| YouTube Channel

तुवरयावनाल (tuvarayAvanAla)

 
शब्दकल्पद्रुमः
Sanskrit
तुवरयावनालः,
पुं,
(तुवरः कषायो यावनालः ।)घान्यविशेषः तत्पर्य्यायः तुवरः कषाय-यावनालः रक्तयावनालः लोहितकुस्तुम्बुरु-धान्यम् अस्य गुणाः कषायत्वम् उष्ण-त्वम् विरेचकत्वम् संग्राहित्वम् वातशमन-त्वम् विदाहित्वम् शोषकारित्वञ्च इतिराजनिर्घण्टः
वाचस्पत्यम्
Sanskrit
तुवरयावनाल
पु०
कर्म० घान्यभेदे राजनि० “तुवरोयावनालस्तु कषायोष्णो विरेचकः संग्राही वातशमनोविदाही शोषकारकः” राजनि०