| YouTube Channel

तुग्र्य्या (tugryyA)

 
वाचस्पत्यम्
Sanskrit
तुग्र्य्या स्त्री तुज--रक् न्यङ्क्वा० कुः स्वार्थे यत् जले नि-घण्टुः “आवः शमं वृषभं तुग्र्य्यासु” ऋ० ३३ १५ ।“तुग्र्यासु जलेषु” भा० निघण्टौ बुसं तुग्र्यमिति पाठा-न्तरात् जले
न०
तदनुसारेण “पिब स्वधैनवानामुतयस्तुग्र्ये सचा” ३२ २० बुसं तुग्र्यमित्युदक्रनामसुपाठात्” भा० वस्तुतस्तु निघण्टौ बुसं तुग्रं तुग्र्यावर्वर-मित्येव पाठः मुद्रितपुस्तके तुग्रमिति पतितम् तुग्रस्यराजर्षेरपत्यं बा० यत् तुग्रपुत्रे भुज्यौ
पु०
“अस्तंवयो तुग्र्यम्” ऋ० २३ “तुग्र्यं तुग्रपुत्रम्” भा०