृक्ष्यम्
ईषत्तृक्षः-दुस्तृक्षः-सुतृक्षः
-- -- तृक्ष्यमाणः, तृक्ष्यमाणः, तितृक्षिष्यमाणः, तरीतृक्ष्यमाणः
तृक्षः, तृक्षः, तितृक्षिषः, तरीतृक्षः
तृक्षितुम्, तृक्षयितुम्, तितृक्षिषितुम्, तरीतृक्षितुम्
9 तृक्षा, तृक्षणा, तितृक्षिषा, तरीतृक्षा
तृक्षणम्, तृक्षणम्, तितृक्षिषणम्, तरीतृक्षणम्
तृक्षित्वा, तृक्षयित्वा, तितृक्षिषित्वा, तरीतृक्षित्वा
प्रतृक्ष्य, प्रतृक्ष्य, प्रतितृक्षिष्य, प्रतरीतृक्ष्य
तृक्षम् २, तृक्षित्वा २, तृक्षम् २, तृक्षयित्वा २, तितृक्षिषम् २, तितृक्षिषित्वा २, तरीतृक्षम्
तरीतृक्षित्वा २।
प्रासङ्गिक्यः
01
=>
(७६५)
02
=>
(१-भ्वादिः-६६०। सक। सेट्। पर।)
03
=>
[[२। यङन्ते, ‘रीगृत्वत इति वक्तव्यम्’ (वा। ७-४-९०) इति अभ्यासे रीगागमः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[पृष्ठम्०६८०+ २७]
05
=>
[[१। क्विपि, ‘स्कोः संयोगाद्योरन्ते च’ (८-२-२९) इति ककारलोपे, जश्त्वे, चर्त्व- विकल्पे रूपम्।]]
06
=>
[[२। ण्यन्तात् क्विपि तु णिलोपस्य स्थानिवद्भावेन, ‘स्कोः--’ (८-२-२९) इति ककार- लोपो भवति। ‘संयोगान्तस्य--’ (८-२-२३) इति षकारलोपे, जश्त्वे रूपमेवमिति ज्ञेयम्।]]
07
=>
[[आ। ‘उक्षन्नेनं मन्दहासेन रक्षन् विश्वं निक्षन् वल्लवीस्तृक्षिताघाः।।’ धा। का। १। ८३।]]
08
=>
[[३। पचाद्यचि, तृक्षस्यापत्यमित्यर्थे, ‘गर्गादिभ्यो यञ्’ (४-१-१०५) इति यञ्प्रत्यये रूपम्।]]
09
=>
[[४। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियां भावादौ अकारप्रत्ययः।]]