| YouTube Channel

तुर्व्वसुः (turvvasuH)

 
शब्दकल्पद्रुमः
Sanskrit
तुर्व्वसुः,
पुं,
ययातिराजपुत्त्रः (अयं हि देव-यानीगर्भसम्भूतः शापग्रस्तस्य पितुर्ययातेर्जरांनासौ गृहीतवान् ।) यथा, --ययातिरुवाच ।“यत्त्वं मे हृदयाज्जातो वयः स्वं प्रयच्छसि ।तस्मात् प्रजासमुच्छेदं तुर्व्वसो ! तव यास्यति
संकीर्णाचारधर्म्मेषु प्रतिलोमचरेषु ।पिशिताशिषु लोकेषु नूनं राजा भविष्यसि
गुरुदारप्रयुक्तेषु तिर्य्यग्योनिगतेषु ।पशुधर्म्मेषु म्लेच्छेषु पापेषु भविष्यसि
”इति मत्स्यपुराणम्