| YouTube Channel

तुरीयं (turIyaM)

 
शब्दकल्पद्रुमः
Sanskrit
तुरीयं,
क्ली,
(चतुर्णां पूरणम् चतुर्थस्थानस्थित-त्वादस्य तथात्वम् ।) ब्रह्म इति वेदान्तसारः
“अज्ञानतदुपहितचैतन्ययोराधारभूतं अनुप-हितचैतन्यम् यथा वनवृक्षतदवच्छिन्ना-काशयोर्जलजलाशयतद्गतप्रतिविम्बाकाशयोर्वाआधारभूतानुपहिताकाशवदनयोरज्ञानतदुप-हितचैतन्ययोराधारभूतं यदनुपहितं चैतन्यंतत्तुरीयमित्युच्यते शान्तं शिवमद्वैतं चतुर्थंमन्यन्ते इत्यादि श्रुतेः ।” इति वेदान्तसारः
(शुक्लयजुर्व्वेदान्तर्गतोपनिषद्बिशेषः यथा, मुक्ति-कोपनिषदि ।“तुरीयातीतसंन्यासपरिव्राजाक्षमालिका
”)