तुलापुरुष (tulApuruSa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishShabdartha Kaustubha
Kannadaतुलापुरुष
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಮನುಷ್ಯನ ದೇಹವು ತೂಗುವಷ್ಟು ಚಿನ್ನ ಅಥವಾ ಬೆಳ್ಳಿಯ ದಾನ
L R Vaidya
EnglishIndian Epigraphical Glossary
Englishवाचस्पत्यम्
Sanskritतुलापुरुष षोडशसु महादानेषु आद्ये माहादाने तत्-प्रकारः मत्स्यपु० २७३ अ० उक्तो यथा “अथातः सम्प्रवक्ष्यामिमहादानानुकीर्तनम्” इत्युपक्रमे । “आद्यन्तु सर्वदा-नानां तुलापुरुषसंज्ञकम्” महादानानि विभज्य उक्तं यथा“मत्स्य उवाच । यानि नोक्तानि गुह्यानि महादानानिषोडश । तानि ते कथयिष्यामि यथावदनुपूर्वशः ।तुलापुरुषयागोऽयं येषामादौ विधीयते । अयने विषवेपुण्ये व्यतीपाते दिनक्षये । युगादिषूपरागेषु तथामन्वन्तरादिषु । सङ्क्रान्तौ वैधृतिदिने चतुर्दश्य-ष्टमीषु च । सितपञ्चदशीपर्वद्वादशीष्वष्टकासु च ।यज्ञोत्सवविवाहेषु दुःखप्नाद्भुतदर्शने । द्रव्यब्राह्मणलाभे वा श्रद्धा वा यत्र जायते । तीर्थे वायतने वापितडागे रुचिरे तथा । महादानानि देयानि संसार-भयभीरुणा । अनित्यं जीवितं यस्मात् वसु चातीवचञ्चलम् । केशेष्वेव गृहीतः सन् मृत्युना धर्म्ममा-चरेत् । पुण्यां तिथिमथासाद्य कृत्वा ब्राह्मणवाचनम् ।षोडशारत्निमात्रन्तु दश द्वादश वा करान् । मण्डपं कार-येद्विद्वान् चतुर्भद्रासनं बुधः । सप्तहस्ता भवेद्वेदी मध्ये-पञ्चकरा तथा । तत्मध्ये तोरणं कुर्य्यात् सारदारुमयंबुधः । कुर्य्यात् कुण्डानि चत्वारि चतुर्दिक्षु विचक्षणः ।समेखलायोनियुतानि कुर्य्यात् सम्पूर्णकुम्भानि सहा-सनानि । सुताम्रपात्रद्वयसंयुतानि सयज्ञपात्राणिसुविष्टराणि । हस्तप्रमाणानि तिलाज्यधूपपुष्पोपहा-राणि सुशोभनानि । पूर्वोत्तरे हस्तमिताथ वेदी ग्रहा-दिदेवेश्वरपूजनाय । अत्रार्चनं ब्रह्मशिवाच्युतानां तत्रैवकार्य्यं फलमाल्यवस्त्रैः । लोकेशवर्णाः परितः पताका-मध्ये ध्वजः किङ्किणिकायुतः स्यात् । द्वारेषु कार्य्याणिच तोरणानि चत्वार्य्यपि क्षीरवनस्पतीनाम् । द्वारेषुकुम्भद्वयमत्र कार्य्यं स्रग्गन्धधूपाम्बररत्नयुक्तम् । शालेङ्गुदीचन्दनदेवदारुश्रीपर्णिविल्वप्रियकाञ्चनोत्थम् । स्तम्भद्वयंहस्तयुगावस्वातं कृत्वा दृढं पञ्चकरोच्छ्रितञ्च । तदन्तरंहस्तचतुष्टयं स्यादथोत्तराङ्गञ्च तदङ्गमेव । समानजातिश्चतुलावलम्ब्या हैमेन मध्ये पुरुषेण युक्ता । दैर्घ्येणसा हस्तचतुष्टयं स्यात् पृथुत्वमस्यास्तु दशाङ्गुलानि ।सुवर्णषट्टाभरणा तु कार्य्या सा लोहपाशद्वयशृङ्खलाभिः ।युता सुवर्णेन तु रत्नमालाविभूषिता माल्यविलेपनाभ्याम् ।चक्रं लिखेद्वारिजगर्भयुक्तं नानारजोभिर्भुवि पुष्पकी-र्णम् । वितानकञ्चोपरि षञ्चवर्णं संस्थापयेत् पुष्पफ-लोपशोभम् । अथर्त्विजो वेदविदश्च कार्य्याः सुरूपके-शान्वयशोलयुक्ताः । विधानदक्षाः पटवोऽनुकूला ये चा-र्य्यदेशप्रभवा द्विजेन्द्राः । गुरुश्च वेदान्तविदार्य्यवंशसमु-द्भवः शीलकुलाभिरूपः । पुराणशास्त्राभिरतोऽतिदक्षःप्रसन्नगम्भीरसरस्वतीकः । सिताम्बरः कुण्डलहेमसूत्रकेयूरकण्ठाभरणाभिरामः । पूर्वेण ऋग्वेदविदावथास्तांभजुर्विदौ दक्षिणतश्च शस्तौ स्थाप्यौ द्विजौ सामविदौतु पश्चादाथर्वणाबुत्तरतस्तु कार्य्यौ । विनायकादिग्र-हलोकपालवस्वष्टकादित्यमरुद्गणानाम् । ब्रह्माच्युते-शार्कवनस्पतीनां स्वमन्त्रतोहोमचतुष्टयं स्यात् । जप्यानिसूक्तानि तथैव चैषामनुक्रमेणापि यथास्वरूपम् ।होमावसाने कृततूर्य्यनादो गुरुर्गृहीत्वा वलिपुष्पधूपम् ।आवाहयेल्लोकपतीन् क्रमेण मन्त्रैरमीभिर्यजमानयुक्तः ।एह्येहि सर्बामरसिद्धसाध्यैरभिष्टुतोवज्रधराऽमरेश! ।संवोज्यमानोऽप्सरसाङ्गणेन रक्षाध्वरन्नो भगवन्नमस्ते(इन्द्रस्य) । एह्येहि सर्वामरहव्यवाह! मुनिप्रवीरैरभितोऽ-भिजुष्ट! । तेजस्विना लोकगणेन सार्द्धं ममाध्वरं रक्षकवे! नमस्ते” (अग्नेः) । एह्येहिवैवस्वत! धर्म्मराज!सर्वामरैरर्चितदिव्यमूर्त्ते! । शुभाशुभानन्दशुचामधीश ।शिवाय नः पाहि मखं नमस्ते” (यमस्य) । एह्येहिरक्षोगणनायकस्त्वं सर्वैस्तु वेतालपिशाचसङ्घैः ।ममाध्वरं पाहि शुभाधिनाथ! लोकेश्वरस्त्वं भगव-न्नमस्ते (नैरृतस्य) । एह्येहि यादोगणवारिधीनाङ्गणेन पर्जन्यमहाप्सरोभिः । विद्याधरेन्द्रामरगीयमान!पाहि त्वमस्मान् भगवन्नमस्ते (वरुणस्य) । एह्येहि यज्ञे मम रक्षणाय मृगाधिरूढः सह सिद्धसङ्घैः ।प्राणाधिपः कालकवेः सहायः गृहाण पूजां भगवन्नमस्ते(वायोः) । एह्येहि यज्ञेश्वर! यज्ञरक्षां विधत्स्व नक्षत्र-गणेन सार्द्धम् । सर्वौषधीभिःपितृभिः सहैव गृहाण पूजांभगवन्नमस्ते (सोमस्य) । एह्येहि विश्वेश्वर! नस्त्रिशूलकपालखष्ट्वाङ्गधरेणसार्द्धम् । लोकेश! यज्ञेश्वर! यज्ञसिद्ध्यैगृहाण पूजां भगवन्नमस्ते (ईशस्य) । एह्येहि पाताल-धराधरेन्द्र! नागाङ्गनाकिन्नरगीयमान! । यक्षोरगेन्द्रा-मरलोकसङ्घैरनन्त! रक्षाध्वरमस्मदीयम्” । (अनन्तस्य)एह्येहि विश्वाधिपते! मुनीन्द्र लोकेन सार्द्धं पितृदेवताभिः ।सर्वस्य धातास्यमितप्रभाव! विशाध्वरन्नो भगवन्नमस्ते(ब्रह्मणः) । त्रैलोक्ये यानिमूतानि स्थावराणि चराणि चब्रह्मविष्णुशिवैः सार्द्धं रक्षां कुर्वन्तु तानि मे । देव-दानवगन्धर्वा यक्षराक्षसपन्नगाः । ऋषयो मनवोगावोदेवमातर एव च । सर्वे ममाध्वरे रक्षां प्रकुर्वन्तु मुदा-न्विताः । इत्यावाह्य सुरान् दद्यादृत्विग्भ्यो हेमभूष-णम् । कुण्डलानि च हैमानि सूत्राणि कटकानि च ।अङ्गुलीयपवित्राणि वासांसि शयनानि च । द्विगुणंगुरवे दद्याद्भूषणाच्छादनानि च । जपेयुः शान्तिका-ध्यायं जापकाः सर्वतोदिशम् । तत्तोषितास्तु ते सर्वेकृत्वैवमधिवासनम् । आदावन्ते च मध्ये च कुर्य्याद्-ब्राह्मणवाचनम् । ततो मङ्गलशब्देन स्नापितो वेदपु-ङ्गवैः । त्रिःप्रदक्षिणमावर्त्य गृहीतकुसुमाञ्जलिः ।शुक्लमाल्याम्बरोभूत्वा तां तुलामभिमन्त्रयेत् । नमस्तेसर्वदेवानां शक्तिस्त्वं सत्यमास्थिता । साक्षिभूता जग-द्धात्री निर्भिता विश्वयोनिना । एकतः सर्वसत्यानितथानृतशतानि च । धर्म्माधर्म्मकृतां मध्ये स्थापितासिजगद्धिते! । त्वं तुले! सर्वभूतानां प्रमाणमिह कीर्त्तिता ।मां तोलयन्ती संसारादुद्धरस्व नमोऽस्तु ते । योऽसौ-तत्त्वाधिपोदेवः पुरुषः पञ्चविंशकः । स एकोऽधिष्ठितो-देवि! त्वयि तस्मान्नमोनमः । नमोनमस्ते गोविन्द!तुलापुरुषसंज्ञक! । त्वं हरे! तारयस्वास्माम्महा-ससारकर्दमात् । पुण्यकालं समासाद्य कृत्वैवमधिवा-सनम् । पुनः प्रदक्षिणं कृत्वा तुलामारोहयेद्बुधः ।सस्वड्गचर्मकवचः सर्वाभरणभूषितः । धर्म्मराजमथा-दाय हैमं सूर्य्येण संयुतम् । कराभ्यां बद्धममुष्टिभ्या-मास्ते पश्यन् हरेर्मुखम् । ततोऽपरे तुलाभागे न्यसे-युर्द्विजपुङ्गवाः । समादभ्यधिकं यावत् काञ्चनं चाति-निर्मलम् । पुष्टिकामस्तु कुर्यीत भूमिसंस्थं नरेश्वरः । क्षण-मात्रं ततः स्थित्वा पुनरेवमुदीरयेत् । नमस्ते सर्व-भूतानां साक्षिभूते! सनातनि! । पितामहेन देवि!त्वं निर्मिता परमेष्ठिना । त्वया धृतं जगत्सर्वं सह-स्थावरजङ्गमम् । सर्वभूतात्मभूतस्थे! नमस्ते विश्वधा-रिणि! । ततोऽवतीर्य्य गुरवे पूर्वमर्द्धं निवेदयेत् ।ऋत्विग्भ्योऽपरमर्द्धन्तु दद्यादुदकपूर्वकम् । गुरवे ग्राम-रत्नानि ऋत्विग्भ्यश्च निवेदयेत् । प्राप्य तेषामनुज्ञां तुतथान्येभ्योऽपि दापयेत् । दीनानाथविशिष्टादीन् पूज-येद्ब्राह्मणैः सह । न चिरं धारयेद्गेहे सुवर्णं प्रोक्षितंबुधः । तिष्ठद्भयावहं यस्माच्छोकव्याधिकरं नृणाम् ।शीघ्रं परस्वीकरणाच्छ्रेयः प्राप्नोति मानवः । अनेनविधिना यस्तु तुलापुरुषमाचरेत् । प्रतिलोकाधिपस्थानेप्रतिमन्वन्तरं वसेत् । विमानेनार्कबर्णेन किङ्किणीजाल-मालिना । पूज्यमाबोऽप्सरोभिश्च ततो विष्णुपुरं व्रजेत् ।कल्पकोटिशतं यावत्तस्मिन् लोके महीयते । कर्म्मक्ष-यादिह पुनर्भुवि राजराजो भूपालमौलिमणिरञ्जित-पादपीठः । श्रद्धान्वितो भवति यज्ञसहस्रयाजी दीप्त-प्रतापजितसर्बमहीपलोकः । यो दीयमानमपि पश्यतिभक्तियुक्तः कालान्तरे स्मरति वाचयतीह लोके । योवा शृणोति पठतीन्द्रसमानरूपः प्राप्तोति धाम सपुरन्द-रदेवजुष्टम्” । अन्यविधानं हेमा० दा० वृश्यम् एतत्प्रयोगस्तु मत्कृततुलादानादिपद्धतौ दृश्यः ।२ व्रतभेदे । तच्चव्रतं पञ्चदशदिमसाध्यमेकविंशतिदिन-साध्यञ्च यथा ।“पिन्याकाचमतक्रोदकलक्तूनामुपवासान्तरितोऽभ्य-व्यवहारास्तुलापुरुषः” । विष्णु० स० । “पिन्याका-चामतक्राम्बुसक्तूनां प्रतिवासरम् । एकरात्रोपवासश्चकृच्छ्रः सौम्योऽयमुच्यते” इत्युपक्रमे “एषां त्रिरात्र-मभ्यासादेकैकस्य यथाविधि । तुलापुरुष इत्येष ज्ञेयःपञ्चदशाहिकः” । एषां पिन्याकादीनां पञ्चानां क्रमे-नैकैकस्य त्रिरात्राभ्यासेन पञ्चदशाहव्यापी तुलापुरुषाख्यःकृच्छ्रो वेदितव्यः । अत्र पञ्चदशाहिकत्वविधानादुप-वासस्य निवृत्तिः । यमेन त्वेकविंशतिरात्रिकस्तुलापुरुषउक्तः “आचाममथ पिन्याकं तक्रञ्चोदकसक्तुकान् । त्र्यहंत्र्यहम्भयुञ्जानो वायुभक्षस्त्र्यहद्वयम् । एकविंशति-रात्रन्तु तुलापुरुष उच्यते इति” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
