| YouTube Channel

तुङ्गकः (tuGgakaH)

 
शब्दकल्पद्रुमः
Sanskrit
तुङ्गकः,
पुं,
(तुङ्ग + स्वार्थे संज्ञायां वा कन् ।) पुन्नाग-वृक्षः इति शब्दरत्नावली
(अरण्यरूप-तीर्थविशेषे, क्ली यथा, महाभारते ८५ ।४६-५४ ।“तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः ।वेदानध्यापयत् तत्र मुनीन् सारस्वतः पुरा
तत्र वेदेषु नष्टेषु मुनेरङ्गिरसः सुतः ।ऋषीणामुत्तरीयेषु सूपविष्टो यथासुखम्
ओँकारेण यथान्यायं सम्यगुच्चारितेन ।येन यत् पूर्व्वमभ्यस्तं तत् सर्व्वं समुपस्थितम्
ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः ।हरिर्नारायणस्तत्र महादेवस्तथैव
पितामहश्च भगवान् देवैः सह महाद्युतिः ।भृगुं नियोजयामास यजनार्थं महाद्युतिम्
ततः चक्रे भगवानृषीणां विधिवत्तदा ।सर्व्वेषां पुनराधानं विधिदृष्टेन कर्म्मणा
आज्यभागेन तत्राग्निं तर्पयित्वा यथाविधि ।देवाः स्वभवनं याता ऋषयश्च यथाक्रमम्
तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम ! ।पापं प्रणश्यत्यखिलं स्त्रिया वा पुरुषस्य वा
तत्र मासं वसेद्धीरो नियतो नियताशनः ।ब्रह्मलोकं व्रजेद्राजन् ! कुलञ्चैव समुद्धरेत्
”)