| YouTube Channel

तूलं (tUlaM)

 
शब्दकल्पद्रुमः
Sanskrit
तूलं,
क्ली,
(तूलयते पूरयति सर्व्वं व्यापकत्वात् ।तूल पूरणे + कः ।) आकाशम् इति मेदिनी ।ले, २५
अश्वत्थाकारवृक्षविशेषः पलाश-पिपल इति तूत इति भाषा
तत्पर्य्यायः ।तूदः ब्रह्मकाष्ठम् ब्राह्मणेष्टः पूषकः ५ब्रह्मदारु सुपुष्पम् सुरूपम् नीलवृन्त-कम् क्रमुकः १० विप्रकाष्ठम् ११ मदसारः १२ ।इति राजनिर्घण्टः
पूगः १३ तत्पक्वफल-गुणाः गुरुत्वम् स्वादुत्वम् हिमत्वम् ।पित्तानिलनाशित्वञ्च तदामफलगुणाः गुरु-त्वम् सारकत्वम् अम्लत्वम् उष्णत्वम् ।रक्तपित्तकारित्वञ्च इति भावप्रकाशः
मधु-राम्लत्वम् दाहप्रशमनत्वम् वृष्यत्वम् कषा-यत्वम् कफनाशित्वञ्च इति राजनिर्घण्टः
तूलं, क्ली
पुं,
(तूल्यते इयत्तया परिच्छिद्यते इति ।तूल + कर्म्मणि घञ् यद्बा, तूलयते स्वल्पोऽपिबहुस्थानं पूरयतीति तूल + “इगुपधेति ।” कः ।)कार्पासादितूलः (इति मेदिनी ले, २६
)तत्पर्य्यायः पिचुः इत्यमरः १०६
पिचुलः पिचुतूलः तूलपिचुः इत्यमर-टीका
पिचुतूलम् इति त्रिकाण्डशेषः
(यथा, देवीभागवते १० ३६ ।“विपरीतं यदा दैवं तृणं वज्रसमं भवेत् ।विधिश्चेत् सुमुखः कामं कुलिशं तूलवत्तदा
”)