| YouTube Channel

तुम्फकः-म्फिका (tumphakaH-mphikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तुन्फ हिंसार्थः”@} 2 तुम्फकः-म्फिका, तुम्फकः-म्फिका, तुतुम्फिषकः-षिका, तोतुफकः-फिका
तुम्फिता-त्री, तुम्फयिता-त्री, तुतुम्फिषिता-त्री, तोतुफिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकतुन्पधातुवत् 3 बोध्यानि।
क्त्वायां ‘न क्त्वा सेट्’ 4 इत्यस्यापवादतया ‘नोपधात् थफान्ताद्वा’ 5 इति कित्त्वस्य विकल्पितत्वात् कित्त्वपक्षे ‘अनिदिताम्--’ 6 इति नलोपे तुफित्वा इति रूपम्, कित्त्वाभावपक्षे तुम्फित्वा इति रूपद्वयं भवतीति विशेषः।
घञि 7 प्रतुम्फः।
प्रासङ्गिक्यः
01
=>
(७४४)
02
=>
(१-भ्वादिः-४०९। सक। सेट्। पर।)
03
=>
(७४२)
04
=>
(१-२-१८)
05
=>
(१-२-२३)
06
=>
(६-४-२४)
07
=>
[[आ। ‘अत्रुम्प्यधामानमिनं प्रतोफितुं प्रतुम्फशीलान् मिलतोऽथ राक्षसान्।’ धा। का। १। ५३।]]
1 {@“तुन्फ हिंसार्थः”@} 2 तृम्फादिः।
तुम्फकः-म्फिका, तुम्फकः-म्फिका, तुतुम्फिषकः-षिका, तोतुफकः-फिका
तुम्फिता-त्री, तुम्फयिता-त्री, तुतुम्फिषिता-त्री, तोतुफिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि गुन्फधातुवत् 3 ज्ञेयानि।
शतरि सन्तुम्फन्- 4 ती-न्ती।
प्रासङ्गिक्यः
01
=>
(७४५)
02
=>
(६-तुदादिः-१३१२। सक। सेट्। पर।)
03
=>
(४०७)
04
=>
[[B। ‘--राज्ञो नित्यमतुम्पकान् वितुफती बन्धूंश्च सन्तुम्फती।’ धा। का। २। ७४।]]