| YouTube Channel

तुत्थं (tutthaM)

 
शब्दकल्पद्रुमः
Sanskrit
तुत्थं,
क्ली,
(तुदति पीडयत्यनेन तुद + “पातॄ-तुदेति ।” उणां इति थक् यद्बा, तुत्थ आच्छादने + अच् ।) खर्परीतुत्थम् ।उपघातुमेदः तुतिया इति भाषा तत्-पर्य्यायः नीलाञ्जनम् हरिताश्मम् तुत्थ-कम् मयूरग्रीवकम् ताम्रगर्भम् अमृ-तोद्भवम् मयूरतूत्थम् शिखिकण्ठम् ९नीलम् १० इति राजनिर्घण्टः
तुत्थाञ्जनम्११ शिखिग्रीवम् १२ वितुन्नकम् १३ मयूर-कम् १४ इत्यमरः १०१
तूतकम् १५मृषातुत्थम् १६ मृतामदम् १७ इति शब्दचन्द्रिका
अस्य गुणाः कटुत्वम् कषाय-त्वम् उष्णत्वम् श्वित्रनेत्रामयनाशित्वम् ।सर्व्वविषदोषशमनत्वम् वान्तिकारकत्वञ्च ।इति राजनिर्घण्टः
क्षारत्वम् निर्म्मलत्वम् ।लघुत्वम् भेदकत्वम् कृमिकण्डुकुष्ठकफनाशि-त्वञ्च इति राजवल्लभः
*
“तुत्थं वितुन्नकं चापि शिखिग्रीवं मयूरकम् ।तुत्थं ताम्रोपधातुर्हि किञ्चित्ताम्रेण तद्भवेत्
किञ्चित्ताम्रगुणं तस्माद्बक्ष्यमाणगुणञ्च तत् ।तुत्थकं कटुकं क्षारं कषायं वामकं लघु
लेखनं भेदनं शीतं चक्षुष्यं कफपित्तहृत् ।विषाश्मकुष्ठकण्डूघ्नं खर्परं चापि तद्गुणम्
”इति भावप्रकाशस्य पूर्व्वखण्डे भागे
(अस्य शोधनविधिर्यथा, --“ओतोर्व्विष्ठासमं तुत्थं सक्षौद्रं टङ्गणाङ्घ्रियुक् ।त्रिधा सुपुटितं शुद्धं वान्तिभ्रान्तिविवर्ज्जितम्
”अन्यच्च ।“गन्धकेन समं तुत्थं तुत्थार्द्धेनार्द्धयामकम् ।वान्तिभ्रान्ती यदा स्तस्तदा सिद्धिं विनिर्द्दि-शेत्
”शोधितस्यास्य गुणा यथा, --“तुत्थं सकटुकक्षारं कषायं विशदं लघु ।लेखनं भेदि चक्षुष्यं कण्डूक्रिमिविषापहम्
”इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-कारे
)रसाञ्जनम् ग्रावा इत्युणादिकोषः
अग्निः ।इति संक्षिप्तसारे उणादिवृत्तिः
अग्नौ पुं ।इति हेमचन्द्रः