| YouTube Channel

तुम्पकः-म्पिका (tumpakaH-mpikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तुन्प हिंसार्थः”@} 2 ‘शपि तोपति हिंसायां तत्रैव तुपतीति शे।।’ 3 ‘तत्रैव शशपोस्तुम्पेद्, अर्दने तुम्पयेण्णिचि।’ 4 इति देवः।
5 तुम्पकः-म्पिका, तुम्पकः-म्पिका, तुतुम्पिषकः-षिका, तोतुपकः-पिका
तुम्पिता-त्री, तुम्पयिता-त्री, तुतुम्पिषिता-त्री, तोतुपिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकतुन्पधातुवत् 6 ज्ञेयानि।
अस्य धातोः तुदादित्वात् शतरि-- ‘तुदादिभ्यः शः’ 7 इति शः विकरणप्रत्ययः।
तस्य ‘सार्वधातुकमपित्’ 8 इति ङिद्वद्भावेन ‘अनिदिताम्--’ 9 इति धातोरुपधाभूतस्य नकारस्य शप्रत्यये परतः लोपेऽपि ‘शे तृम्फादीनाम्’ 10 इति वचनेन नुमि तुम्पन् इत्येव रूपम्।
11 स्त्रियां तुम्पती-न्ती, इति रूपद्वयम्।
‘आच्छीनद्योर्नुम्’ 12 इति नुम्विकल्पः।
13 प्रस्तुम्पन्।
प्रासङ्गिक्यः
01
=>
(७४३)
02
=>
(६-तुदादिः-१३१०। सक। सेट्। पर।)
03
=>
(श्लो। १३८)
04
=>
(श्लो। १३९)
05
=>
[[आ। ‘शत्रूल्लोभकरेफरीढितृपिता तृम्फाय तोपार्थिनो राज्ञा नित्यमतुम्पकान् वितुफती बन्धूंश्च सन्तुम्फती’ धा। का। २। ७४।]]
06
=>
(७४२)
07
=>
(३-१-७७)
08
=>
(१-२-४)
09
=>
(६-४-२४)
10
=>
(वा। ७-१-५९)
11
=>
[पृष्ठम्०६७०+ २५]
12
=>
(७-१-८०)
13
=>
[[१। ‘प्रात् तुम्पतौ गवि कर्तरि’ (ग। सू। ६-१-१५७) इति पारस्करादिषु पाठात् प्रपूर्व- कादस्मात् गवि कर्तरि सुट्। एवं तव्यदादिष्वपि ज्ञेयम्।]]