| YouTube Channel

तुरुष्कः (turuSkaH)

 
Apte Hindi
Hindi
तुरुष्कः
पुं*
- -
तुर्क लोग
Wordnet
Sanskrit
Synonyms:
धूपः, तुरुष्कः, पिण्डकः, सिह्लः, यावनः, यक्षधूपः, सर्जरसः, रालः, सर्वरसः, गन्धपिशाचिका
noun
एकं मिश्रितं गन्धद्रव्यं यस्य ज्वलनेन सुगन्धितः धूमः जायते।
"धूपं गन्धवर्तिकादीञ्च प्रज्वाल्य भगवतः पूजनं क्रियते।"
शब्दकल्पद्रुमः
Sanskrit
तुरुष्कः,
पुं,
गन्धद्रव्यभेदः शिलारस इतिख्यातः तत्पर्य्यायः यवनः धूम्रः धूम्र-वर्णः सुगन्धिकः सिह्लकः सिह्लसारः ७पीतसारः कपिः पिण्याकः १० कपिजः११ कल्कः १२ पिण्डितः १३ पिण्डितैलकः १४करेवरः १५ कृत्रिमकः १६ लेपनः १७ सिह्लः१८ कपिचञ्चलः १९ यावलः २० तैलाख्यः २१पिण्डिकः २२ जावः २३ यावतः २४ इतिशब्दरत्नावली
*
अस्य गुणाः सुरभित्वम् ।तिक्तत्वम् कटुत्वम् स्निग्धत्वम् कुष्ठकफ-पित्ताश्मरीकृच्छ्रमूत्राघातज्वरार्त्तिनाशित्वञ्च ।इति राजनिर्घण्टः
अन्यच्च “अथ शिलारसः ।सिह्लकस्तु तुरुष्कः स्याद्यतोऽपवनदेशजः ।कपितैलञ्च ख्यातस्तथा कपिनामकः
सिह्लकः कटुकः स्वादुः स्निग्धोष्णः शुक्रकान्ति-कृत् ।वृष्यः कण्डूस्वेदकुष्ठज्वरदाहग्रहापहः
”इति भावप्रकाशः
(अस्य शोधनविधिर्यथा, --“तुरुष्को मधुना भाव्यः काश्मीरञ्चापि सर्पिषा
”इति वैद्यकचक्रपाणिसंग्रहे वातरोगाधिकारे
)म्लेच्छजातिविशेषः इति मेदिनी के, १०२
तुरुक् इति भाषा देशविशेषः तुरक्-स्तान् इति पारस्य भाषा तत्पर्य्यायः ।शाखिः इति हेमचन्द्रः २५
श्रीवासवृक्षः इति विश्वः
(घोटकविशेषः ।यथा, अश्ववैद्यके ११ ।“तुरुष्कः कीर्त्तितो वाजी स्थूलवक्रमुखश्च यः
”)