| YouTube Channel

तुडि (tuDi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
तुण्ड्
मूलधातुः:
तुडि
धात्वर्थः:
तोडने (दारणं हिंसनं च)
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
तुण्डते
धातुप्रदीपः
Sanskrit
तुडिँ तुडि तोडने
- तुण्डने तुतुण्डे तुण्डः तुण्डा इन् सर्वधातुभ्यः (उण्, 4/119) तुण्डिः तुण्डिभः ।। 273 ।।
वाचस्पत्यम्
Sanskrit
तुडि स्त्री तुड--इन् किच्च तोडने
क्षीरतरङ्गिणी
Sanskrit
तुडिँ तुडि तोडने
-(अर्थविवरणम्) तोडनं हिंसा
तुण्डते, तुण्ड्यते तुण्डम् उणादौ (द्र0 4117) तुण्डिः 269
धातुवृत्तिः
Sanskrit
तुडिँ तुडि (अर्थः) तोडने
(अर्थविवरणम्) तोडनं दारणं हिंसनं
( तुण्डते ) इत्यादि ( तुण्डिः ) "इन्'' इतीन्प्रत्ययो नाभिवृद्धौ सास्यास्तीति तुण्डिलः "तुण्डादिभ्य इलच्च'' इत्यत्र स्वाङ्गाद् वृद्धाविति गण्सूत्रेण वृद्धौ वृत्तात्स्वाङ्गादस्मादिलच् तुण्डिल एव तुण्डिभः "तुण्डिवलिवटेर्भः''इति मत्वर्थीयो भः तुण्डिलो बहुभाषी "सलिकल्पनी'' इत्यादिनेलच् अयमनिदित्परस्मैपदिषु 273
कृदन्तरूपमाला
Sanskrit
1 {@“तुडि तोडने”@} 2 ‘तोडनार्थे तुडेस्तुण्डेः तुडेत् तोडति तुण्डते।।’ 3 इति देवः।
“तोडनं-दारणं हिंसनं च” इति मा।
धा।
वृत्तौ।
4 तुण्डकः-ण्डिका, तुण्डकः-ण्डिका, तुतुण्डिषकः-षिका, तोतुण्डकः-ण्डिका
5 तुण्डिता-त्री, तुण्डयिता-त्री, तुतुण्डिषिता-त्री, तोतुण्डिता-त्री, इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककुठिधातुवत् 6 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(७३७)
02
=>
(१-भ्वादिः-२७६। सक। सेट्। आत्म।)
03
=>
(श्लो। ८८)
04
=>
[[C। ‘स भण्डिलो भोजनृपालपिण्डभुक् प्रमुण्डितांस्तत्र जनानतुण्डकान्।।’ धा। का। १। ३६।]]
05
=>
[पृष्ठम्०६६५+ २७]
06
=>
(२०९)