| YouTube Channel

तुवरी (tuvarI)

 
Shabdartha Kaustubha
Kannada
तुवरी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ತೊಗರಿ ಗಿಡ
निष्पत्तिः - > तुवर - गौरा० "ङीष्"(४-१-४१)
तुवरी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ತೊಗರಿ
Wordnet
Sanskrit
Synonyms:
स्फटी, तुवरी, सौराष्ट्री, स्फाटिकी
noun
जलशुद्धिकारकः दृढरङ्गदायी कटुधातुविशेषः।
"कषायोष्णा स्फटी वातपित्तकफव्रणान् निहन्ति।"
Synonyms:
तुवरी, तुवरः, कषाय-यावानलः, रक्त-यावानलः, लोहित-कुस्तुम्बुरु-धान्यम्
noun
धान्य-विशेषः, कषायो यावानलः आयुर्वेदे अस्य वातशमनत्व-विरेचकादित्वादयः गुणाः प्रोक्ताः।
"अद्य अहं ओदनेन सह तुवरीं पचामि।"
Synonyms:
तुवरी, तुवरः, कषाय-यावानलः, रक्त-यावानलः, लोहित-कुस्तुम्बुरु-धान्यम्
noun
सस्य-विशेषः, यस्य बीजरूपाः कषायाः यावानलाः भोजने उपयुज्यन्ते।
"अस्मिन् संवत्सरे तुवर्यः सस्यं विपुलं दृश्यते।"
अभिधानचिन्तामणिः
Sanskrit
--source--
सौराष्ट्री पार्वती काक्षी कालिका पर्पटी सती १०५५
आढकी तुबरी कंसोद्भवा काक्षी मृदाह्वया
-wordlist-
सौराष्ट्री (स्त्री), पार्वती (स्त्री), काक्षी (स्त्री), कालिका (स्त्री), पर्पटी (स्त्री), सती (स्त्री), आढकी (स्त्री), तुवरी (स्त्री), कंसोद्भवा (स्त्री), काच्छी (स्त्री), मृदाह्वया (स्त्री)
--source--
आढकी तुवरी वर्णा स्यात्कुल्माषस्तु यावकः ११७५
-wordlist-
आढकी (स्त्री), तुवरी (स्त्री), वर्णा (स्त्री), कुल्माष (पुं), यावक (पुं)
अभिधानरत्नमाला
Sanskrit
आढकी
आढकी, तुवरी
वल्ला निष्पावकाः प्रोक्ता आढकी तुवरी स्मृता ५८४
verse 2.1.1.584
page 0066
शब्दकल्पद्रुमः
Sanskrit
तुवरी,
स्त्री,
(तुवर + षित्त्वात् ङीष् ।) आढकी ।(यथा, वैद्यकरत्नमालायाम् ।“आढकी तुवरी ज्ञेया
”वर्व्वरी तुलसी तत्पर्य्यायाश्च यथा, --“वर्व्वरी तुवरी तुङ्गी खरपुष्पाजगन्धिका
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)सौराष्ट्रमृत्तिका तत्पर्य्यायः मृत् सौराष्ट्री ३मृत्स्ना आसङ्गः मसी सुराष्ट्रजा ७मृत्तालकम् काली मृत्तिका १० सुर-मृत्तिका ११ स्तुत्या १२ काक्षी १३ सुजाता १४ ।अस्या गुणाः तिक्तत्वम् कटुत्वम् कषाय-त्वम् उष्णत्वम् लेखनत्वम् चक्षुष्यत्वम् ।ग्राहित्वम् छर्दिपित्तजृम्भानाशित्वञ्च इतिराजनिर्घण्टः
“तुवरी ग्राहिणी शीता लघ्वी कफविषास्रजित् ।तीक्ष्णोष्णा वह्निदा कण्डूकुष्ठकोठकृमिप्रणुत्
”इति भावप्लकाशः
वाचस्पत्यम्
Sanskrit
तुवरी स्त्री तु + ष्वरच् षित्त्वात् ङीष् आढक्यां सौरा-ष्ट्नमृत्तिकायाञ्च(फिट्करि) राजनि० (तोरी) इति३ धान्यभेदे भावप्र० तद्गुणास्तत्रोक्ता यथा “तुवरीग्राहिणी शीता लघ्वी कफविषास्मजित् तीक्ष्णोष्णावह्निदा कण्डूकुष्ठकोठकृमिप्रणुत्”