| YouTube Channel

तुषितः (tuSitaH)

 
Wordnet
Sanskrit
Synonyms:
भद्रः, तुषितः
noun
स्वायम्भुवमन्वन्तरे विष्णोः जातः देवगणभेदः।
"भद्रस्य वर्णनं पुराणेषु प्राप्यते।"
शब्दकल्पद्रुमः
Sanskrit
तुषितः,
पुं,
(तुष्यतीति तुष तुष्टौ + बाहुलकात्कितच् यद्वा, तुष + क्विप् तुट् सन्तोषोऽस्य जातः तारकादित्वात् इतच् ।) देव-गणविशेषः इत्यमरः १०
तेषट्त्रिंशत् स्मृताः इति भरतः
केषाञ्चिन्मतेद्वादश ते तु मन्वन्तरभेदे विभिन्ननामानः ।यथा, --“प्राणापानसमानाश्च उदानो व्यान एव ।चक्षुः श्रोत्ररसा घ्राणस्पर्शौ बुद्धिर्म्मनस्तथा ।द्वादशैते तु तुषिता देवाः स्वारोचिषेऽन्तरे
”इति सारसुन्दरी
(यथाच विष्णुपुराणे १५ १२७-१३३ ।“पूर्व्वमन्वन्तरे श्रेष्ठा द्वादशासन् सुरोत्तमाः ।तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेऽन्तरे
उपस्थितेऽतियशसश्चाक्षुषस्यान्तरे मनोः ।समवायीकृताः सर्व्वे समागम्य परस्परम्
आगच्छत द्रुतं देवा अदितिं संप्रविश्य वै ।मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भविष्यति
एवमुक्त्वा तु ते सर्व्वे चाक्षुषस्यान्तरे मनोः ।मारीचात् कश्यपात् जातास्तेऽदित्या दक्षकन्यया ।तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव ।अर्य्यमा चैव धाता त्वष्टा पूषा तथैव
विवस्वान् सविता चैव मित्रो वरुण एव ।अंशो भगश्चादितिजा आदित्या द्वादश स्मृताः
चाक्षुषष्यान्तरे पूर्व्वमासन् ये तुषिताः सुराः ।वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः
”तथा मत्स्यपुराणे -- ।“तुषिता नाम ये देवाश्चाक्षुषस्यान्तरे मनोः ।वैवस्वतेऽन्तरे चैते आदित्या द्वादश स्मृताः
इन्द्रो धाता भगस्त्वष्टा मित्रोऽथ वरुणो यमः ।विवस्वान् सविता पूषा अंशुमान् विष्णुरेव
”तथा, भागवते ।“तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः ।इध्मः कविर्विभुः स्वाहा सुदेवो रोचनो द्बिषट् ।तुषिता नाम ते देवा आसन् सायम्भुवान्तरे
”)