| YouTube Channel

तीर्थराजि (tIrtharAji)

 
Apte Hindi
Hindi
तीर्थराजिः
पुं*
तीर्थ-राजिः -
बनारस का विशेषण
Shabdartha Kaustubha
Kannada
तीर्थराजि (जी)
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಾಶಿ /ವಾರಾಣಸಿ
निष्पत्तिः - > वा "ङीष्"
व्युत्पत्तिः - > तीर्थानां राजिरत्र
विस्तारः - > "वाराणसी तीर्थराजी" - त्रिकाण्ड०
L R Vaidya
English
tIrTa-rAji {% f. %} an epithet of Benares.
वाचस्पत्यम्
Sanskrit
तीर्थराजि(जी) स्त्री तीर्थानां राजिरत्र अविमुक्तेकाश्यां त्रिका० वा ङीप् निन्दनातत्राष्टषष्टितीर्थाना-मानयनात्तथात्वम् यथोक्तं काशी० ६९ अ० ।“सर्वरत्नमया रम्या साष्टषष्टिरभूदिह भूर्भुवःस्वस्तलेयानि शुभान्यायतनानि हि मुक्तिदान्यपि तानीह मयाऽऽनीतानि सर्वतः यतोयच्च समानीतं यत्र यच्च कृतास्पदम् ।कथयिष्याम्यहं नाथ! क्षणं तदवधीयताम् स्थाणुर्नाममहालिङ्गं देवदेवस्य मोक्षदम् कुरुक्षेत्रादिहोद्भूतंकलाशेषोऽस्ति तत्र वै तदग्रे सन्निहित्याख्या महापु-ष्करिणी शुभा लोलार्कपश्चिमे भागे कुरुक्षेत्रस्थली तुसा तत्र स्नातं कृतं जप्तं तप्तं दत्तं शुभार्थिभिः ।कुरुक्षेत्राद्भवेत् सत्यं कोटिकोटिगुणाधिकम् नैमिषार्द्धेवदेवोऽत्र ब्रह्मावर्त्तेन संयुतः तत्रांशमात्रं संस्थाप्य का-श्यामाविरभूद्विभो! ढुण्ढिराजोत्तरे भागे सिद्धिदंसाधकस्य वै लिङ्गं वै देवदेवाख्यं तदग्रे कूप उत्तमः ।ब्रह्मावर्त्त इति ख्यातः पुनरावृत्तिकृन्नृणाम् तत्कूपाद्भिःकृतम्रानो देवदेवं समर्च्च्य तत्पुण्यान्नैमिषार-ण्यात् कोटिवोटिगुणं स्मृतम् गोकर्ण्णायतनादत्रस्वयमाविरभून्महत् लिङ्गं महाबलं नाम शाम्बा-दित्यसमीपतः दर्शनात् स्पर्शनाद्यस्य क्षणादेनोमहाबलम् वाताहतस्तुलराशिरिव विद्राति दूरतः ।कपालमोचनपुरो दृष्ट्वा लिङ्गं महाबलम् महाबल-मवाप्नोति निर्वाणनगरं व्रजेत् ऋणमोचनतः प्राच्यांप्रभासात् क्षेत्रसम्भवात् शशिभूषणसंज्ञं तु लिङ्गमत्रप्रतिष्ठितम् तल्लिङ्गं सेवनान्मर्त्यः शशिभूषणतां व्रजेत् ।प्रभासक्षेत्रयात्रायाः पुण्यं प्राप्नोति कोटिकृत् उज्ज-यिम्या महाकालः स्वयमत्रागतो विभुः यन्नामस्मंरणा-देव भयं कलिकालतः प्रणवाख्यान्महालिङ्गात्प्राच्यां कलुषनाशनम् महाकालाभिधं लिङ्गं दर्श-नान्मोक्षदं परम् योगन्धेश्वर लिङ्गं पुष्करात्तीर्थ-सम्भवात् आविरासीदिह महत् पुष्करेण सदैव तु ।मत्स्योदर्य्युत्तरे भागे दृष्ट्वाऽयोगन्धमुत्तमम् स्नात्वाऽ-योगन्धकुण्डे तु भवात्तारयते पितृन् महानादेश्वरंलिङ्गमट्टहासादिहागतम् त्रिलोचनादुदीच्यान्तु तद्-दृष्टिर्मुक्तये सताम् महोत्कटेश्वरं लिङ्गं मरुत्कोटा-टिहागतम् कामेश्वरोत्तरे भागे दृष्टं विमलसिद्धि-दम् विश्वस्थानादिहायातं लिङ्गं वै विमलेश्वरम् ।स्वर्लीतात् पश्चिमे भागे दृष्टं विमलसिद्धिदम् महाव्रतंमहालिङ्गं महेन्द्रादिह मंस्थितम् स्कन्देश्वरसमीपेतु महाव्रतफलपदम् वृन्दारकर्षिवृन्दानां स्तुवतां प्रथमेयुगे उत्पन्नं यन्महालिङ्गं भूमिं भित्त्वा सुदुर्भिदाम् ।महादेवेति तैरुक्तं यन्मनोरथपूरणात् वाराणस्यांमहादेवस्तदारभ्याभवच्च यत् मुक्तिक्षेत्रं कृतं येनमहालिङ्गेन काशिका अविमुक्ते महादेवं यो द्रक्ष्यंत्यत्र मानवः शम्भुलोके गमस्तस्य यत्र तत्र मृतस्यहि अविमुक्ते प्रयत्नेन तत् संसेव्यं मुमुक्षुभिः ।कल्पान्तरेऽपि त्यक्तं कदाप्यानन्दकाननम् येन लिङ्ग-स्वरूपेण महादेवेन सर्वथा तत्प्रसादोऽयमतुलः सर्व-रत्नपयः शुभः हिरण्यगर्भतीर्थाच्च प्रतीच्यां क्षेत्ररक्षिका वाराणस्यामधिष्ठात्री देवता साभिलाषदा ।महादेवेति संज्ञा वै सर्वलिङ्गस्वरूपिणी वाराणस्यांमहादेवो दृष्टो यैर्लिङ्गरूपधृक् तेन त्रैलोक्यलिङ्गानिदृष्टानीह संशयः वाराणस्यां महादेवं समभ्यर्च्यसकृन्नरः आहूतसंप्लवं यावच्छिवलोके वसेन्मुदा ।पवित्रपर्वणि सदा श्रावणे मासि यत्नतः लिङ्गेपवित्रमारोप्य महादेवे गर्भभाक् पितामहेश्वरं लिङ्गंगयातोर्थादिहागतम् फल्गुप्रभृतिभिस्तीर्थैः सार्द्धंकोट्यष्टसम्मितैः धर्म्मेण यत्र वै तप्तं युगानामयुतंशतम् साक्षीकृत्य महालिङ्गं श्रीमद्धर्मेश्वराभिधम् ।पितामहेश्वरं लिङ्गं तत्राभ्यर्च्य नरोमुदा त्रिःसप्त-कुलसंयुक्तो मुच्यते नस्त्र संशयः प्रयागतीर्थराजस्यशूलटङ्को महेश्वरः तीर्थराजेन सहितः स्थित आगत्यवै स्वयम् निर्वाणमण्डपाद्रम्यादवाच्यामतिनिर्मलः ।प्रासादो मेरुणा यस्य स्पर्द्धते काञ्चनोज्ज्वलः देवेनैव-वरो दत्तो तत्र पूर्वयुगान्तरे पूज्यो महेश्वरः काश्यांप्रथमं कलुषापहः यः प्रयाग इह स्नातो नमस्यंतिमहेश्वरम् समभ्यर्च्य विधानेन महासम्भारविस्तरैः ।प्रयागस्नानजात् पुण्यं शूलटङ्कविलोकनात् सप्राप्तुयान्न सन्देहः पुण्यं कोटिगुणोत्तरम् शङ्कु-कर्ण्णान्महाक्षेत्रान् महातेज इतीरितम् लिङ्गमाविर-भूदत्र महातेजोभिवृद्धिदम् महातेजोनिधेस्तस्यप्रासादोऽतीव निर्मलः ज्वालाजटिलिताकाशो माणि-क्यैरेव निर्मितः तल्लिङ्गदर्शनात् स्पर्शात् स्तवनाच्चसमर्च्चनात् प्राप्यते तत् पुरं धाम यत्र गत्वा नशोचते विनायकेश्वरात् पूर्वे महातेजःसमर्च्चनात् ।तेजोमयेन यानेन याति माहेश्वरं पदम् रुद्रकोटिसमाख्यातात्तीर्थात् परमपावनात् महायोगोश्वरं लिङ्ग-माविश्चक्रे स्वयं परम् पार्वतोश्वरलिङ्गस्य समीपेसर्वसिद्धिकृत् तल्लिङ्गदर्शनात् पुंसां कोटिलिङ्गफलंलभेत् तत्प्रासादस्य परितो रुद्राणां कोटिस-म्मिता प्रासादरम्यसंस्थाना निर्मिता रुद्रमूर्त्तिभिः ।काश्यां रुद्रस्थली सा तु पठ्यते वेदवादिभिः रुद्रस्थल्यांमृता यो वै कृमिकीटपतङ्गकाः पशुपक्षिमृगा मर्त्याम्लेच्छा वाऽप्यथ दीक्षिताः तेषां तु रुद्रीभूतानां पुन-रावृत्तिरत्र जन्मान्तरसहस्रेषु यत् पापं समुपा-र्जितम् रुद्रस्थलीं प्रविष्टस्य तत् सर्वं व्रजति क्षयम् ।अकामो वा सकामो वा तिर्य्यग्योनिगतोऽपि वा रुद्र-स्थल्यां त्यजन् प्राणान् परं निर्वाणमाप्तुयात् स्वय-मेकाम्बरात् क्षेबात् कृत्तिवासा इहागतः कृत्तिवाससिलिङ्गेऽत्र स्वयमेव व्यवस्थितः अस्मिन् लिङ्गे स्वसक्तानांसाम्बः सर्षिगणो विभः स्वयञ्चोपदिशेद्ब्रह्म श्रुतौश्रुतिभिरीरितम् क्षेत्रेऽत्र सिद्धिदे प्राप्तश्चण्डीशोमरुजाङ्गलात् प्रचण्डषपसंथातं खण्डयेच्छतधे-क्षणात् पाशपाणिगणाध्यक्षसमीपे यः प्रपश्यति ।चण्डीश्वरं महालिङ्गं याति परमां गतिम् काल-ञ्जरान्नीलकण्ठस्तिष्ठेदत्र स्वयं विभु षेशात् कूट-दन्ताख्यात् समीपे भवनाशनः नीलकण्ठेश्वरं लिङ्गंकाश्यां यैः परिपूजितम् नीलकण्ठास्तएव स्युस्तएवशशिभूषणाः काश्मीरादिह संप्राप्तं लिङ्गं विजय-संज्ञितम् सदा विजयदं पुंसां विजयेशः समर्च्च-नात् ऊर्द्ध्वरेतास्त्रिदण्डायाः संप्राप्तोऽत्र स्वगंविभुः ।कुष्माण्डकं गणाध्यक्षं पुरस्कृत्वा व्यवस्थितः ऊर्द्ध्वांगतिमवाप्तोति वीक्षणादूर्द्ध्वरेतसः ऊर्द्ध्वरेतसि येभक्ता हि तेषामधोगतिः मण्डलेश्वरतः क्षेत्रा-ल्लिङ्गं श्रीकण्ठसंज्ञितम् विनायकान्मुण्डसंज्ञादुत्तरस्यांदिशि स्थितम् श्रीकण्ठस्य तु ये भक्ताः श्रीकण्ठा एवते नराः नेह श्रिया वियुज्यन्ते परत्र कदाचन ।छागलाण्डान्महातीर्थात् कपर्द्दीश्वरसंज्ञितः पिशाचमोचने तीर्थे स्वयमाविरभूद्विभुः कपर्दीशं समभ्यर्च्च्यन नरो निरयं व्रजेत् पिशाचत्वमाप्नोति कृत्वाऽ-त्राप्यवमुत्तमम् आषाडकेश्वरात् क्षेत्रात् लिङ्गंसूक्ष्मेशसंज्ञितम् स्वयमभ्यागतं चात्र क्षेत्रे वै श्रेयसांपदे विकटद्विजसंज्ञस्य गणेशस्य समीपतः दृष्ट्वालिङ्गेश्वरं लिङ्गं गतिं शुभामवाप्नुयात् संप्राप्तमिहदेवेशं जयन्तं मधुकेशवात् लम्बोदराद्गणपतेः पुरस्ता-त्तदवस्थितम् जयन्तेश्वरमालोक्य स्नात्वा गङ्गाजलेशुभे प्राप्नुयाद्वाञ्छितां सिद्धिं सर्वत्र विजयी भवेत् ।प्रादुश्चकार देवेशः श्रीशैलात्त्रिपुरान्तकः श्रीशैलशिखरंदृष्ट्वा यत् फलं समुदीरितम् त्रिपुरान्तकमालोक्य तत्-फलं हेलयाप्यते विश्वेशात् पश्चिमे भागे त्रिपुरान्तक-मीश्वरम् संपूज्य परया भक्त्या नरो गर्भमावि-शेत् सोम्यस्थानादिहायातो भगवान् कुक्कुटेश्वरः ।वक्रतुण्डगणाध्यक्षसर्मीपे सोऽवतिष्ठते तद्दर्शनादर्च्च-नाच्च करस्थाः सर्वसिद्धयः जलेश्वरात्त्रिशूली स्वय-भीशः समागतः एकदन्तोत्तरे भागे सोऽर्च्चितः सर्व-कामदः त्रिसन्ध्याक्षेत्रतो देवस्त्र्यम्बकोऽस्ति समागतः ।त्रिमुखात् पूर्वदिग्भागे पूजितस्त्र्यम्बकत्वकृत् हरेश्वरोहरिश्चन्द्रात्क्षेत्रादत्र समागतः हरिश्चन्द्रेश्वर-पुरः पूजितो जयदः सदा इह सर्वः समायातःस्थानात् मध्यमकेश्वरात् चतुर्वेदेश्वरं लिङ्गं पुरोवायव्यसंस्थितम् सर्वलिङ्गं समभ्यर्च्च्य काश्यां परम-सिद्धिकृत् जातु जन्तुपदवीं प्राप्नुयात् क्वापिमानवः स्थलेश्वरान्महालिङ्गं प्रादुर्भूतं परन्त्विह ।यत्र यज्ञेश्वरं लिङ्गं सर्वयज्ञफलप्रदम् महालिङ्गंसमभ्यर्च्च्य महाश्रद्धासमन्वितः महतीं श्रियमाप्नोतिलोकेऽत्र परत्र इह लिङ्गं सहस्राख्यं सुवर्ण्णा-ख्यात् समागतम् यस्य संदर्शनात् पुंसां ज्ञानचक्षुःप्रजायते शैलेश्वरादवाच्यान्तु सहस्राक्षेश्वरं विभुम् ।दृष्ट्वा जन्मसहस्राणां शतानां पातकं त्यजेत् हर्षिता-द्धर्षितं चात्र प्रादुरासीत्तमोहरम् लिङ्गं हर्षप्रदंपुंसां दर्शनात् स्पर्शनादपि महेन्द्रेश्वरसमीपे तुप्रासादो हर्षितेशितुः तद्विलोकनतः पुंसां नित्यंहर्षपरम्परा इह स्वयं समायातो रुद्रो रुद्रमहा-लयात् यस्य दर्शनतो यान्ति रुद्रलोके नराः स्फुटम् ।यैस्तु रुद्रेश्वरं लिङ्गं काश्यामत्र समर्च्चितम् तेरुद्ररूपिणो मर्त्या विज्ञेया नात्र संशयः त्रिपुरंशसमीपे तु दृष्टा रुद्रेश्वरं विभुम् रुद्रास्त एव विज्ञेयाजीवन्तोऽपि मृता अपि आगादिह महादेवो वृषेशोवृषभध्वजात् वाणेश्वरस्य लिङ्गस्य समीपे वृषदःसदा इहागतं तु केदारादीशानेश्वरसंज्ञितम् तत्द्रष्टव्यं प्रतीच्यां लिङ्गं प्रह्लादकेश्वरात् ईशा-नेशं समभ्यर्च्च्य स्नात्वा तु वरणाम्भसि वसेदीशान-नगर ईशानसदृशप्रभः भैरवाद्भैरवीमूर्त्तिरत्रायातामनोहरा संहारभैरवो नाम द्रष्टव्यः प्रयत्नतः ।पूजनात् सर्वसिद्धौ प्राच्यां खर्वविनायकात् संहार-भैरवः काश्यां संहरेदघसन्ततिम् उग्रः कनखलात्तीर्था-दाविरासीत् सुसिद्धिदः तद्विलोकनतो नॄणामुग्रं पापंविनश्यति उग्रं लिङ्गं सदा सेव्यं प्राच्यां खर्वविनाय-कात् अत्युग्रा अपि नश्येयुरुपसर्गास्तदर्च्चनात् वस्त्रा-पथान्महाक्षेत्राद्भवो नाम स्वयं बिभुः प्राच्यां दण्डीश्वरःपूज्यः सदेहलिविनायकात् तस्यार्च्चनेन मर्त्यानां नपुनर्भव ईक्ष्यते भीमचण्डीसमीपे तु प्रादुराशीदिह प्रभुः ।भवेश्वरं समभ्यर्च्च भवे नाविर्भवेन्नरः प्रभुर्भवति सर्वेषांराज्ञामाज्ञाकृतामिह देवदारुवनाद्दण्डी दण्डयन्पातकाबलीः वाराणस्यां समागत्य स्थितो लिङ्गाकृति-र्भवः प्राच्यां दण्डीश्वरः पूज्यः देहलिविनाय-कात् तस्यार्च्चनेन मर्त्यानां पुनर्भव ईक्ष्यते भद्र-कर्ण्णह्रदाद्दण्डो भद्रकर्णह्रदान्वितः शिवः साक्षादि-हायातः सर्वेषां शिवदोऽर्च्चितः उद्दण्डाख्याद्गणपतेःप्राच्यां तत्तीर्थमुत्तमम्! भद्रकर्णह्रदे स्नात्वाऽभ्यर्च्च्यलिङ्गंशिवाह्वयम् सर्वत्र शिवमाप्नोति भद्रं भवविनाशकम् ।शृणुयात् सर्वभूतानां भद्र पश्यति चाक्षिभिः शङ्करश्चहरिश्चन्द्रात् त्वत्पुरः प्रतिभासते तत्पूजनाज्जनानां नजननीजठरे जनिः यमलिङ्गाम्महातीर्थात् काललिङ्ग-मिह स्थितम् कलशेश इति ख्यातं चन्द्रेशात् पश्चिमेनतु यमतीर्थे नरः स्नात्वा मित्रावरुणदक्षिणे काल-लिङ्गं समालोक्य कलिकालभयं कुतः तत्र भौमचतुर्दश्यां यस्तु यात्रां करिष्यति अपि पातकयुक्तश्चयमयात्रां यास्यति नेपालाच्च महाक्षेत्रादायात्पशुपतिस्त्विह यत्र पाशुपतो योग उपदिष्टः पिनाकिना महता देवदेवेन ब्रह्मादिभ्यो विमुक्तये तस्य सं-दर्शनादेव पशुपाशौर्वयुज्यते करवीरकतीर्थाच्च कपा-लीश इहागतः कपालमोचने तीर्थे द्रष्टव्यः सप्रयत्नतः तद्विलोकनमात्रेण ब्रह्महत्या विलीयते ।उमापतिर्देविकाया इहागत्य व्यवस्थितः दृष्टः पशुपतेःप्राच्यां हरेत् पापं चिरार्जितम् लिङ्गं महेश्वरक्षे-त्रादिह दीप्तेशसंज्ञितम् उपोमापति तिष्ठेत्तुदीप्त्यै चेह परत्र भुक्तिमुक्तिप्रदं लिङ्गं दीप्तेशंकाशिमध्यगम् छायारोहणतः क्षेत्रादायातो नकुली-श्वरः शिष्यैः परिवतस्तिष्ठेन्महापाशुपतव्रतैः द-क्षिणे हि महादेवात् दृष्टो ज्ञानं प्रयच्छति अज्ञानंनाशयेत् क्षिप्रं गर्भसंसृतिहेतुकम् गङ्गासागरत-श्चागादमरेशैतीरितम् लिङ्गं यद्दर्शनादेव नामरत्वंहि दुर्लभम् सप्तगोदावरीतीर्थाद्देवोभीमेश्वरः प्रभुः ।प्रकाशते लिङ्गरूपी भुक्त्यै मुक्त्यै नृणामिह नकुली-शात् पुरोभागे दृष्ट्वा भीमेश्वरं प्रभुम् महाभीमानिपापानि प्रणश्यन्ति हि तत्क्षणात् भूतेश्वरात् भस्म-गात्रः प्रादुरासीदिह स्वयम् भीमेशाद्दक्षिणे भागेतदभ्यर्च्च्यं प्रयत्नतः सम्यक् पाशुपताद्योगादभ्यस्ताच्चसमाः शतम् यत्प्राप्नोति फलं तस्माद्भस्मगात्रविलोकनात् नकुलीश्वरतो देवः स्वयम्भुरिति विश्रुतः ।आत्मना प्रकटीभूतः काश्यां लिङ्गाकृतिर्हरः स्वयम्भु-लिङ्गं संपूज्य स्रात्वा सिद्धिह्रदे नरः महालक्ष्मीश्वर-पुरो भूयो जन्मभाग्भवेत् प्रयागतीर्थं निकषाप्रासादो विद्रुमः प्रभुः वाराहस्य महानेष वरणी नामएव हि विन्ध्यपर्व ततः प्राप्तो देवं श्रुत्वा समागतम् ।सगणं सर्षिदेवञ्च मन्दराद्रत्नकन्दरात् काश्यां धरणिवाराहोद्रष्टव्यः प्रयत्नतः आपत्समुद्रसंमग्न-मुद्धरेच्छरणागतम् कर्णिकाराद्गणाध्यक्षः कर्णिकारप्रसूनरुक् समर्च्च्योऽयं गदाहस्त उपसर्गसहस्रहृत् ।तस्माद्धरणिवाराहात् प्रतीच्यां दिशि संस्थितम् पूज-यित्वा गणाध्यक्षं गाणपत्यपदं लभेत् हेमकूटाद्विरू-पाक्षं लिङ्गमत्राविरास महेश्वरादवाच्यां तुदृष्टं संसारतारकम् गङ्गाद्वाराद्विमस्थेशं लिङ्गं हि-मसमप्रभम् ब्रह्मनालात् प्रतीच्यां द्रष्टव्यमिह-सिद्धिदम् गणाधिपश्च कैलासात् गणा अन्ये महावलाः ।कैलासाद्रेः समायाताः सप्तकोटिमिताः प्रभो! दुर्गाणितैः कृतानीह सप्त स्वर्गसमानि सद्वाराणि सय-न्त्राणि सकपाटनिभानि कोटिकोटिभटा-द्यानि सर्वर्द्धिसहितानि सुवर्णरूप्यताम्रैश्च कांस्य-रीतिकसीसकैः अयस्कान्तेन कान्तानि रत्नान्यग्रलिहान्यपि ततः शैलं महादुर्गं तैः काशी परितःकृतम् परिखापि कृता निम्ना मोत्स्योदर्य्या जला-विला मत्स्योदरी द्विधा जाता वहिरन्तश्चरी पुनः ।तच्च तीर्थं महाख्यातं मिलितं गाङ्गवारिभिः यदासंहारमार्गेण गङ्गाम्भः प्रसरेदिह तदा मत्योदरीतीर्थं लभते पुण्यगौरवात् सूर्य्याचन्द्रममोः पर्व-तदा कोटिगुणं शतम् सर्वपर्वाणि तत्रैव सर्वतीर्थानितत्र वै तत्रैव सर्वलिङ्गानि गङ्गा मत्स्योदरी यतः ।मत्स्योदर्य्यां हि ये स्नाता यत्र कुत्रापि मानवाः कृत-पिण्डप्रदानास्ते मातुरुदरेवसाः अविमुक्तमिदं क्षेत्रंमत्स्याकारत्वमाप्नुयात् परितः खर्धुनीवारिसंसारोपरि वीक्ष्यते मत्स्योदर्य्यां कृतस्नाना ये नरास्ते नरो-त्तमाः कृत्वापि बहुपापानि नेक्षन्ते भास्करेः पुरीम् ।किं स्नात्वा वहुतीर्थेषु किं तप्त्वा दुस्करं तपः यदिमत्स्योदरोस्नाताः कुतो गर्भभयं ततः यत्र यत्र हिलिङ्गानि नृदेवर्षिकृतान्यपि तत्र मत्स्योदरीं प्राप्य सु-स्नातो मोक्षभाजनम् सन्ति तीर्थान्यनेकानि भूर्भुवः स्वर्ग-तान्यपि समानि परन्तानि कोट्यंशेनापि निश्चितम् ।इत्थं तीर्थं कृतं तेन विभो! कैलासवासिनः गणा-धिपेन सुमहत्सुमहोदरकर्मणा भूर्भूवःसंज्ञकं लिङ्गंपर्वताद्गन्धमादनात् स्वयमाविरभूदत्र तस्मात् प्राच्यांगणाधिपात् विलोक्य भूर्भुवं लिङ्गं भूर्भुवःस्वर्महःपरे निवसन्ति जनाः पुण्याः सुचिरं दिव्यभोगिनः ।हाटकेशं महालिङ्गं भोगवत्या समायुतम् सप्तपाताल-तलत इहायातं स्वयं विभो! शेषवासुकिमुख्यैश्चतत्प्रासादो महानिह मणिमाणिक्यरत्नोघैर्निरमायिप्रयत्नतः तल्लिङ्गं हाटकमयं रत्नमालाभिरर्चितम् ।ईशानेश्वरतः प्राच्यां पूजनीयं प्रयत्नतः भक्तितोऽभ्यर्च्यतल्लिङ्गं नरः सर्वः समृद्धिमान् क्त्वा भोगभुनसंख्या-तानन्ते निर्वाणमृच्छति आकाशात्तारकं लिङ्गंज्योतीरूपमिहागतम् ज्ञानवाप्याः पुरोभागे तल्लिङ्गंतारकेश्वरम् तारकज्ञानमभ्येति तल्लिङ्गस्य समर्चनात् ।ज्ञानवाप्यां नरः स्नात्वा तारकेशं विलोक्य कृतस-न्ध्यादिनियमः परितर्प्य पितामहान् धृतमौनव्रतोधीमान् यावल्लिङ्गविलोकनम् मुच्यते सर्वपापेभ्यः पुण्यंप्राप्नीति शाश्वतम् प्रान्ते तारकं ज्ञानं यस्मात् ज्ञाना-द्विमुच्यते किराताच्च किरातेश इह चाविर्बभूव ।किरातरूपो भगवान् यत्र देवोऽभवत् पुरा तत्किराते-श्वरं लिङ्गं भारभूतेश्वरादनु नमस्कृत्वा नरो जातुन मातुरुदरेशयः लङ्कापूर्य्याः समागच्छन्मरुकेश्वरसंज्ञकम् ।पौलस्त्यलाघवात् पश्चात् पूजितं सर्वदुःखहृत् पुण्यंजलप्रियं लिङ्गं जललिङ्गस्थलादपि आयातं तच्चगङ्गाया जलमध्ये व्यवस्थितम् तत्प्रासादोऽद्भुततरोमध्येगङ्गं निरीक्ष्यते सर्वधातुमयः श्रेष्ठः सर्वरत्नमयःशुभः अद्यापि दृश्यते कैश्चित् पुण्यसम्भारगौरवात् ।श्रेष्ठं लिङ्गमिहायातं तीर्थात्कोटीश्वरादपि कोटि-लिङ्गेक्षणपुण्यं तल्लिङ्गस्य निरीक्षणात् श्रेष्ठं श्रेष्ठे-श्वरात्पश्चात् श्रेष्ठसिद्धिप्रदायकम् वडवास्यात् समुद्भुतंलिङ्गमात्रानलेश्वरम् नलेश्वरपुरोभागे पूजितं सर्वसि-द्धिदम् आगत्य विरजस्तीर्थाद्देवदेवस्त्रिलोचनः ।लिङ्गे त्वनादिसंसिद्धे ह्यवतस्थे त्रिपिष्टपे पुण्येपिलिम्पिले तीर्थे सर्वेषां तारकप्रदे आविश्चक्रे स्वयंदेव ओङ्कारेऽमरकण्टकात् तदाद्यं तारकक्षेत्रं यदागङ्गा चागता तदैवाविरभूत् काशी त्रैलोक्योद्ध-रणाय वै तदोङ्कृति महल्लिङ्गं स्वयमाविरभूत्ततः ।महिमानं तस्यान्यः परिवेत्ति विभोरृते एतान्यायतनानीश! आनिनाय महान्ति शेषयित्वांशमात्रञ्चतस्मिन् क्षेत्रे निजे निजे इहायातानि पुण्यानिसर्वभावेन नान्यथा प्रासादाः सर्वतः श्रेष्ठा रम्या अभ्रं-लिहा विभो! बहुधातुमयाश्चित्राः सर्वरत्नमहोज्ज्वलाः ।येषां कलसमात्रस्य दर्शनान्मुक्तिराप्यते श्रुत्वा नाम-चैतेषां लिङ्गानां सुरसत्तम! अपि जन्मसहस्रोत्थाःक्षीयन्ते पापराशयः इदानीं को निदेशोऽत्र मयानु-ष्ठेय ईशितः! प्रसादीक्रियतां सोऽपि सिद्धो मन्तव्यएव हि श्रीस्कन्द उवाच श्रुत्वेति नन्दिनो वाक्यंदेवदेवेश्वरो हरः मुदा प्रसाद्य शैलादिमिदं प्रोवाच कु-म्भज! श्रीदेवदेव उवाच साधु कृतं त्वया नन्दिन्!सदानन्दविधायक! विधेहि मे निदेशं चण्डी-र्व्यापारयाधुना नव कोट्यस्तु चामुण्डायाश्चात्र निवसन्तिहि सदैव ताभिः सहिताः भूतवेतालभैरवैः ताःपुरीरक्षणार्थाय सवाहनबलायुधाः प्रतिदुर्गं दुर्ग-रूपाः परितः परिवासय श्रीस्कन्धौवाच नन्दिनंस निदेश्यापि मृडान्या सहितो मृडः ययौ त्रैपिष्टपंक्षेत्रं मुक्तिवीजपुरोहनम् शिलादतनयोऽप्यैशीं मूर्द्ध-न्याज्ञां विधाय आहूय सर्वास्ता दुर्गाः प्रतिदुर्गंन्यवेशयत् निशम्याध्यायमेतञ्च पुण्यायतनगर्भितम् ।नरः स्वर्गापवर्गौ प्राप्नुयात् श्रद्धया क्रमात् श्रुत्वाष्ट-षष्टिमेतां वै महायतनसंभवाम् जातु प्रविशेन्मर्त्योजनन्या जठरीदरीम्”