| YouTube Channel

तीर्णिः (tIrNiH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तॄ प्लवनतरणयोः”@} 2 प्लवनम् = मज्जनम्, तरणम् = लङ्घनम्।
‘अभिभवे च’ इति कविकल्पद्रुमे।
3 तारकः-रिका, 4 तारका, तारकः-रिका, 5 तितरिषकः-तितरीषकः-तितीर्षकः-र्षिका, 6 तेतिरकः-रिका
तरिता-तरीता-त्री, तारयिता-त्री, तितरिषिता-तितरीषिता-तितीर्षिता-त्री, तेतिरिता-त्री
7 तरन्- 8 समुत्तरन्-न्ती, तारयन्-न्ती, तितरिषन्- 9 तितरीषन्-तितीर्षन्-न्ती
तरिष्यन्-तरीष्यन्-न्ती-ती, तारयिष्यन्-न्ती-ती, तितरिषिष्यन्-तितरीषिष्यन्-तितीर्षिष्यन्-न्ती-ती
-- 10 व्यतितरमाणः, तारयमाणः, तारयिष्यमाणः, -- तेतीर्यमाणः, तेतिरिष्यमाणः
11 तीः-तिरौ-तिरः
-- -- -- 12 13 उत्तीर्णम्-तीर्णः-तीर्णवान्, तारितः, तितरिषितः-तितरीषितः-तितीर्षितः-तवान्, तेतिरितः-तवान्
तरः, 14 तेरिवान्, 15 सुतर्मा, 16 रथन्तरं 17, तारः-तितरिषुः-तितरीषुः- 18 तितीर्षुः-तेतिरः
तरितव्यम्-तरीतव्यम्, तारयितव्यम्, तितरिषितव्यम्-तितरीषितव्यम्-तितीर्षितव्यम्, तेतिरितव्यम्
तरणीयम्, तारणीयम्, तितरिषणीयम्-तितरीषणीयम्-तितीर्षणीयम्, तेतिरणीयम्
19 तार्यम्, तार्यम्, तितरिष्यम्-तितरीष्यम्-तितीर्ष्यम्, तेतीर्यम्
ईषत्तरः-दुस्तरः-सुतरः
-- -- तीर्यमाणः, तार्यमाणः, तितरिष्यमाणः-तितरीष्यमाणः-तितीर्ष्यमाणः, तेतीर्यमाणः
20 21 तरः, 22 अवतारः, तारः, तितरिषः-तितरीषः-तितीर्षः, तेतिरः
तरितुम्- 23 अवतरीतुम्, तारयितुम्, तितरिषितुम्-तितरीषितुम्-तितीर्षितुम्, तेतिरितुम्
24 तीर्णिः, 25 तारा, तारणा, तितरिषा-तितरीषा-तितीर्षा, तेतिरा
तरणम्, तारणम्, तितरिषणम्-तितरीषणम्-तितीर्षणम्, तेतिरणम्
26 तीर्त्वा, तारयित्वा, तितरिषित्वा-तितरीषित्वा-तितीर्षित्वा, तेतिरित्वा
वितीर्य, वितार्य, वितितरिष्य-वितितरीष्य-वितितीर्ष्य, वितेतीर्य
तारम् २, तीर्त्वा २, तारम् २, तारयित्वा २, तितरिषम् २-तितरीषम् २-तितीर्षम् २, तितरिषित्वा २-तितरीषित्वा २-तितीर्षित्वा २, तेतिरम्
तेतिरित्वा
27 इत्यनिप्रत्यये गुणः।
तरणिः = सूर्यः।]] तरणिः, 28 इत्युप्रत्ययः।
छायापुष्पफलार्थिनोऽमुं तरन्तीति तरुः = वृक्षः।]] तरुः, 29 इति ईप्रत्ययः।
तरीः = प्लवो वायुश्च।]] तरीः, 30 इत्युनन्प्रत्ययः।
तरुणः = वायुर्युवा च।]] तरुणः।
प्रासङ्गिक्यः
01
=>
(७७८)
02
=>
(१-भ्वादिः-९६९। सक। सेट्। पर।)
03
=>
[[१। ण्वुलि, ‘इत्त्वोत्त्वाभ्यां गुणवृद्धी विप्रतिषेधेन’ (वा। ७-१-१०२) इति वृद्धिः। ‘उरण् रपरः’ (१-१-५१) इति रपरः सन् वृद्धिर्भवति। एवं घञादिष्वपि बोध्यम्।]]
04
=>
[[२। ‘तारका ज्योतिषि’ (वा। ७-३-४५) इति वचनात् ज्योतिषि वाच्ये, ‘प्रत्ययस्थात्--’ (७-३-४४) इति इत्वं भवति। अन्यत्र इत्वे तारिका = दासी।]]
05
=>
[[३। धातोः ॠदन्तत्वेन ‘इट् सनि वा’ (७-२-४१) इतीड्विकल्पः। इट्पक्षे, ‘वॄतो वा’ (७-२-३८) इतीटो दीर्घविकल्पः। इडभावपक्षे, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वे, ‘ॠत इद्धातोः’ (७-१-१००) इति इत्वे, ‘हलि च’ (८-२-७७) इति दीर्घे तितीर्षकः इति रूपम्। एवं सन्नन्ते सर्वत्र रूपत्रयं बोध्यम्।]]
06
=>
[[४। ‘ॠत इद् धातोः’ (७-१-१००) इति इत्वम्। रपरत्वम्। द्वित्वम्। अभ्यासे, ‘गुणो यङ्लुकोः’ (७-४-८२) इति गुणः। ‘यस्य हलः’ (६-४-४९) इति यकारलोपः। एवं यङन्ते सर्वत्र ज्ञेयम्। धातुरूपप्रकाशिकायां तु ‘न धातु- लोप--’ (१-१-४) इति सूत्रस्थोद्योतकारपक्षमवलम्ब्य तेतीरकः-रिका इत्यादीनि यङन्ते दीर्घघटितानि रूपाणि प्रदर्शितानि।]]
07
=>
[[५। शतरि, ‘कर्तरि शपू’ (३-१-६८) इति शपि, शतुः सार्वधातुकत्वेन ङिद्वद्भावात् धातो- रित्वे प्राप्ते, ‘इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन’ (वा। ७-१-१०२) इति गुणे रूपम्।]]
08
=>
[[आ। ‘समुत्तरन्तावव्यथ्यौ नदान् भिद्योद्ध्यसन्निभान्। सिध्यतारामिव ख्यातां शबरीमापतुर्वने।।’ भ। का। ६। ६०।]]
09
=>
[[B। ‘अध्यास्त यं नक्रकुलं स्थवीयो द्विपोऽप्यमङ्क्त्वा यमुत्ततार। नभःस्पृगूर्मिस्तितरीषतोऽस्य हरेर्दधस्यैकपदीमदात् सः।।’ वा। वि। ३। ३८।]]
10
=>
[[६। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानचि, णत्वम्।]]
11
=>
[[७। क्विपि, इत्वे रपरत्वे, ‘र्वोरुपधाया दीर्घ इकः’ (८-२-७६) इति दीर्घे विसर्गः।]]
12
=>
[पृष्ठम्०६९८+ २४]
13
=>
[[१। सनि विकल्पितेट्कत्वात् निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधे, इत्वे रपरत्वे, दीर्घे, ‘रदाभ्यां निष्ठातो नः--’ (८-२-४२) इति निष्ठानत्वे, ‘रषाभ्यां नो णः--’ (८-४-१) इति णत्वे रूपम्।]]
14
=>
[[२। ‘विभाषा पूर्वाह्णापराह्णाभ्याम्’ (४-३-२४) इत्यत्र भाष्ये ‘पपुष आगतं पपिवद्रूप्यम्।’ इति प्रयोगात् क्वसुर्लोकेऽपि क्वचिद्भवति। अस्य क्वसौ, ‘तॄफलभजत्रपश्च’ (६-४-१२२) इत्येत्वाभ्यासलोपयोः, ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इतीडागमे रूपम्। ‘छन्दस्युभयथा’ (३-४-११७) इत्यनेनास्य- सार्वधातुकसंज्ञायां तु ‘ऋच्छत्यॄताम्’ (७-४-११) इति गुणम्, एत्वाभ्या- सलोपम्, इडागमं बाधित्वा, तितीर्वान् इत्येव रूपमिति स्फुटं बृहच्छब्दे- न्दुशेखरे।]]
15
=>
[[३। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति मनिन्प्रत्ययः। ‘नेड् वशि कृति’ (७-२-८) इतीण्णिषेधः, गुणः।]]
16
=>
[[४। ‘संज्ञायां भॄतॄ--’ (३-२-४६) इत्यादिना संज्ञायां खच्प्रत्ययः। रथन्तरं = साम। ‘इह रथेन तरतीति व्युत्पत्तिमात्रं, त्ववयवार्थानुगमः।’ इति सि। कौमुदी। ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति पूर्वपदस्य मुमागमः। ‘विश्वम्भरा, साम रथन्तराख्यं पतिंवरा चापि धनञ्जयश्च। शत्रुंसहः कोऽपि वसुन्धरा शत्रुंतपोऽरिन्दम एवमूह्यम्।।’ इति प्र। सर्वस्वे।]]
17
=>
(साम)
18
=>
[[आ। ‘तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्।।’ रघुवंशे १। २।]]
19
=>
[[५। ‘ऋहलोर्ण्यत्’ (३-१-१२४) इति ण्यत्।]]
20
=>
[पृष्ठम्०६९९+ २३]
21
=>
[[१। ‘ॠदोरप्’ (३-३-५७) इति भावेऽप् प्रत्ययः। घञपवादः।]]
22
=>
[[२। ‘अवे तॄस्त्रोर्घञ्, (३-३-१२०) इति करणाधिकरणयोर्घञ्।]]
23
=>
[[आ। ‘अवलोक एव नृपतेः स्म दूरतो रभसाद् रथादवतरीतुमिच्छतः। अवतीर्णवान् प्रथममात्मना हरिर्विनयं विशेषयति सम्भ्रमेण सः।।’ शि। व। १३। ७।]]
24
=>
[[३। क्तिनि, इत्वरपरत्वयोः, ‘ॠल्वादिभ्यः क्तिन् निष्ठावद् वाच्यः’ (वा। ८-२-४४) इति क्तिनस्तकारस्य नकारः। णत्वम्।]]
25
=>
[[४। भिदादिषु (३-३-१०४) तारा इति पाठात् ज्योतिषि वाच्ये वृद्धिर्भवति। तु इत्वमिति ज्ञेयम्।]]
26
=>
[[५। ‘श्रयुकः क्किति’ (७-२-११) इतीण्णिषेधे, इत्वरपरत्वदीर्घेषु रूपम्।]]
27
=>
[[६। ‘अशावतॄभ्योऽनिः’ [द। उ। १। १]
28
=>
[[७। ‘भृमृशीतॄ--’ [द। उ। १-९२]
29
=>
[[८। ‘अवितॄ--’ [द। उ। १-८२]
30
=>
[[९। ‘कॄवृतॄदारिभ्य उनन्’ [द। उ। ५-५२]