| YouTube Channel

तुलापुरुषदानं (tulApuruSadAnaM)

 
शब्दकल्पद्रुमः
Sanskrit
तुलापुरुषदानं,
क्ली,
(तुलापुरुषस्य तुलोन्मितपुरुष-भारसमपरिमितद्रव्यस्य दानम् यद्वा, तुला-पुरुषविधिना दानम् ।) षोडशमहादानान्तर्गत-दानविशेषः यथा, --“आद्यन्तु सर्व्वदानानां तुलापुरुषसंज्ञितम्
”तस्य कालो यथा, --“नोक्तानि यानि गुह्यानि महादानानि षोडश ।तानि ते संप्रवक्ष्यामि यथावदनुपूर्व्वशः
तुलापुरुषयागोऽयं येषामादौ विधीयते ।अयने विषुवे चैव व्यतीपाते दिनक्षये
युगादिषूपरागेषु तथा मन्वन्तरादिषु ।संक्रास्त्यां पौर्णमास्याञ्च द्बादशीष्वष्टकासु
यज्ञोत्सवविवाहेषु दुःस्वप्नाद्भुतदर्शने ।द्रव्यब्राह्मणलाभो वा श्रद्धा वा यत्र जायते
”तस्य देशो यथा, --“तीर्थे वायतने गोष्ठकूपारामसरित्सु ।गृहे वाथ वने वापि तडागे रुचिरेऽथवा
महादानानि देयानि संसारभयभीरुणा
”अस्य विधानं यथा, --“पुण्यां तिथिमथासाद्य कृत्वा ब्राह्मणवाचनम् ।मण्डपं रचयेद्बिद्बान् षोडश द्बादश वा करान्
मण्डपं कारयेद्बिद्बांश्चतुर्भद्रासनं बुधः ।सप्तहस्ता भवेद्वेदी मध्ये पञ्चकराथ वा
तन्मध्ये तोरणं कुर्य्यात् सारदारुमयं शुभम् ।कुर्य्यात् कुण्डानि चत्वारि चतुर्द्दिक्षु विचक्षणः
”तुलारोपणप्रस्तावे ।“रश्मिभिस्तोरणाग्रे तु बन्धयेच्च विधानतः ।सुमेखलायोनिसमायुतानिसंपूर्णकुम्भानि सहासनानि ।सुताम्रकुण्डद्वयसंयुतानिसयज्ञपात्राणि सहस्रुवाणि
हस्तप्रमाणानि तिलाज्यपूर-पुष्पोपहाराणि सुशोभनानि ।पूर्व्वोत्तरे हस्तमिता वेदीग्रहादिदेवेश्वरपूजनाय
अर्घ्यार्च्चनं ब्रह्मशिवाच्युतानांतत्रैव कार्य्यं फलवस्त्रमाल्यैः ।ब्रह्मशिवाच्युतानां प्रतिमासु पूजा कार्य्या इत-रेषां स्थण्डिले कार्य्या ।लोकेशवर्णाः परितः पताका-मध्ये ध्वजं किङ्किणिकायुतं स्यात्
द्वारेषु कार्य्याणि तोरणानिचत्वार्य्यपि क्षीरवनस्पतीनाम् ।द्बारेषु कुम्भद्बयमत्र कार्य्यंस्रग्गन्धधूपाम्बररत्नयुक्तम्
*
यत्पूर्व्वं सारदारुमयं कुर्य्यादित्युक्तं तस्येदानी-मनुष्ठानमाह ।सालेङ्गुदीचन्दनदेवदारु-श्रीपर्णिविल्वप्रियकाञ्चनोत्थम् ।स्तम्भद्बयं हस्तयुगावखातंकृत्वा दृढं पञ्चकरोच्छ्रितं तत्
तदन्तरं हस्तचतुष्टयं स्या-दथोत्तरायाञ्च तदङ्गमेव
*
चतुर्हस्ता तुला कार्य्या पादौ कार्य्यौ तथाविधौ ।अन्तरन्तु तयोर्हस्तौ भवेदध्यर्द्धमेव
समानजातिश्च तुलावलम्ब्याहैमेन मध्ये पुरुषेण युक्ता ।हैमेन पुरुषेणेति सुवर्णनिर्म्मितबासुदेवाकृति-नेति बोद्धव्यम् ।दैर्घ्येण सा हस्तचतुष्टयं स्यात्पूर्णत्वमस्यास्तु दशाङ्गुली स्यात्
सुवर्णपत्राभरणा कार्य्यासुलोहपाशद्वयशृङ्खलाभिः ।युता सुवर्णेन तु रत्नमालाविभूषिता माल्यविलेपनाढ्या
चक्रं लिखेद्बारिजगर्भयुक्तंनानारजोभिर्भुवि कीर्णपुष्पम् ।वितानकञ्चोपरि पञ्चवर्णंसंस्थापयेत् पञ्चपताकशोभम्
इति तुलानिर्म्माणमुक्तम्
*
अथ द्बिजा वेदविदश्च कार्य्याःसुवामवेशान्वयशीलयुक्ताः ।विधानदक्षाः पटवोऽनुकूलाये चार्य्यदेशप्रभवा द्विजेन्द्राः
गुरुश्च वेदाङ्गविदार्य्यदेश-समुद्भवः शीलकुलाभिरूपः ।कार्य्यः पुराणाभिरतोऽतिदक्षःप्रसन्नगम्भीरसरस्वतीकः
पूर्व्वेण ऋग्वेदविदौ यथास्तांयजुर्व्विदौ दक्षिणतश्च शस्तौ ।स्थाप्यौ द्विजौ सामविदौ पश्चा-दथर्व्वणावुत्तरतश्च कार्य्यौ
विनायकादिग्रहलोकपाल-वस्वष्टकादित्यमरुद्गणानाम् ।ब्रह्माच्युतेशानवनस्पतीनांस्वमन्त्रतो होमचतुष्टयं स्यात्
जप्यानि सूक्तानि तथैव चैषा-मनुक्रमेणापि यथा स्वरूपम् ।अभ्यर्च्चयेल्लोकपतीन् क्रमेणमन्त्रैरमीभिर्यजमानयुक्तः
इत्यावाह्य सुरान्दद्यादृत्विग्भ्यो हेमभूषणम् ।कुण्डलानि हैमानि सूत्राणि कटकानि
द्विगुणं गुरवे दद्याद्भूषणाच्छादनादिकम् ।जपेयुः शान्तिकाध्यायं जापकाः सर्व्वतो दिशम्
उपोषितास्ततः सर्व्वे कृत्वैवमधिवासनम् ।आदावन्ते मध्ये कुर्य्याद्ब्राह्मणवाचनम्
ततो मङ्गलशब्देन स्नापितो वेदपुङ्गवैः ।त्रिः प्रदक्षिणमावृत्य गृहीतकुसुमाञ्जलिः
शुक्लमाल्याम्बरो भूत्वा तां तुलामभिमन्त्रयेत् ।नमस्ते सर्व्वदेवानां शक्तिस्त्वं शक्तिमास्थिता ।साक्षीभूता जगद्धात्रा निर्म्मिता विश्वयोनिना
एकतः सर्व्वसत्यानि तथा भूतशतानि ।धर्म्माधर्म्मकृतां मध्ये स्थापितासि जगद्धिते
त्वं तुले ! सर्व्वभूतानां प्रमाणमिह कीर्त्तिता ।मां तोलयन्ती संसारादुद्धरस्व नमोऽस्तु ते
योऽस्य तत्त्वाधिपो देवः पुरुषः पञ्चविंशकः ।स एवाधिष्ठितो देवि ! त्वयि तस्मान्नमोऽस्तुते
नमो नमस्ते गोविन्द ! तुलापुरुषसंज्ञक ! ।त्वं हरे ! तारयस्वास्मानस्मात् संसारसागरात्
पुण्यं कालमथासाद्य कृत्वाधिवासनं पुनः ।षुनः प्रदक्षिणं कृत्वा तां तुलामारुहेद्बुधः
सखड्गचर्म्मः कवची सर्व्वाभरणभूषितः ।धर्म्मराजमथादाय हैमं सूर्य्येण संयुतम्
कराभ्यां मृदुमुष्टिभ्यामास्ते पश्यन् हरेर्मुखम् ।ततोऽपरे तुलाभागे न्यसेयुर्द्विजपुङ्गवाः
सा स्यादभ्यधिकं यावत् काञ्चनं चातिनिर्म्मलम्पुष्टिकामस्तु कुर्व्वीत भूमिसंस्थन्नरेश्वर !
क्षणमात्रं ततः स्थित्वा पुनरेतदुदीरयेत् ।नमस्ते साक्षीभूतानां साक्षीभूते सनातनि !
पितामहेन देवि ! त्वं निर्म्मिता परमेष्ठिना ।त्वया धृतं जगत् सर्व्वं सहस्थावरजङ्गमम्
सर्व्वभूतात्मभूतस्थे नमस्ते विश्वधारिणि ।ततोऽवतीर्य्य गुरवे पूर्व्वमर्द्धं निवेदयेत्
प्राप्य तेषामनुज्ञाञ्च तथान्येभ्योऽपि दापयेत् ।दीनानाथविशिष्टादीन् पूजयेत् ब्राह्मणैः सह
चिरं घारयेद्गेहे हेम संप्रोक्षितं बुधः ।तिष्ठद्भयावहं यस्माच्छोकव्याधिकरं नृणाम्
शीघ्रं परस्वीकरणात् श्रेयः प्राप्नोति पुष्कलम्
”तस्य द्रव्यविशेषेण फलं यथा, --“अष्टानामपि धातूनां यस्तुलां कुरुते नरः ।सर्व्वपापैः प्रमुच्येत मनोवाक्कायसम्भवैः
यावद्धातु स्थितं तत्र तावत् कोटिशतानि ।मोदते तत्र वर्षाणां स्वर्गलोके संशयः
अथ मानुष्यमाक्रम्य कदाचित् कालपर्य्यये ।धनधान्यसमृद्धो वै जायते महतां कुले
आत्मनस्तु तुलां कृत्वा सुवर्णं यः प्रयच्छति ।स तारयेत् पितृगणान् दश पूर्व्वान् दशापरान्
आत्मनस्तु तथा तद्वत् फलभाग्जायते नरः ।जन्मप्रभृति यत् पापं मातृकं पैतृकं तथा
सुवर्णदानात् दारिद्र्यं पश्यति कदाचन ।रजतस्य तुलां कृत्वा सुकृती यः प्रयच्छति
तावद्बर्षप्रमाणेन निर्म्मलः स्वर्गभाग्भवेत् ।अनन्तरं भवेद्राजा पृथिव्यां नात्र संशयः
सुवर्णहारी कुष्ठी वा सर्व्वव्याधियुतोऽपि वा ।ताम्रस्य तु तुलां कृत्वा मुच्यते नात्र संशयः
तु वर्षसहस्रं वै स्वर्गलोके महीयते ।कांस्यस्य तु तुलां कृत्वा विप्रेभ्यो यः प्रयच्छति
तु इन्द्रपदं प्राप्य ऊर्व्वश्या सह मोदते ।आयसस्य तुलां कृत्वा दाता रत्नाधिपो भवेत्
लभते ह्युत्तमस्थानं बलवान् जायते सदा ।रैत्यस्य तु तुलां कृत्वा यो ददाति द्बिजातये
सोऽप्सरःशतसंकीर्णे विमाने दिवि मोदते ।सीसकस्य तुलां कृत्वा यो ददातीह मानवः
गन्धर्व्वपदं गच्छेत् नानाभरणभूषितः ।रङ्गस्य तु तुलां कृत्वा विप्रेभ्यो यः प्रयच्छति
विमुक्तः सर्व्वपापेभ्यश्चन्द्रसायुज्यमाप्नुयात् ।घृतस्य तु तुलां कृत्वा ये प्रयच्छन्ति मानवाः
तेजस्विनोऽभिजायन्ते गोभिश्च चिरजीविनः ।तैलस्य तु तुलां कृत्वा यो वै दद्याद् द्बिजा-तये
अरागित्वं सुखित्वं वै आयुष्मानपि जायते ।अन्नदः सर्व्वसौभाग्यं सर्व्वान् कामान् मधुप्रदः
अनेन विधिना यस्तु तुलापुरुषमाचरेत् ।प्रतिलोकाधिपस्थाने प्रतिमन्वन्तरं वसेत्
विमानेनार्कवर्णेन किङ्किणीजालमालिना ।पूज्यमानोऽप्सरोभिश्च ततो विष्णुपुरं व्रजेत्
कल्पकोटिशतं यावत्तस्मिल्लोके महीयते
कर्म्मक्षयादिह पुनर्भुवि राजराजोभूपालमौलिमणिराजितपादपीठः ।श्रद्धान्वितो भवति यज्ञसहस्रयाजीदीप्तप्रतापजितसर्व्वमहीपलोकः
यो दीप्यमानमपि पश्यति तन्नियुक्तःकालान्तरे स्मरति वाचयतीह लोके ।यो वा शृणोति पठतीन्द्रसमानरूपःप्राप्नोति वासवपुरं परदेवजुष्टम्
”इति दानसागरः