| YouTube Channel

तुतुञ्जिषकः-षिका (tutuJjiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तुजि पालने”@} 2 ‘-- अभिहिते त्वर्थे पदं तुञ्जयेत्।’ 3 इति देवः।
तुञ्जकः-ञ्जिका, तुञ्जकः-ञ्जिका, तुतुञ्जिषकः-षिका, तोतुञ्जकः-ञ्जिका
तुञ्जिता-त्री, तुञ्जयिता-त्री, तुतुञ्जिषिता-त्री, तोतुञ्जिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि कुठिधातुवत् 4 बोध्यानि।
क्विपि-- तुन्-तुन्जौ-तुन्जः इति रूपाणि।
पचाद्यचि तुञ्जः।
घञि तुङ्गः, न्यङ्क्वादि- त्वात् कुत्वम्।
प्रासङ्गिक्यः
01
=>
(७३२)
02
=>
(१-भ्वादिः-२४५। सक। सेट्। पर।)
03
=>
(श्लो। ६६)
04
=>
(२०९)
1 {@“तुजि हिंसाबलादाननिकेतनेषु”@} 2 ‘--अभिहिते त्वर्थे पदं तुञ्जयेत्।’ 3 इति देवः।
अभिहितोऽर्थः = भाषणरूपः इति पुरुषकारः।
केचिदमुं धातुं तुज इति पठन्ति।
तुञ्जकः-ञ्जिका, तुतुञ्जयिषकः-षिका, तुञ्जकः-ञ्जिका, तुतुञ्जिषकः-षिका, तोतुञ्जकः-ञ्जिका
तुञ्जयिता-त्री, तुतुञ्जयिषिता-त्री, तुञ्जिता-त्री, तुतुञ्जिषिता-त्री, तोतुञ्जिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचितिधातुवत् 4 ज्ञेयानि।
अस्य धातोः इदित्त्वात् णिचो षैकल्पिकत्वं बोध्यम्।
घञि-- 5 तुञ्जः।
6
प्रासङ्गिक्यः
01
=>
(७३३)
02
=>
(१०-चुरादिः-१५६६। सक। सेट्। उभ।)
03
=>
(श्लो। ६६)
04
=>
(५२३)
05
=>
[[B। ‘आश्वाठितारिकुलतुञ्जविपिञ्जशीलः संपेसयन् गृहमसान्त्वयदेष गोपीः।’ धा। का। ३। १७।]]
06
=>
[पृष्ठम्०६६४+ २७]
1 {@“तुजि भाषार्थः”@} 2 आस्वदीयः।
‘--अभिहिते त्वर्थे पदं तुञ्जयेत्।’ 3 इति देवः।
तुञ्जकः-ञ्जिका, तुतुञ्जयिषकः-षिका, तुञ्जकः-ञ्जिका, तुतुञ्जिषकः-षिका, तोतुञ्जकः-ञ्जिका
तुञ्जयिता-त्री, तुतुञ्जयिषिता-त्री, तुञ्जिता-त्री, तुतुञ्जि- षिता-त्री, तोतुञ्जिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि कुशि 4 धातुवत् ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(७३४)
02
=>
(१०-चुरादिः-१७५६। सक। सेट्। उभ।)
03
=>
(श्लो। ६६)
04
=>
(२३२)